________________
पिण्डनियुक्तिः- मूलसूत्र
,
अत्रजातावेकवचनं, तेन तिस्रश्रतुर्भङ्गयां भवन्तीति द्रष्टव्यं तत्रैका सचित्तमिश्रपेदाभ्यां द्वितीया सचित्ताचित्तपदाभ्यां तृतीया मिश्राचित्तपदाभ्यां तत्र सचित्तन सचित्तं पिहितं. मिश्रेण सचित्तं, सचित्तेन मिश्र, मिश्रणमिश्रमिति प्रथमा चतुर्भङ्गी, तथासचित्तेन सचित्तं पिहितम्, अचित्तेनसचित्तं, सचित्तेनाचित्तम् अचित्तेनाचित्तमिति द्वितीया चतुर्भङ्गी, तथा मिश्रेणं मिश्र पिहतिं, मिश्रेणाचित्तम, अचित्तेन मिश्रम, अचित्तेनाचित्तमिति तृतीया । तत्र गाथापर्यन्ततुशब्दवचनात् प्रथमचतुर्भङ्गया सर्वेष्वपि भङ्गेषु न कल्पते. द्वितीयतृतीयचतुर्भङ्गिकयोस्तु प्रत्येकमादिमेषु २ त्रिषु भङ्गेषु न कल्पते इत्यर्थः, चरमे तु भङ्गे भजना, साच 'गुरुगुरुणे' त्यादिना स्वयमेव वक्ष्यति । सम्प्रति चतुर्भङ्गीत्र्याविषयावान्तरभङ्गकथनेऽतिदेशमाहमू. (६०१) जह चैव निक्खित्ते संजोगा चेव होंति भंगाय ।
३५२
एमेव पिहिमवि नाणत्तमिणं तइयभंगे ॥
वृ. यथैव निक्षिप्त' इति निक्षिप्तद्वारेसचित्ताचित्तमिश्राणां संयोगाः प्रागुक्ताः यथैव चसचित्तपृथिवीकायः सचित्तपृथिवीकास्योपरिनिक्षिप्त इत्येवंस्वस्थानपरस्थानापेक्षया चतुर्भङ्गात्रयभङ्गेष्वेककस्मिनभङ्गषटत्रिंशत् षट्त्रिंशद्भेदा उक्ताः, सर्वसङ्ख्यया चत्वारि शतानि द्वात्रिंशदधिकानि तथाऽत्रापि पिहितद्वार द्रष्टव्याः, तथाहि प्रागिवात्रापि चतुर्भङ्गीत्रयम, एकैकस्मिंश्र भङ्गे सचित्तः पृथिवीकाय: सचित्तपृथिवीकायेन पिहित इत्यादिरूपतया स्वस्थानपरस्थाने अधिकृत्य षटत्रिंशत् षट्त्रिंशद्भेदाः सर्वसङ्गयया (शतानि ) चत्वारि द्वात्रिंशदधिकानि भङ्गानां । नवरं द्वितीयतृतीयचतुर्भङ्गयोः प्रत्येकं तृतीये भङ्गेऽनन्तरपरम्परमार्गणविद्यो निक्षिप्तद्वारादिदं वक्ष्यमाणं नानात्वमवसेयं, निक्षिप्तेऽन्येनप्रकारेणानन्तरपरम्परमार्गणा कृता अत्र त्यन्येन प्रकारेण करिष्यते इति भावः । तत्र सचित्तपृथिवीकायेनावष्टब्धं मण्डकादि सचित्तपृथिवीकायानन्तरपिहितं, सचित्तपृथिवीकायगर्भपिठरादिपिहितं सचित्तपृथिवीकायपरम्परपिहितं, तथा हिमादिनाऽवष्टब्भं मोदकादि सचित्ताप्कायानन्तरपिहितं हिमादिगर्भपिठरादिना पिहितंसचित्ताप्कायपरम्परपिहितं। सचित्ततेजस्कायादिपिहितमनन्तरं परम्परं च गाथाद्वयेनाह. मू. (६०२ )
अंगारधूवियाई अनंतरो संतरो सरावाई । तत्थेव अइर वाऊ परंपरं बत्थिणा पिहिए ||
मू. (६०३)
अरं फलाइ पिहितं वर्णमि इयरं तु छब्बपिठराई । कच्छवसंचाराई अनंतरानंतरे छ ।
वृ. हा यदास्यात्यादौ संस्वदिमानां मध्येऽङ्गारं स्थायपित्वा हिङग्वादिना वासो दीयते तदा तेनाङ्गारेण केषाश्रित्संस्वेदिमादीनां संस्पर्शोऽस्तीतिता अनन्तरपिहिताः, आदिशब्दाचनकादिकं मुर्मुरादिप्तिमनन्तरपिहितमवगन्तव्यम् अङ्गारभृतन शरावादिना स्थगितं पिठरांदि परम्परपिहितं । तथा तत्रैव' अङ्गारधूपिताढी 'अइरति अतिरोहितमनन्तरपिहितं वायोद्रष्टव्यं यत्राग्रिस्तत्र वायु रितिवचनात. समीरणभृतेन तु बस्तिना उपलक्षणमतत्, बस्तितिप्रभृतिना पिहितं परम्परपिहितमवसेयं । तथा 'वन' वनस्पतिकायविषये फलादिना 'अइर'त्ति अतिरोहितनपिहितमनन्तरपिहितं. 'छब्बपिठरादी' छब्बकस्थाल्यादौ स्थितेनफलादिना पिहितम 'इति परम्परापिहितं । तथा 'असे' सकायविषये कच्छपेन सचारादिना च कीटिकापङ्क्त्यादिना यत्पिहितं तदनन्तरपिहितं, कच्छपसञ्चारादिगर्भपिठरादिना पिहितं परम्परपिहित्तम्, इहानन्तरपिहितमकल्प्य परम्परपिहितं तु यननवा ग्राह्यं । यदुक्तं 'चरमेभंगंमि भयणा उ' इति, तद्धाख्यानयन्नाह - मू. (६०४) गुरु गुरुणा गुरु लहाणा लयं गुरुरण दोऽवि लहुया ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org