SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ मूलं-४१७ ३५३ मागें परिभ्रमन्नुपाश्रयेतं साधं दृष्ट्वा तमुपाश्रयं स्फोटयत्. माधुंच कथमपि प्राप्य मारयेत. तम्मान गजस्थ पश्यतो मिण्ठस्यापि सत्कं गृह्णीयात् । तदवमुक्त मनिसृष्टद्वारम, अधुनाऽध्यवपूरकद्धारमाह. म. (४१८) अज्झोयरओ तिविहो जावंतिय सघरमीसपासंडे। मूलंमि य पुवकये ओयरई तिण्ह अटाए॥ वृ.अध्यवपूरकः त्रिविधः त्रिप्रकारः तद्यथा-'जावंतिय' इति स्वगृहमिश्रशब्दयोस्त्रापि सम्बन्धनात् स्वगृहयावदर्थिकमिश्रः सघरमीसे तिअत्रसाधुशब्दोऽध्याहियते, स्वगृहसाधुमिश्रः, पासंडे' इनिअत्रापि यथायोमस्वगृहमिश्रशब्दसम्बन्धः, स्वगृहपाषण्डेिमिश्रः, स्वगृहश्रममिश्रःस्वगृहपापण्डिमिश्रेऽन्तभांवित इति पृथग्योक्तः। विविधस्यापि सामान्यती लक्षणमाह-'मूलंमी'त्यादि, मूले-आरम्भेऽग्रिसन्धुक्षणस्थालीजन्नप्रक्षेपादिरूपे पूर्व यावदर्थिकाद्यागमनात प्रथममेव स्वार्थं निष्पादिते पश्चाद्यथासम्भवं त्रयाणां' यावदर्थिकार्दानामर्थाय अवतारयति' अधिकतरांस्तण्डलादीन प्रक्षिपति. एषोऽध्यवपूरकः अत एव चास्य मिश्रजातादभेदः, यत्तो मिश्रजातं तदच्यतेवत्प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थच मिश्रं निष्पाद्यते. यत्पुनः प्रथमत आरभ्यत्त स्वार्थ पश्चात्प्रभूतान र्थिनः पाचण्डिनः साधून समागतानवगम्य तेधामायाधिकत्तरं जलतण्डुलादि प्रक्षिप्यते सोऽध्यवपूरक इति मिनातादस्य भेदः। अममेव भेदं दर्शयत्ति. म. (११९) संडुलजलआयाणे पुप्फफले सागवेसणे लोणे। परिमाणे नाणत्तं अज्झोयरमीसजाए य ।। वृ.इह'न्यत्ययोऽप्यासा'मितिवचनात्सप्तमी यथायोगंषष्ठ्यर्थे तृतीयार्थे चवेदितव्या. ततोऽयमर्थःअध्यवपूरकस्यमिश्रजातस्यचपरस्परंनानात्वंतण्डुलजलपुष्पफलशाकवेसनलवणानाम् आदाने आदानकालेयविचित्रंपरिमाणंतेनद्रष्टव्यं तथाहिमिश्रजातेप्रथमतएवस्थाल्यांप्रभृतंजलमारोप्यते.अधिकतराश्च तण्डुलाः कण्डनादिभिरुपक्रम्यन्ते, फलादिकमपि च प्रथमतएव प्रभूततरं संरभ्यते. अध्यवपूरके तु प्रथमतः स्वार्थस्तोकतरंतण्डुलादिगृह्यते,पश्चाद्यावदर्थिकादिनिमित्तमधिकतरंतण्डुलादिप्रमिप्यते.तस्मात्तण्डुलादीनामादानकाले यदिचित्रं परिमाणं तेन मिश्राध्यवपूरकयोनानात्वमवसेयं। मू. (४२०) जावंतिए विसोही सघरपासंडि मीसए पूई। छिन्ने विसोही दिन्नंमि कप्पइन कप्पई सेसं॥ वृ. 'यावदर्थिक' यावदर्थिकमिश्रेऽध्यवपूरके शुद्धभक्त मध्यपतिते यदि तावन्मात्रमपनीयते ततो विशोधिर्भवति, अत एव च स्वगृहयावदर्थिकमिश्राऽध्यवपूरको विशोधिकोटिर्वक्ष्यते. स्वगृहपापण्डिमिश्रे उपलक्षणमेतत् स्वगृहसाधुमिश्ने च शुद्धभक्त मध्यपतिने पतिर्भवत्ति, सकलमपि तदभक्तं पूतिदोषदुष्टं भवतीत्यर्थः तथा विशाधिकाटिरूप यावदर्थिकाध्यवपूरक छिन्न यावन्तः कणाः कार्पटिकाद्यर्थ पदाक्षिप्ता: तावन्मात्ररथाल्याः पृथकृते गति यद्वा तावन्मात्र कार्पटिकादिभ्योदत्त सतिशेषमुन्द्ररितं यदभक्तं तत्साधूनां कल्पत शेष पुनः स्वगृहपाषण्डिमिश्रस्वगृहसाधुमिश्राध्यवपूरकल्पं न कल्पते, विमुक्तं भवति ? यदि तत्तावन्मानं स्थाल्याः पृथक्कृतं दत्तं वा पापंण्ड्यादिभ्यस्तथापि यच्छेषं तन्न कल्पते इति। मू. (४२१) छिन्नंमितओ उक्कडियंमि कप्पड़ग पिहीकर सेमं। आहावणाए दिन्नं च तत्तियं कप्पए सेसं॥ वृ. विशोधिकोटिरूपे यावदर्थिकऽध्यवपूरके यावदधिकं पश्चात प्रक्षिप्त तावन्मात्रे 'छिन्ने' पृथक्कृते तत्र छेदो रेखयापि भवतितदाह-'तओउक्कटियमिततःस्वस्थानादत्कर्षित-उत्पाटिते, इहोत्कर्षितं स्वस्थाना126123 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003379
Book TitleAgam Sutra Satik 41B Pindniryukti MoolSutra 2b
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages202
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_pindniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy