________________
३१४
आवश्यक मूलसूत्रम् -२-६/८१
'कोटिसहित मिति कोटीभ्यां सहितं कोटिसहितं-मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरणमवेत्यर्थः, 'नियन्त्रितं चैव' नितसं यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्तव्यमिति-हृदयं, 'साकारं' आक्रियान्त इत्याकाराः-प्रत्याख्यानापवादहेतवोऽनाभोगादयः सहाकारैः साकारं, तथाऽविद्यमानाकारमनाकारं, 'परिमाणकृत'मिति दत्त्यादिकृतपरिमाणमिति भावना निरदशेष'मिति समग्राशनादिविषय इति गाथार्थः ।। नि. (१५६४) संकेयं चेव अद्धाए, पच्चक्खाणं तु दसविहं ।
सयमेवनुपालणियं, दानुवएसु जह समाही ।। वृ- ‘सङ्केतं चैवेति केतं-चिह्वमङ्गुष्ठादि सह केतेन सङ्केतं सचिह्नमित्यर्थः, 'अद्धा यत्ति कालाख्या, अद्धामाश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, 'प्रत्याख्यानं तु दशविध' प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्दस्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्तयमाशङ्कनीयमिति । आह-इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीय आहोश्विदन्यथा?, अन्यथैवेत्याह-स्वयमेवानुपालनीयं, न पुनरन्यकारणे अनुमत्तौ वा निषेध इति, आह च-'दानवदेसे जध समाधि'त्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः' यथा समाधानमात्मनोऽप्यपीडया प्रवर्तितव्यमिति वाक्यशेषः, उक्तं च
“भावितजिनवयणाणं ममत्तरहियाण नस्थि हुं विसेसो ।
अप्पाणंमि परंमि य तो वजे पीडमुभओवि ॥१॥" त्ति गाथार्थः ।। साम्प्रतमनन्तरोपन्यस्तदशविधप्रत्याख्यानाद्यभेदावयवार्थाभिधित्सयाऽऽहनि. (१५६५) होही पञ्जोसवणा मम य तया अंतराइयं हुआ।
गुरुवेयावच्चेणं तवस्सिगेलनयाए वा ।। नि. (१५६६) सो दाइ तवोकम्म पडिवजे तं अनागए काले ।
एवं पच्चक्खाणं अनागयं होइ नायव्वं ॥ वृ- भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत्, केन हेतुनेत्यत आह-गुरुवैयावृत्त्वेन तपस्विग्लानतया वेत्युपलक्षणमिदमिति गाथासमासार्थः ।। स इदानीं तपः कर्म प्रतिपद्येत तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागत करणादनागतं ज्ञातव्यं भ्भवतीति गाथार्थः ।।
इमा पुन एत्थ भावत्थो-अनागतं पच्चकखाणं, जधा अनागतं तवं करेजा, पजोसवणागहणं एत्थ विकिट्ठ कीरति, सव्वजहन्नो अट्ठमं जधा पजोसवणाए, तथा चातुम्मासिए छटुं पक्खिए अब्भत्तटुं अन्नेसु य ण्हाणाणजाणादिसु तहिं ममं अंतराइयं होजा, गुरू-आयरिया तेसिं कातव्वं, ते किं न करेंति ?, असहू होजो, अथवा अन्ना काइ आणत्तिगा होज्जा कायव्विया गामंतरादि सेहस्स वा आनेयव्वं सरीरवेयावडिया वा, ताधे सो उववासं करेति गुरुवयावच्चं च न सक्केति, जो अन्नो दोण्हवि समत्थे सो करेतु, जो वा अन्नो समत्थो उववासस्स सो करेति नत्थि न वा लभेजा न याणेज वा विधि ताधे सो चेव पुव्वं उववासं कातूर्ण पच्छा तद्दिवसं भुंजेज्जा, तवसी नाम खमओ तस्स कातव्वं होज्जा, किं तदा न करेति ?, सो तीरं पत्तो पजोसवणा उस्सारिता, असहुत्ते वा सयं पारावितो, तांधे सयं हिंडेतुं समत्थो जाणि अब्भासे तत्थ वच्चउ, नत्यि न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org