________________
मूलं- १०५६
पायाहिणं करते मज्झे चउरंगुले कमड़ ॥
वृ. ‘मानं' प्रमाणं रजस्त्राणस्य ‘भाजनप्रमाणेन' पात्रकमानेन भवति एतदुक्तं भवति पात्रकानुरूपं रजस्त्राणं भवति, तच्च रजस्त्राणं पात्रकस्य कथं दीयंत ? अत आह- प्रदक्षिणां कुर्वाणं सत्तिर्यग दीयते, 'मध्ये' पृथुत्वेन चत्वार्यङ्गुलानि 'क्रामति' गच्छति प्रदक्षिणां कुर्वाणमिति । इदानीं कल्यप्रमाणप्रमाणप्रतिपादनायाहमू. (१०५७) मूसयरजउक्करे वासे सिहा रए य रक्खड्डा ।
होति गुणा रताणे पाद पाद य एक्केकं ॥
o
वृ. तच्च रजस्त्राणं दीयते भूषिकरजउत्केरसंरक्षणार्थं, वर्षोदकसंरक्षणार्थं, सिह्ना- अवश्यायस्तत्संरक्षणार्थं, भवन्ति गुणा रजस्त्राणस्यैते, तच्च पात्रे पात्रे चैकेकं भवतीति ।
इदानीं कल्पप्रमाणप्रमाण- प्रतिपादनायाहमू. (१०५८)
कप्पा आयपमाणा अड्डाइज्जा उ वित्थडा हत्था । दो चैव सोत्तिया उन्निओ य तइओ मुणेयव्यां ॥
वृ. कल्पा आत्मप्रमाणाः, एतदुक्तं भवति - - यावन्मात्राः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठन्ति एतावदात्मप्रमाणमर्द्धतृतीयांस्तु विस्तृता हस्तान् तत्र ह्रौं सूत्रिको भवतः ऊर्णिकच तृतीयो विज्ञेयः ।
इदानीं तत्प्रयोजनप्रतिपादनायाहमू. (१०५९)
तणगहणानलसेवा निवारणा धम्मसुक्कझाणट्टा । दिनं कप्पग्गहणं गिलाणमरणट्टया चेव ।।
वृ. तृणग्रहणनिवारणार्थं गृह्यन्ते, अनलः- अग्निस्तत्सेवानिवारणार्थं च एतदुक्तं भवति-कल्पाग्रहणे तृणग्रहणमग्रि सेवनं च भवति, तन्निवारणार्थं कल्पग्रहणं क्रियते, तथा धर्मशुक्लध्यानार्थं कल्पग्रहणं भवति, एतदुक्तं भवति-शीतादिना बाद्यमानो धर्मशुक्ले ध्यान ध्यातुमसमर्थो भवति यदि कल्पान्न गृह्णाति, अत एवमर्थ दृष्टं कल्पग्रहणं, तथा ग्लानसंरक्षणार्थं मरणार्थं मृतस्योपरि दीयते कल्पः एतदर्थं च च ग्रहणमिति । इदानीं रजोहरणवरूपप्रतिपादनायाह
मू. (१०६०)
घनं मूले थिरं मज्झे, अग्गे मद्दवजुत्तया । एगंगिय अझुसिर, पोरायामं तिपासियं ॥
वृ. मृलदण्डपर्यन्ते. 'घनं' निबिडं भवति 'मध्ये' मध्यप्रदेशे स्थिरं कर्त्तव्यम 'अग्गे' दसिकापर्यन्ते 'मार्दवयुक्तं ' मृदुकर्त्तव्यम्, 'एकाङ्किकं' तज्जातदसिकं सदसिकाकम्बलीखण्डनिष्पादितमित्यर्थः । 'अज्झसिर' अग्गंथिला दर्शिका निषद्या च यस्य तदुशुषिरम्, 'पोरायामंति अङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावमन्मात्रं शुषिरं भवति तदापूरकं कर्त्तव्यं, दण्डिकायुक्त । निषधा यथा तावन्मात्रं पृरयति तथा कर्त्तव्यम, 'त्रिपासितं ' त्रीणि वेष्टनानि दवरकेन दत्त्वा पासितं पाशबन्धनेन । किच
मू. (१०६१)
अप्पोल्लं मिउ पम्हं च. पडिपुन्नं हत्थपूरिमं । रणीपमाणमित्तं, कुज्जा पोरपरिग्गहं ॥
[भा. ३२२ ] वृ. अमुमेव श्लोकं भाष्यकारो व्याचष्टे- 'अप्पोल्लं' दृढवेष्टनाद धनवेष्टनात कारणात. मृदु पक्ष्म च कर्त्तव्यं-मृदूनि दाशिकापक्ष्माणि क्रियन्ते । 'प्रतिपूर्ण' सद् बाह्येन निषद्यायेन युक्तं सत् हस्तं पूरयनि यथा तथा कर्त्तव्यम् । तथा रत्निप्रमाणमात्र' यथा दण्डो हस्तप्रमाणो भवति तथा कर्तव्यम् । 'कुंज्जा पोरपरिग्गहं ति पारम - अङ्गुष्ठपर्व तस्मिन्नङ्गुष्ठपर्वणि लग्नया प्रदेशिन्या यदभवति छिद्रं तद्यथा पर्यंत तेन दण्डकेन
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org