________________
मूलं - १६५
'५५
य’कैका च प्रत्युपेक्षणा द्विविधा. 'दव्वे य भावे य' याणसौ अभ्यन्तरा प्रत्युपेक्षणा सा द्रव्यतो भावतश्च भवति, याऽपिवाह्याप्रत्युपेक्षणासाऽपि द्रव्यतोभाव-तश्चेतिद्विविधैव । इदानीं बाह्यांप्रत्युपेक्षणां द्रव्यतः प्रतिपादयन्नाहमू. (१६६) घट्टाइतलिअदंडग पाउय संलग्गिरी अनुवओगो । दिसि पवणगामसरिज वितहं उच्छोलणा देव्वे ॥
वृ. 'घट्टादि' तिघृष्टाजङ्गासुदत्तफेनका, आदिशब्दात्तुमा तुप्पोद्वादयोगृह्यन्ते, 'तलिंग' त्तिसोपानत्काःउपानद्गृढपादाः ‘दंडग' त्तिचित्रलतादण्डकैर्गृहीतः 'पाउय' मिति प्रावृत्तं यथा संयत्यः प्रावृण्वन्ति कल्पं तथा तैः प्रावृतं 'संलग्गिरि' त्ति परस्परं हस्तावलगिकया व्रजन्ति, अथवा संलग्गिरीति युगलिता व्रजन्ति, 'अनुवगोओ'त्ति अनुपयुक्ता व्रजन्ति, 'ईर्यायामनुपयुक्ताः, एवं वहिर्भुवं गच्छन्तः प्रत्युपेक्षिताः, इदानी सञ्ज्ञाभूमीप्राप्तान् संयतान प३त्युपेक्षते- दिसि' त्तिआगमोक्त दिग्विपर्यासेनोपविशन्ति, 'पवण' त्तिपवनस्य प्रतिकूलमुपवेटषव्यं ते तु आनुकूल्येन पवनस्योपविशन्ति, 'गाम' त्ति ग्रामस्याभिमुखेनोपवेष्टव्यं, ते तु पृष्ठ दत्त्वोपविशन्ति सूरियत्ति सूर्यस्याभिमुखेनोप-वेष्टव्यं ते तु पृष्ठं दत्त्वापविशन्ति । एवमुक्ते न प्रकारेण वितथं कुर्वन्ति, 'उच्छोलण' ति पुरीषमुत्सृज्य प्रभूतेन पयसा क्षालनं कुर्वन्ति, 'दब्वे 'त्ति द्वारपरामर्शः, इयं तावद्बाह्या द्रव्यतः प्रत्युपेक्षणा। आह- अनन्तरगाथायां अभ्यन्तरयाः प्रत्युपेक्षणायाः प्रथममुपन्यासः कृतः, ततस्तामेव व्याख्यातुं युक्तं न बाह्यामिति, उच्यते, प्रथमं ताद्बाह्यैव प्रत्युपेक्षणा भवति पश्चादाभ्यन्तरा. अतों बाह्यैव व्याख्यायते, आह- किमितीत्थमेव नोपन्यासः कृतः ? उच्यते, अभ्यन्तरप्रत्युपेक्षणायाः 'प्राधान्यख्यापनार्थमादावु-पन्यासः कृतः । एवंतावद्वाह्याप्रत्युपेक्षणाद्रव्यतोऽमिहिता, इदानीं बाह्यां प्रत्युपेक्षणां भावतः प्रतिपादयन्नाह
मू. (१६७)
विकहा हरिउग्गाइय भिन्नकहाचक्रवालछलिअकहा ।
मानुसतिरिआवाए दायणआवरणया भावे ।।
वृ. विकथा' विरूपा कथा - अथवा 'विकथा' स्त्रीभक्त चौरजनपदकथा तां कुर्वन्तो व्रजन्ति, तथा हसन्त उद्गायन्तश्च व्रजन्ति, 'भिन्नकह' त्ति मैथुन संबद्धा रामसिका कथा तां कुर्वन्तो व्रजन्ति, 'चक्कवाल 'त्ति मण्डलबन्धेनस्थिताव्रजन्ति, 'छलिअकह त्तिषटपप्रज्ञकगाथाः पठन्तोगच्छन्ति, तथा 'मानुसतिरिआवाए' नि मानुपापातंतिर्यगापातेसञ्ज्ञांव्युत्सृजन्ति, 'दायण'त्ति (दर्शनता) परस्परस्याङ्गुल्याकिमपिदर्शयन्ति इयमेव आचरणता दर्शनतातऽऽचरणता. 'भावे 'ति द्वारपरामर्शः. इयं बाह्यमावमङ्गीकृत्य प्रत्युपेक्षणा. एवं बाह्यप्रत्युपेक्षणाऽशुद्धानपि साधून दृष्टवा प्रविशति, कदाचित्ते गुरोरनादेशेनैव वं कुर्वन्ति ।
एतदेव प्रतिपादायन्नाह
मू. (१६८)
sa असुद्धा हावि गंतृण गुरूपरिक्खा उ । अहव विसुद्धा तहवि उ अंतोदुविहा उ पडिलंहा ।।
वृ. बाह्यप्रत्युपेक्षणामाङ्गीकृत्य यद्यप्यशुद्धास्तथाऽपि प्रविश्य गुरो: परीक्षा कर्त्तव्या, अथवा बाह्यप्रत्युपेक्षणा विशुद्धा एव भवंति तथाऽपि त्वन्तः - अभ्यन्तरतः अभ्यन्तरां प्रत्युपेक्षणामाश्रित्य द्विविधैव प्रत्युपेक्षणाभवति कर्त्तव्या द्रव्यताभावत च । इदानीमसी अभ्यन्तरप्रत्युपेक्षणामङ्गीकृत्यद्रव्यतः परीक्षां करोति साधर्मिकासन्नेषु कुलेषु भिक्षाचर्यायां प्रविष्टः सन्
मू. (१६९)
पविसंतिनिमित्तमनेसणं व साहइ न एरिसा समणा । अम्हंपि ते कहंती कुक्कुखरियाडटाणं च ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org