________________
ربت
मू. (१०५१)
तिन्निव पंच व सत्त व कयलीगब्भावमा मसिणा || म्हासु तिन्नि पडला चउरो हेमंत पंच वासास । उक्कोसगा उ एए एतो पुण मज्झिम वृच्छं ।। गिम्हासु हंति चउरो पंच य हेमंति छच्च वासासु । एए खलु मज्झिमया एत्तो उ जहन्नओ वुच्छं ।। गिम्हासु पंच पडला छप्पुण हेमंत सत्त वासासु । त्तिविहंभि कालछेए पायावरणा भवे पडला ॥
भू. (१०५३)
वृ. यैः पटलैस्त्रिभिरेकी कृतैः सद्भिः सविता न दृश्यंत तिरोहितः सन, पञ्चभिः सप्तमिर्वा पटलैरेकीकृतः सविता नोपलभ्यत इति किमुक्तं भवति ? - वः संबन्धिनो रश्मयां नोपलभ्यन्ते तादृशानि पटलानि भवन्ति, किंविशिष्टानि ? - कदलीगभपमानि श्रामाणि श्लक्ष्णानि मसृणानि धनानि चेति तत्र यदुक्तं त्रीणि पटलानि पञ्च सप्त वा पटलानि भवन्तीत्येतदेव कालभेदन विशेषेण दर्शयन्नाह ग्रीष्म' उष्णकाले त्रीणि पटलानि पच सप्त वा पटलानि भवन्तीत्येवदेव कालभेदेन विशेषेण दर्शयन्नाह - 'ग्रीष्मे' उष्णकाले त्रीणि पटलानि गृह्यन्ते यानि यानि दृढानि मसृणानि च भवन्ति उत्कृष्टानीत्यर्थः, हेमन्ते' शिशिरे च चत्वारि गृह्यन्ते घनानि मसृणानि च भवन्ति, सह्यत्यन्तस्निग्धकानो यत उत्कृष्टान्येतानि उक्तलक्षणानि प्रधानान्येतानि । इत उद्धर्व 'मध्यमानि' न शोभनानि नाप्यशोभनानि वक्ष्ये इति । 'ग्रीष्मे' उष्णकाले चत्वारि मध्यमानि पटलानि गृह्यन्ते तानि मनाग् जीर्णानि, हेमन्ते पञ्च गृह्यन्ते मध्यमानि, वर्षासु प्रषड़ एतानि 'मध्यमानि' न प्रधानानि नाप्यप्रधनानि, तत्र ग्रीष्मो रूक्षः कालः हेमन्तो मध्यमः वर्षा स्निग्धस्तेन पटलानां वृद्धिरुक्ता, इत ऊद्धर्व जघन्यानि वक्ष्य इति । ग्रीष्मे पञ्च पटलानि जघन्यानि जीर्णप्रायाणि गृह्यन्ते, षड़ पुनः हेमन्ते जघन्यानि जीर्णप्रयाण, वर्षाकाले सप्त जघन्यानि संगृह्यन्ते जीर्णप्रायाणि, एवमुक्ते न प्रकारेण त्रिविधेऽपि 'कालच्छेदे' कालपर्यन्ते अन्यानि चान्यानि च 'पात्रावरणानि' स्थगनानि पटलानि भवन्ति ।
दानमेषामेव प्रमाणप्रतिपादनायाहमू. (१०५४)
मू. (१०५२)
आंधनियुक्तिः मूलसूत्र
अड्डाइज्जा इत्था दीहा छत्तीस अंगुले रुहा ।
बितियं पडिग्गहाओ ससरीराओ य निप्पन्नं ॥
वृ. अर्द्धतृतीयहस्तदीर्घाणि भवन्ति षटत्रिंशदङ्गुलानि विस्तीर्णानि भवन्ति द्वितीयमेषां प्रमाणं पतद्ग्रहाच्छादनेन शरीरस्कन्धाच्छादनेन च निष्पन्नं भवति एतदुक्तं भवति भिक्षाटनकाले स्कन्धः पात्रकं चाच्छाद्यतं यावता तत्प्रमाण पटलानामिति । इदानीं किं तैः प्रयोजनमित्यस्यार्थस्य प्रदर्शनायाहमू. (१०५५) पुष्पफलोदयरयरेणुसउणपरिहारपायरक्खट्टा । लिंगस्स य संवरणे वेदोदयरक्खणे पंडला ||
वृ. अस्थगित पात्रक पुष्पं निपतति तत्संरक्षणार्थ पटलानि गृह्यन्ते तथा फलपातरक्षणार्थमुदकपातसंरक्षणार्थं च पटलग्रहणं तथा रज:- -सचित्तपृथिवीकायस्तत्संपातरक्षणार्थं च, रेणुः- धूलिस्तत्संपात - रक्षणार्थं शकुन परिहार:- शकुनपुरीषं तत कदाचिदाकाशात्रिपतति तत्पानसंरक्षणार्थं, लिङ्गसंवरणार्थं लिङ्गस्थगनं च तर्भवति, तथा पुरषवेदोदये सति तस्यैव स्तब्धता भवति तस्सरक्षणं स्थगनं तदर्थं च पटलानि भवन्तिति इदानीं रजस्त्राण प्रमाणप्रतिपादनायाह
मू. (१०५६ )
मानं तु रत्ताणे भापमाण होड़ निष्पन्न ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org