________________
पिण्डनियंक्तिः-मूलसूत्रं
तस्मिन्नेव ग्राम शिवदेवो नामश्रेष्टी, तस्यभार्या शिवा, अन्यदाच समुद्रघोषाभिधाः सूरयः समागच्छन, तेषां समीप जिनप्रणीतं धर्ममाकर्ण्य जातसंवेगःसम्मतो दीक्षा गृहीतवान् कालक्रमेण च गुरुचरणप्रसादतोऽनीवे गीतार्थः समजनि। सचान्यदा चिन्तयामास-यदिमदीयः कोऽपिप्रव्रज्यांगृह्णाति ततःशोभनं भवति, इदमेव हि तात्विकमुपकारकरणं यत्संसाराणवाद्तारणमिति, तत एवं चिन्तयित्वा गुरूनापृच्छ्य निजबन्धुग्रामे समागमत्, तत्र चबहिःप्रदेशेकमपिपरिणतबयसंपृष्टवान् पुरुष-यथाऽत्रदेवराजाभिधस्य कुटुम्बिनः सत्कः कोऽपि विद्यत? इति, सप्राह-मृतं सर्वमपि तस्य कुटुम्बकेवलमेका सम्मत्यभिधा विधवापुत्रिका जीवतीति, ततःसतस्या गृहे जगाम, साचभ्रातरमायान्तं दृष्ट्वामनसिबहुमानमुद्रहन्तीवन्दित्वाकश्चित्कालं पर्युपास्य च तन्निमित्तमाहारं पक्तु मुपतस्थे, साधुश्च तां निवारितवान्-यथा न कल्पतेऽस्माकमस्मन्निमित्तं किमपि कृतमिति, ततो भिक्षावेलायांसा दर्गतत्वेनान्यत्रक्वचिदपितैलमात्रमप्यलभमानाकथमपिशिवदेवाभिधस्य वणिजो विपणेस्तैलपलिकाद्वयं दिन दिने द्विगुणवृद्धिरूपेण कलान्तरण समानीय भ्रात्रे दत्तवा भात्रा चतं वृत्तान्तमजानताशुद्धमितिज्ञात्वाप्रतिजगृहे,साचतद्दिनंभ्रातुःसकाशेधर्मश्रुतवती,तेननपानीयानयनादिना नततैलपलिकाद्रयं द्विगुणीभूतं प्रवेशयितुं शक्त वती, तृतीये च दिने कर्षद्वयमृणे जातं तच्चातिप्रभूतत्वान्न प्रवेशयितुं शक्तम, अपिच भोजनमपि पानीयानयनादिना कर्त्तव्यं, ततो भोजनायव यत्नविधौ सकलमपि दिनं जगामेति न ऋणं प्रवेशयितुं शक्रोति, ततो दिन दिने द्विगुणवृद्ध्या प्रवर्द्धमानमृणमपरिमितघटप्रमाणं जातं, ततः श्रेष्ठिना सा बभणे. ___ यथा मम तैलं देहि यहां मे दासी भव, ततः सा तैलं दातुमशक्नुवती दासत्वं प्रतिपेदे, कियत्सु च वर्षेष्वतिक्रान्तेषुभूयोऽपि सम्मताभिधःसाधुस्तस्मिन्नेवग्रामेयथाविहारक्रममागमत्, साचभगिनीस्वगृहे न दृष्टा, तत आगता सती पप्रच्छे, तयाच प्राचीनः सर्वोऽपिंव्यतिकरस्तस्मैन्यवेदि यावदासत्वं शिवदेवगृहे जातमिति, निवेद्यचस्वदःखंरोदितुंप्रवृत्ता,ततःसाधुरवोचत-मारोदीरचिरादहत्वांमोचयिष्यामि, ततस्तस्या मोचनोपायंचिन्तयन्प्रथमतःशिवदेवस्यैवगृहेप्रविवेश, शिवाचतस्यभिक्षादानार्थेजलेनहस्तौप्रक्षालयितु लग्ना, तां च साधुर्निवारयामास, यथैवमस्माकंन कल्पते भिक्षेति, ततःसमीपदेशवर्ती श्रेष्ठी प्रोवाच-कोऽत्र दोषः?,ततःसाधुःकायविराधनादीनदोषान्यथागमंसविस्तरमचीकथत्ततःसआदतोभणतियथाभगवन् ! कुत्र युष्मांक वसतिर्येन तत्रागता वयं धर्म श्रृणुमः ततः साधुरवादीत-नास्ति मेऽद्यापि प्रतिश्रयः, ततस्तेन निजगृहेकदेशेवसतिरदायि.प्रतिदिनंचधर्मश्रृणोति,सम्यक्त्वमणुव्रतानिचप्रतिपन्नानि.साधुचकदाचनापि वासुदेवादिपूर्वपरुषाचीर्णाननकानभिग्रहान व्यावर्णयामास, यथावासुदेवनायमभिग्रहाजगृहे-यदि मदीयः पुत्रोऽपिप्रव्रज्यांप्रतिपद्यते ततोऽहं ननिवारयामीति, अत्रान्तरे चशिवदेवस्यतनयोज्येष्ठःसाचसाधुभगिनी सम्मतिः प्रवज्यां ग्रहीतुमुफ्तस्थ.श्रेष्ठिना चतौ द्वावपि विसर्जिता. ततः प्रव्रज्यां प्रतिपत्राविति। सूत्रं सुगम, कवलं श्रुताधिगमज्ञातविधिः' श्रुनाधिगमात् ज्ञातो विधिः क्रियाविधिर्येन च तथा. अत्राह नन्वतत्प्रामित्यं साधुना विशेषतो ग्रहीतव्यं, परम्परया प्रव्रज्याकारणत्वात्, अत आह- कइक्या उ' एवंविधा गीतार्था विशिष्ट श्रुतविदो देशनाविधिनिपुणाः कतिपया एव भवन्ति, न भूयांसः कतिपयानामेव च प्रव्रज्यापरिणामः, ततःप्रामित्यंदोषायैव।नदेवतलविषयेप्रामित्येदोष उक्तः सम्प्रत्यतिदशेनवस्त्रादिविषयदोषानभिधित्सुगहमू. (३४८) एए चेव य दोसा सविसेसयरा उ वत्थपाएसुं।
लोइयपामिच्चेसुं लोगुत्तरिया इमे अन्ने॥ वृ. एते एव' दासत्वादयो दोषा वस्त्रपात्रविषयसु लौकिकेषु प्रामित्येषु सविशेषतरा निगडा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org