________________
मूलं- ३२५
निर्गत च तस्मिन् गृहीतेन भक्त पानेन सञ्जातविप्रियेवावतिष्ठते, अवान्तरे चरणकरणालसोऽन्यस्तस्मिन् गृहे साधुर्भिक्षार्थमागतः, ततस्तस्मै सा भिक्षा तया दत्ता, गृहीतायां च भिक्षायां स साधुः पृष्टः- यथा भगवन् ! इदानीमेव साधुरीदृशस्तादृशां वाऽत्र समागतः परं तेन भिक्षान गृहीता, त्वया गृहीबा, तत्र किं कारणं ?, ततः स ऐहलौकिकं भिक्षालाभमात्रादिकं पारलोकिकं धर्म यथाक्रमल्यगुणं बहुगुणं च विचिन्त्येमं लोकं - लोकात लभ्यं भिक्षामात्रादिकं परित्यज्योक्त वान् यथा नीचद्वारे गृहे साधव एषणासमितिसमिता भिक्षा नेच्छन्ति, तत्रान्धकारभावात् एषणाशुद्ध्यभावात, सोऽपि च भगवान् साधुरेषणासमितस्ततो न गृहीतवानिति
युक्तं किं कारणं त्वया गृहीता? इति, तत्राहं लिङ्गमात्रोपजीवी, न साधुगुणयुक्त:, ततः साधूनां गुणानेषणां च यथागमं कथितवान्, ततः सा स्वचेतसि चिन्तयामास - अहो ! जगति निजदोषप्रकटनं परगुणात्कीर्त्तनं चातिदुष्करं, तदप्येतेन कृतमिति तस्मिन्नतिशयेन भक्तिं कृतवती, विपुलं च भक्त पानं 'तिप्पड़' इति तेपते क्षरति ददाति स्मेति भावार्थः गते च तस्मिन्नन्यः कोऽप्यगणितदीर्घसंसारपरिभ्रमणभयो निर्द्धर्मा साधुराजगाम, सोऽपि भिक्षां दत्त्वा यथैव पृष्टः, ततः स पापीयानुक्त वान् एते इत्थंभूताः 'कुक्कट्या' मायया चरन्ति, ततस्तदीयचित्तावर्जनार्थं तनमातृस्थानतो नभिक्षा गृहीता; यावता नतत्र कचिद्दोषः, ईदृशानि चमातृस्थानबहुलानिव्रतान्यस्माभिरपि पूर्वं चीर्णानि, परमिदानीं चिन्तितं किं मातृस्थानकरणेनेति नमायां कुर्मः ?, ततः सा चिन्तितवती - अहो ! अयं निर्द्धर्मा महापापीयान् यस्तादृशमपि साधुं निन्दतीति विसर्जितः । इत्थंभूता च भक्ति परवशगा साधुदानाय प्रादुष्करणमपि कुर्यादिति प्रादुष्करणसम्भवः । पाओकरणं दुविहं पागडकरणं पगासकारणं च ।
मू. (३२६ )
पागड संकामण कुडदारपाए य छिन्नेव || पड़वे जोईन कप्पड़ पगासणा सुविहियाणं । अत्तट्टि अपरिभुत्तं कप्पइ कप्पं अकाऊणं ।।
Jain Education International
332
मू. (३२७)
वृ. प्रादुष्करणं द्विधा, तद्यथा प्रकटकरणं प्रकाशकरणं च तत्र प्रकटकरणम्' अन्धकारादपसार्य बहिः प्रकाशे स्थापन, 'प्रकाशकरणं' स्थानस्थितस्यैव भित्तिरन्ध्रकरणादिना प्रकटीकरणम्, एतदेवाह - तत्र प्रकटकरणमन्धकारादन्यत्र सङ्क्रामणेनप्रकाशकरणं, 'कुड्डदारपाए' इत्यादि, अत्र सर्वत्रापितृतीयार्थे सप्तमी, कुड्यस्य द्वारपातन- रन्ध्रकरणेन, यदिवा कुड्येनमूलतएवछिन्नेनयेन कुड्यन कुड्यैकदेशेनवाऽन्धकारमासीत् तेन मूलत एवापनीतेनेत्यर्थः, चशब्दादन्यस्य द्वारस्य करणेन चेत्यादिपरिग्रहः, तथा रत्नेन' पद्मरागादिना 'प्रदीपन' प्रतीतेन' ज्योतिषा' ज्वलता वैश्वानरेण तत्रैवं प्रकाशना सुविहितानां न कल्पते, किमुक्तं भवति ? - प्रकाशकरणेन प्रकटकरणेन च यद्दीयते भक्तादि तत्संयतानां न कल्पत, तत्रैवापवादमाह 'अत्तट्टित्ति आत्मार्थीकृतं तदपि कल्पत, नवरं ज्योतिः प्रदीपा वर्जयेत. ताभ्यां प्रकाशितमात्मार्थीकृतमपि न कल्पते. तेजस्कायदीप्तिसंस्पर्शनात. साधुपात्रमाश्रित्य विधिमाह - इहसहसाकारादिना प्रादुष्करणदीपाप्रातं कथमपि भक्तं पानंवा गृहीतं ततस्तद् अपरिभुक्तम् उपलक्षणमेतद् अर्द्धमुक्तमपि परिस्थाप्योन्द्धरितसिक्युलेपादिना खरण्टिंतऽपि तस्मिन पात्रे 'कल्प' जलप्रक्षालनरूपमकृत्वाप्यन्यत शुद्धं ग्रहीतुं कल्पते । मू. (३२८) संचारमा चुल्ली बहिं व चुल्ली पुरा क्या तेसिं ।
तहि रंथति कयाई उवही पूई य पाओ य ॥
वृ. इह त्रिधा चुल्ली, तद्यथा-एका सञ्चारिमा या गृहाभ्यन्तरवर्त्तिन्यपि बहिरानेतुं शक्यते, चशब्दात्साऽप्याधाकर्मिक्री द्रष्टव्या. द्वितीया बहिरेव तषां साधूनां निमित्तं चुल्ली पुरा कृता आसीत्. चशब्दात्तदानीं
www.jainelibrary.org
For Private & Personal Use Only