________________
उपोद्घातः - [नि. १३२]
७९
नि. (१३२) नामं ठवणा दविए खित्ते काले य वयण भावे य ।
एसो अनुओगस्स उ निक्खेवो होइ सत्तविहो । वृ- गमनिका-'नाम' प्राक् निरूपितं, तत्र नामानुयोगो-यस्य जीवादेरनुयोग इति नाम क्रिते, नाम्नो वा अनुयोगो नामानुयोगः, नामव्याख्येत्यर्थः, “स्थापना' अक्षनिक्षेपादिरूपा, तत्र अनुयोगं कुर्वन् कश्चित् स्थाप्यते, स्थापनायामनुयोगः स्थापनानुयोग इति समासः, स्थापना चासौ अनुयोगश्चेति वा, 'द्रव्ये' इति द्रव्यविषयोऽनुयोगो द्रव्यानुयोगः, स च आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैः द्रव्ये द्रव्येषु वाऽनुयोगो द्रव्यानुयोगः, एवं क्षेत्रादिष्वपि षड्भेदयोजना कार्येति, तत्र द्रव्यानुयोगो द्विविधः-जीवद्रव्यानुयोगः अजीवद्रव्यानुयोगश्च, एकैकः स चतुर्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो जीव एकं द्रव्यं क्षेत्रतोऽसंख्ययेयप्रदेशावगाढः कालतोऽनाद्यपर्यवसितः भावतोऽनन्तज्ञानदर्शनचारित्राचारित्रदेशचारित्र अगुरुलधुपर्यायवान् इति, अजीवद्रव्याणि परमाण्वादीनि, तत्र परमाणुर्द्रव्यत एकं द्रव्यं क्षेत्रत एकप्रदेशावगादः कालतो जघन्येन समयमेकं द्वौ वा उत्कृष्टतस्तु असंख्येया उत्सर्पिण्यवसर्पिण्यः, भावतस्तु एकरस एकवर्णः द्विस्पर्श एकगन्ध इति, एतेषां च स्वस्थानेऽनन्ता रसादिपर्याया एकगुणनितक्तादिभेदेन द्रष्टव्याः, एवं व्यणुका-दीनामप्यनन्तागुरकन्धावसानानां स्वरूपं द्रष्टव्यं, उक्तो द्रव्यानुयोगः, इदानीं द्रव्याणां स च जीवाजीवभेदभिन्नानां अवसेयः, यथा प्रज्ञापनायां समुदितानां जीवानामजीवानां च विचारः, तथा चोक्तं-“जीवपजवाणं भंते ! किं संखेज्जा असंखेज्जा अणंता ?, गोयमा ! नो संखेज्जा नो असंखेजा अणंता, एवं अजीवपञ्जवाणं पुच्छा उत्तरं च दट्ठव्वं" अलं विस्तरेण ! द्रव्येणानुयोगः प्रलेपाक्षादिना, द्रव्यस्तैरेव अक्षादिभिः प्रभूतैरिति, द्रव्ये फलकादौ द्रव्येषु प्रभूतासु निषद्यासु अवस्थितोऽनुयोग करोतीति । एवं क्षेत्रानुयोगेऽपि क्षेत्रस्य भरतक्षेत्रादेः क्षेत्राणां जम्बूद्वीपादीनां यथा द्वी पसागरप्रज्ञप्त्या मिति, क्षेत्रेण यथा पृथिवीकायादिसंख्याव्याख्यानं, उक्तं च
"जंबुद्दीपमाणं, पुढविजिआणं तु पत्थयं काउं ।
एवं मविजमाणा हवंति लोगा असंखिज्जा ॥" क्षेत्रैरनुयोगो यथा “बहुहिं दीवसमुद्देहिं पुढविजिआणमित्यादि" क्षेत्रे तिर्यग्लोकेऽनुयोगो भरतादौ वा क्षेत्रेषु अनुयोगः अर्धतृतीयेषु द्वीपसमुद्रेषु । कालस्य अनुयोगः समयादिप्ररूपणा, कालानां प्रभूतानां समयादीनां, कालेनानुयोगो यथा-बादरवायुकायिकानां वैक्रियशरीरण्यद्धापल्योपमस्य असंख्यभागमात्रेणापहियन्ते, कालैरनुयोगो यथा प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्यवसर्पिणी भिरपड्रियन्ते प्रतिसमयापहारेण, कालेऽनुयोगो द्वितीयपौरुष्यां, कालेषु अवसर्पिण्यां त्रिषु कालेषु-सुषमदुष्षमायां चरमभागो दुष्पमसुषमायां दुष्षमायां चेति, उत्सर्पिण्यां कालद्वये-दुष्षमसुषमायां सुषमदुष्षमायां च । वचनस्यानुयोगो यथा इत्थंभूतं एकवचनं, वचनानां द्विवचनबहुवचनानां षोडशानां वा, वचनेनानुयोगो यथा-कश्चिदाचार्यः साध्वादिभिरभ्यर्थित एकवचनेन करोति, वचनैः-स एव बहुभिः असकृद् अभ्यर्थितो वेति, वचनेऽनुयोगः क्षायोपशमिके, वचनेषु तेष्वेव बहुषु, अन्ये तु प्रतिपादयन्ति-वचनेषु नास्त्यनुयोगः, तस्य क्षायोपशमिकत्वात्, तस्य चैकत्वादिति भावार्थः । भावानुयोगो द्विधा-आगमतो नोआगमतश्च,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only