________________
३८६
पिण्डनियुक्तिः-मूलसूत्रं मुाना यतिस्तृतीय भङ्ग वर्त्तत । अत्र पर आह. म्. (५७१) जइ संका दोसकरी एवं सुद्धपि होइ अविसुद्धं । .
निस्संकमेसियंति य अनेसणिज्जपि निहोसं॥ वृ. यदिशङ्का दोषकारीततएवं सतीदमायातं-शुद्धमपिशङ्कितं सत् तदशुद्धं भवति, शङ्कदोषदुष्टत्वात, तथा अनेषणीयमपि निःशङ्कितमन्वेषितं सुद्धं प्राप्नोति, शङ्कारहितत्वात, न चैवं युक्तं . खभावतः शुद्भस्याशुद्धस्यवाशङ्काभावाभावमात्रेणान्यथाकर्तुमशक्यत्वात्।अत्रआचार्यआह-सत्यमेतत, तथाहिमू.(५७२) अविसुद्धो परिणामो एयगरे अवडिओ यपक्खंमि।
एसिपि कुणइनेसिं अनेसिमेसिं विसुद्धो।।। वृ.अविशुन्द्रः परिणामः' अध्यवसाय किं, रूपोऽविशुद्धः? इत्याह-एकतरस्मिन्नपिशुद्धमेवेदंभक्तादिक यदिवाऽशुद्धमेवेत्यन्यतरस्मिन्नपिपक्षेऽपतन् एसिपि त्तिएषणीयमपि-शुद्धमपिकरोति अनेषणीयम-अशुद्धं. विशुद्धस्तु परिणामा ययोक्ताऽऽगमविधिना गवेषयतः शुद्धमदमित्यध्यवसायः अनेषणीयमपिस्वभावतोऽशुद्धमपि शुद्धं करोति, श्रुतज्ञानस्य प्रामाण्यत्, तस्मान्न कश्चित् प्रागुक्तो दोषः। म. (५७३) दुविहं चमक्खियं खलु सच्चित्तं चेव होइ अच्चित्तं ।
सच्चित्तं पुण तिविहं अश्चित्तं होइ दुविहं तु ।। वृ. म्रक्षितं द्विधा, तद्यथा-सचित्तमचित्तं च, सचितम्रक्षितमचित्तप्रक्षितं चेत्यर्थः, तत्र यत्सचितेन पृथिव्यादिनाऽवगुण्डितं तत्सचितं, यत्पुनरचितेन पृथिवीरजःप्रभृतिनाऽवगुण्डितं तदचित्तं, तत्र 'मचित्तं' सचित्तम्रक्षितं पुनस्त्रिधा। एतदेव व्याख्यानयतिमू. (५७४) पुढवी आउ वणस्सइ तिविहं सचित्तमक्खियं होइ।
अच्चित्तं पुण दुविहं गरहियमियरे य भयणाउ॥ वृ. सचित्तम्रक्षितं त्रिधा, तद्यथा-पृथिवीकायम्रक्षितपमप्कायप्रक्षितं वनस्पतिकायम्रक्षितं च, सुत्रे च पदैकदेशे पदसमुदायोपचारात् पृथिव्यादिमिश्रितं पृथिवीत्याधुक्तम्। अचित्त-अचित्तम्रक्षित पुनर्द्विविध, तद्यथा-गर्हितमितरच्च,तत्र गर्हित' वसादिनालिप्तम्, इतरद्धृतादिना,अत्रचकल्प्याकल्प्यविधौ भजना विकल्पना, सा चाग्रे वक्ष्यते । सम्प्रति सचित्तपथिवीकायमक्षितं प्रपञ्चतो भावयतिमू. (५७५) सुक्केण सरक्खेणं मक्खिय मोल्लेण पुढविकारण।
सब्बंपि मक्खियं तं एत्तो आउंमि वोच्छामि। वृ. इह सचित्तपृथिवीकाया द्विधा, तद्यथा-शुष्क आर्द्रश्च. तत्र शुष्कण सरजस्कनातीव श्लक्ष्णतया भस्मकल्पन यद्दयं पात्रं हस्तो वा म्रक्षिता यच्चाइँण पृथिवीकायन सचित्तन म्रक्षितं तत्सवं हस्ताटि म्रक्षितं. सचित्तपथिवीकायम्रक्षितमवगन्तव्यं, अत ऊर्द्धमप्कायविषये म्रक्षितं वक्ष्यामि
मू.(५७६/१) पुरपच्छकण ससिणिउल्ले चउरो आउभयाओ।
वृ. अप्काय-अप्कायप्रक्षिते चत्वारो भेदाः, तद्यथा-पुरःकर्म पश्रात्कर्म सस्निग्धमुदकाद्रे च, तत्र भक्तादेदानात्, पूर्वंयत्याध्वर्थकर्महस्तमात्रादेर्जलप्रक्षालनादिक्रियतेतत्पुर:कर्म। यत्पुन-भक्तादोर्दानात्यश्वास्क्रियतेतत्पश्चात्कर्म।सस्निग्धम-ईषलक्ष्यमाणजलखरण्टितंहस्तादि, उदकादस्पष्टोपलभ्यमानसंसर्ग। सम्प्रति वनस्पत्तिकायम्रक्षितं प्रपञ्चयति
मू. (५७६/२) उक्किट्ठरसालित्तं परित्तऽनंतं महिरुहेसु॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org