________________
३१२
आवश्यक मूलसूत्रम् -२-६/८१
चत्तारि सिक्खावयाई इत्तरियाई, एयस्स पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं, तं जहातं निसग्गेण वा अभिगमेण वा पंच अईयारविसुद्धं अनुव्वयगुणब्वयाइं च अभिग्गहा अन्नेऽवि पडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतिया संलेहणाझूसणाराहणया, इमीए समणोवासएणं इमे पञ्च०, तं जहा-इहलोगासंसप्पओगे पररलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे ।।
वृ- अत्र पुनः श्रमणोपासकधर्मे पुनः शब्दोऽवदारणार्थः, अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेनाणुव्रताधभावादिति, वक्ष्यति च-'एत्थ पुंसमणोवासगधम्मे मूलवत्थु संमत्त' मित्यादि, पञ्चाणुव्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव 'यावत्कथिकानी'ति सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्ख्या शिक्षापदव्रतानीति शिक्षा-अभ्यासस्तस्य पदानि-स्थानानि तान्येव प्रतानि शिक्षापदव्रतानि, 'इत्वराणी ति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, पौषधोपवासातिथिसविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति । आह–अस्य श्रमणोपासकधर्मस्य किं पुनर्मूलस्थ्विति ?, अत्रोच्यते, सम्यक्त्वं, तथा चाह ग्रन्थकारः-'एतस्स पुणो समणोवासग०' अस्य पुनः श्रमणोपासकधर्मस्य, पुनः शब्दोऽवधारणार्थः अस्यैव, शाक्यादिद्वारभूतं च तद् वस्तु च मूलवस्तु, तथा चोक्तम्
"द्वारं मूलं प्रतिष्ठानमाधारो भाजन निधिः ।
द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्तितम् ॥१॥" सम्यक्त्वं-प्रशमादिलक्षणं, उक्तं च-"प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यक्त्तव" मिति, कथं पुनरिदं भवत्यत आह-'तत्रिसग्गेण०' तत्-वस्तुभूतं सम्यक्त्वं निसर्गेण वाऽधिगमेन वा भवतीतिक्रिया तत्र निसर्गः-स्वभावः अधिगमस्तु यथावस्थितपदार्थपरिच्छेद इति, आह-मिथ्यात्वमोहनीयकर्मक्षयोपशमादेरिदं भवति कथमुच्यते निसर्गेण वेत्यादि ?, उच्यते, स एव क्षयोपशमादिनिसर्गाधिगमजन्मेति न दोषः, उक्तं च
___“ऊसरदेसं दल्लियं च विज्झाइ वनदवो पप्प ।
इय मिच्छस्स अनुदये उवसम सम्मं लभति जीवो ॥१॥ ___ जीवादीनमधिगमो मिच्छत्तस्स तु खयोवसमभावे ।
अधिगम सम्म जीवो पावेइ विसुद्धपरिणामो ॥२॥" त्ति, अलं प्रसङ्गेन, इह भवोदधौ दुष्प्रापां सम्यक्त्वादिभावररत्लावाप्ति विज्ञायोपलब्धजिनप्रवचनसारेण श्रावकेण नितरामप्रमादपररेणातिचारपरिहारवता भवितव्यमित्यस्यार्थस्योक्तस्यैव विशेषख्यापनायानुक्तशेषस्य चाभिधानायेदमाह ग्रन्थकारः ‘पञ्चातिचारविसुद्ध' मित्यादि सूत्रं, इदं च सम्यक्त्वं प्रागनिरूपितशङ्कादिपञ्चतिचारविशुद्धमनुपालनीयमिति शेषः, तथा अनुव्रतानिप्रागनिरूपितस्वरूपाणि हेढमतिचाररहितान्येवानुपालनीयानि, तथाऽभिग्रहाः- कृतलोचघृतप्रदानादयः शुद्धा-भङ्गायतिचारहिता एवानुपालनीयाः, अन्ये च प्रतिमादयो विशेषकरणयोगः सम्यक्परिपालनीयाः, तत्र प्रतिमा- पूर्वोक्ताः ‘दंसणवयसामाइय' इत्यादिना ग्रन्थेन आदिशब्दादनित्यादिभावनापरिग्रहः, तथा अपश्चिमा मारणान्तिकी संलेखनाजोषणाराधना चातिचाररहिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org