________________
३८८
मू. (५८२)
सच्चित्तमीसएस दुविहं कासु होइ निक्खित्तं । एक्केकं तं दुविहं अनंतर परंपरं चैव ॥
वृ.इकायेषु निक्षिप्तं द्विधा, तद्यथा- 'सुचित्तेषु' पृथिव्यादिषुमिश्रेषुच । एकैकमपि द्विधा, तद्यथा- अनन्तरं परम्परंच, तत्र 'अनन्तरम्' अव्यवधानेन 'परम्परं' व्यवधानेन, यथा सचित्तपृथिवीकायस्योपरिस्थापनिका तस्या उपरि देयं वस्तिति, इह परिहार्यापरिहार्यविभागं विना सामान्यतो निक्षिप्तं सचित्ताचित्तमिश्ररूपभेदात्त्रिधा, तत्र च त्रय (तिस्र) अतुर्भङ्ग्यः, तद्यथा - सचिते सचित्तं ? मिश्रे सचित्तं २ सचित्ते ३ मिश्रे मिश्र ४ मित्येका चतुर्भङ्गी, तथा सचित्ते सचित्तम्, अचित्ते सचिनं सचित्तेऽचित्तम् अचित्ते अचित्तमपि द्वितीया चतुभंडी, तथा मिश्र मिश्रम् अचित्ते मिश्र मिश्रेऽचित्तम् अचित्तेऽचित्तमिति तृतीया चतुर्भङ्गी । पुढवी आउक्काए तेऊवाउवणस्स तसाणं ।
मू. (५८३)
एक्वेक्क दुहानंतर परंपरगणंमि सत्तविहा ।।
पिण्डनिर्युक्तिः- मूलसूत्रं
वृ. पृथिव्यप्तजोवायुवनस्पतित्रसकायानां सचित्तानां प्रत्येकंसचित्तपृथिव्यादिषु निक्षेपः सम्भवति, तत्र पृथिवीकायस्य निक्षेपः षोढा, तद्यथा- पृथिवीकायस्य पृविवीकाये निक्षेप इत्येको भेदः, पृथिवीकास्याप्काये इति द्वितीयः, पृथिवीकायस्य तेजकास्ये इति तृत्तीयः, वातकाये इतिचतुर्थः, वनस्पतिकाये इतिपञ्चमः, त्रसकाये इति षष्ठः । एवमप्कायादीनामपि निक्षेपः प्रत्येकं षोढा भावनीयः, सर्वसङ्ख्या षट्त्रिशंभङ्गाः, एकौकोऽपि च भेदो द्विधा, तद्यथा - अनन्तरः परम्परया च, अनन्तरपरम्परव्याख्यानं च प्रागेव कृतं, केवलमग्रिकाये पृथिव्यादीनां निक्षेपः सप्तधा, एतञ्च खयमेव वक्ष्यति ॥ सम्प्रति पृथिवीकाये निक्षेपस्य यदुक्तं प्राक्षोढात्वं तत्सूत्रकृत्साक्षाद्दर्शयतिमू. (५८४)
सचित्त पुढविकाए सचित्तो चेव पुढविनिखित्तो । आऊतेउवणस्सइसमीरणतसेसु एमेव ॥
वृ. सचित्ते पृथिवीकाये सचित्तः पृथिवीकायो निक्षिप्तः, एवमेव पृथिवीकाये इवाप्तेजोवनस्पतिसमीरणसेषु सचित्त एवं पृथिवीकायो निप्ति इति पृथिवीकायनिक्षेपः षोढा । एवं शेषकायेष्वप्यतिदेशमाहमू. (५८५) एमेव सेसयाणवि निक्खेवो होइ जीवकाए । एक्केको सट्टाणे परठाणे पंच पंचैव ॥
वृ. 'एवमेव' पृथिवीकायस्येव 'शेषाणाम्' अप्कायादीनां निक्षेपो भवति 'जीवनिकायेषु' पृथिव्यादिषु तत्रैकेकोभङ्गः स्वस्थाने शेषाः पञ्च पञ्च परस्थाने, तथाहि पृथिवीकायस्य पृथिवीकार्य निक्षेपः स्वस्थान, अप्कायादिषु शेषेषु पञ्चसु परस्थाने, एवमप्कायादीनामपि भावनीयं, ततः स्वस्थाने भङ्ग, परस्थाने पञ्च पञ्च, तदेवं प्रथमचतुर्भङ्गिकायाः सचित्तं सचित्तमित्येवंरूपे प्रथमे भङ्गे षट्त्रिशदभेदाः । सम्प्रति प्रथमचतुर्भङ्गया एव शेषं भङ्गत्रयं द्वितीयतृतीयचतुर्भङ्गयौ चातिदेशतः प्रतिपादयति
मू. (५८६ )
एमेव मीसएसुवि मीसाण सचेयणेसु निक्खेवो ।
मामीसेसु य दोपि य होइऽचित्तेसु ।।
वृ. एवमेव ' सचित्तेषुसचित्तमिव मिश्रेष्वपि मिश्रपृथिव्यादिष्वपिसचित्तपृथिव्यादिनिक्षेपः षट्त्रिंशद्भेदोऽवगन्तव्यः, एतेनप्रथमचतुर्भङ्गया द्वितीयो भङ्गोव्याख्यातः, तथाएवमेव सचेतनेषु सचित्तपृथिव्यादिषु मिश्राणां पृथिव्यादीनां निक्षेपः षट्त्रिंशभ्देदः, एतेन प्रथमचतुर्भङ्गयास्तृतीयो भङ्गो व्याख्यातः, एवमेव मिश्राणां पृथिव्यादीनां मिश्रेषु पृथिव्यादिषु निक्षेपः षट्त्रिंशदभेदः अनेन प्रथमचतुर्भङ्गयाश्रतुर्थो भङ्गो व्याख्यातः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org