________________
मूलं - ४१०
इयरोऽवि आह नाहं देमित्ति सहोद चोरत्ति ।।
मू. (४११)
गिहण कढण ववहार पच्छकडुड्डाह पुच्छ निव्विसए ।
अपहुंमि भवे दोसा पहुंमि दिन्ने तओ गहणं ॥
वृ. रत्नपुरे पुरे माणिभद्रप्रमुखा द्वात्रिंशद्वयस्याः, ते कदाचिदुद्यापनानिमित्तं साधारणान् मोदकान् कारितवन्तः, कारयित्वा च समुदायेनोद्यापनिकायांगताः, तत्रचैको मोदकरक्षको भक्तः, शेषास्त्वेक त्रिशन्नद्यां स्नातुं गताः, अत्रान्तरे च कोऽपि लोलुपः साधुर्भिक्षार्थमुपातिष्ठत, दृष्टाश्र तेन मोदकाः, तत्तो जातला पट्यो धर्मलाभयित्वा तं पुरुषं मोदकान् याचितवान् स प्राह भगवन् ! न ममैकाकिनोऽधीना एते मोदकाः. किन्त्वन्येषामप्येकत्रिशज्जनानां, ततः कथमहं प्रयच्छामि ?, एवमुक्ते साधुराह ते 'कहिं' ति कुत्र गताः ? स प्राह- नद्यां स्नातुमिति, तत एवमुक्ते भूयोऽपि साधुस्तं प्रत्याह-परसत्केन मोदकसमूहेन त्वं पुण्यं कर्तुं न शक्नोषि ? यदेवं याचितोऽपि न ददासि महानुभाव ! मूढस्त्वं यः परसत्कानपि मोदकान् मह्यं दत्त्वा पुण्यं नोपार्जयसि, अपि च द्वात्रिशतमपि मोदकान यदि मे प्रयच्छसि तथापि तव भागे एक एव मोदको याति तत एवमल्पव्ययं ब्रह्वायं दानं यदि जानासि सम्यगहृदयेन तर्हि ततो देहि मे सर्वानपि मोदकानिति, तत एवमुक्ते दत्तास्तेनसर्वेऽपिमोदकाः, भृतं साधुभाजनं, ततः सञ्जातहर्षः साधुस्तस्मात्स्थानाद्विनिर्गन्तुप्रवृत्तः, अत्रान्तरे चसम्मुखमागच्छन्तिग माणिभद्रादयः पृष्टश्रुतैः साधुः- भगवन्! किमत्रत्वया लब्धं ?, ततः साधुनाचिन्तितं, यथैते ते मोदकस्वामिनस्ततो यदि मोदका लब्धा इति वक्ष्ये तर्हि भूयोऽपि ग्रहीष्यन्ति, तस्मान्न किमपि लब्धमिति वच्मीति, तथैवोक्तवान् ।
३५१
ततस्तैर्माणिभद्रप्रमुखैर्भाराक्रान्तं साधुमवलोक्य सञ्जतशङ्करभाणि दर्शय निजभाजनं साधो ! येन प्रेक्षामहे, साधुश्चन दर्शयति, ततो बलात्प्रलोकितं, दृष्टा मोदकाः, ततः कोपारुणलो चनैः साधिक्षेपं रक्षक पुरुषः पृष्टः- यथा किं भोः ! त्वयाऽस्मै सर्वेऽपि मोदका दत्ताः ?, सभयेन कम्पमानोऽवोचत् न मया दत्ताः, एवं चोक्ते माणिभद्रादिभिः साधुरूचे चौरस्त्वं पाप साधुवेषबिडम्बकः 'सहोढ' इति सलोपूत्र इदानीं प्राप्तोऽसि ? कुंतस्तं मोक्ष इति गृहीतो वस्त्रअले ?, कर्षितो बहुना, ततः पचात्कृत इति गृहीत्वा सकलमपि पात्ररजोहरणादिकमुपकरणं गृहस्थीकृतः ततः 'उड्डाह' इति नीतो राजकुलं, कथितो धर्माधिकरणिकानां पृष्टश्च तैः साधुन न किमपिलज्जया वक्तुं शक्तवान्, ततस्तैः परिभावितं- नूनमेषचोरइति, परंसाधुवेषधारीतिकृत्वा प्राणैर्मुक्तो निर्विषयश्राज्ञापितः एवमत्र भावना - अनायके दातरि एतेऽनन्तरोक्ता ग्रहणकर्षणादयो दोषा भवन्ति 'पहुमि' तितृतीयार्थे सप्तमीः यथा निसुतेसु अलंकिया पुहवी' इत्यत्र, ततोऽयमर्थः तस्मात् प्रभुणा' नायकेन दत्ते सति साधुना ग्रहणं भक्तादेः कर्त्तव्यं तत्राप्याच्छेद्यादिकं सम्यक् परिहर्त्तव्यमिति ।
मू. (४१२)
एमच य जंतमिवि संखडि खीर य आवणाई ।
सामन्न पडिक कप्पड़ धत्तु अणुन्नाय ॥
-
Jain Education International
वृ. एवमेव मोदकांदाहरणप्रकारणयन्त्रेऽपिसङ्खड्यामपिक्षीरे चाऽऽपणादिषुचयत् 'सामान्य' साधारणं तत स्वामिभिः सर्वैरप्यनिसृष्टंसत् प्रतिक्रुष्टं तीर्थकरगणधरैः, अनुज्ञातं पुनः सर्वैरपि स्वामिभिः कल्पते ग्रहीतुं नत्र दोषाभावात् । सम्प्रति चुल्लकद्वारस्य प्रस्तावना चुल्लकस्य भेदं च प्रतिपादयतिचुल्लत्ति दारमहुणा बहुवत्तव्वंति तं कयं पच्छा ।
मू. (४१३)
तन्ने गुरु सो पुण सामिय हत्थीण विन्नेओ ।
वृ. अधुना चुल्लकद्वारं व्याख्येयम्, अथोच्यते-मूलगाथाया द्वितीये स्थाने निर्दिष्टमपि कस्माद्वाख्या
For Private & Personal Use Only
www.jainelibrary.org