________________
३४८
अतः भ्रमणानां तद्ग्रहीतुं न कल्पते । तत्र प्रथमतः तत्र प्रथमतः प्रभुविषयं भावयतिगोवालए य भयएऽखरए पुत्ते य घूय सुण्हाए। अचियत्त संखडाई केइ पओसं जहा गोवो ॥
मू. (३९६)
पिण्डनिर्युक्तिः- मूलसूत्र
वृ. प्रभुकर्त्तकमाच्छेद्यं गोपानके' गोपालविषयं, तथा 'मृतकः' कर्मकरस्तद्विषयम्, अक्षरको द्रव्यक्षरकामिधानो दान इत्यर्थः, तद्विषयं पुत्रविषयं दुहितृविषयं स्नुषाविषयम्, उपलक्षणमेतत् भार्यादिविषयं च) अत्रैवदोषमाह- 'अचियत्त' इत्यादि, 'अचयत्तम्' अप्रीतिः 'सङ्घर्ड' कलङ, आदिशब्दादात्मघातादिपरिग्रहः केचित्पुनः प्रदेषमपि साधौ गच्छन्ति, यथा 'गोपः' गोपालकः । एनमेव दृष्टान्तं गाथाद्वयेन भावयतिमू. (३९७) गोवपओ अच्छेत्तुं दिनं तु जइस्स भइदिने पहुणा । भाणं दद्रु खिसs भोई रुवे चेडा ||
पडियरणपओसेणं भावं नाउं जस्स आलावो ।
मू. (३९८ )
तन्निब्बंधा गहियं हंदि स मुक्कोसि मा बीयं ॥
वृ. वसन्तपुरंनामनगरं, तत्र जिनदासो नाम श्रावकः, तस्या भार्या रुक्मिणी, जिनदासस्यगृहे वत्सराजो नाम गोपालः, स चाष्टमे अष्टमे दिने सर्वासामपि गोमहिषीणां दुग्धमादत्ते, तथैव तस्य प्रथमतो घृतत्वात्. अन्यदा च साधुसङ्घाटको भिक्षायै तत्रागमत्, इतश्च तस्मिन् दिने गोपालस्य सर्वदुग्धादानवारकः, ततस्तेन सर्वा अपि गोमहिष्यो दुग्धा महती पारिर्दुग्धस्यापूर्णा, जिनदासश्र जिनवचनभावितान्तःकरणतया साधुसङ्घाटकं परमपात्रभूतमायातमवलोक्य भक्ति तो यथेच्छ भक्त पानादिकं तस्मै दत्तवान्, ततो 'दुग्धान्तानि भोजनानी' तिपरिभाव्यभक्ति तरलितमनस्कतया गोपालस्य दुग्धं बलादाच्छिय कतिपयंददौ, ततः सगोपालो मनसिसाधो रुपरिमनाक्प्रद्वेषंथयौ, परंप्रभुभयान्न किमपिवक्तु मीशितः, ततस्तत्पपोभाजनं कतिपयन्यूनं स्वगृहे नीतवान्, तच्च तथाभूतं न्यूनमवलोक्य भार्या सरोषं पृष्टवती, किमिति न्यूनमिदं पयोभाजनम् ?, इति, ततो गोपेन यथावस्थिते कथिते साऽपि साधुमाक्रोष्टुं प्रावर्त्तत, चेटरूपाणि च दुग्घं स्तोकमवलोक्य किमस्माकं भविष्यतीति रोदितुं प्रवृत्तानि, तत इत्थं सकलमपि स्वकुटुम्बमाकुलमवेत्य स गोपःसञ्जातसाधुविषयमहाकोपः साधुं व्यापादयितुं चन्नितवान् दृष्टश्च भिक्षार्थं परिभ्रमन् क्वापि प्रदेशे साधुः, ततः प्रधावितो लकुटमुत्पाट्य साधोः पृष्ठतः, साधुनापि कथमपि पश्चादवलोकने तं गोपं तथाभूतं कोपारुणनयनमालोक्य परिभावयामासे, नूनमेतस्य दुग्धं बलाढाच्छिद्य जिनवासेन मह्यं ददे तेन मम मारणार्थमिव कुपित एवं समागच्छन्नुपलक्ष्यते, ततः साधुर्विशेषतः प्रसन्नवदनो भृत्वा तस्वैव सम्मुखं प्रत्यागन्तुं प्रावर्त्तत, बभाणचयथा-भो भोः क्षीरगृहनियुक्त क! तवप्रभुनिर्बन्धेनमया तदानीं दुग्धमात्तंसम्प्रतितुगुहाणत्वमात्मीयं दुग्धमिति, एवं चोक्ते सत्युपशान्तकोपः साधुं प्रति स्वस्वभावं प्रकटितवानं यथा भोः साधा ! सुविहित ! तव मारणार्थमहमिदानीमागतः परं सम्प्रति त्वद्रचनामृतपरिसंकत उपशशाम में सर्वः कोपानलः, ततो गृहाण त्वमेवेदं दुग्धं, मुक्तश्चाक्षतप्राणां मया, परं भूयोऽप्यवमाच्येद्य न ग्रहीतव्यमिति निवृत्तां गोपः, स्वस्थानं च गतः साधुरिति । सूत्रं सुगमं, नवरं 'पयभाणूणं ति विभक्ति लोपात्पयोभाजनमूनं दृष्ट्वा 'भोई' इति भोम्याभायां इत्यर्थः, गंव 'त्ति रुदन्ति, 'हंदी 'ति आमन्त्रणं, तन्निर्वन्धात त्वदीयजिनदासाख्यप्रभुनिर्बन्धाद्गृहीतं, ततः स प्राह- मुक्तोऽसि सम्प्रति मा द्वितीयं वारमेवं गृहीथाः ।
मू. (३९९)
नानिब्बिनं लब्भइ दासीवि न भुज्जए रिते भत्ता । दोनेयरपओसं जं काही अंतराय च ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org