________________
अध्ययनं-६- नि. १५६१ ।
३०७
"अविराधित-सामण्णस्स साधुणो सावगस्स उ जहण्णो ।
सोधम्मे उववातो भणिओ तेलोक्कदंसीहिं ॥१॥" तथा स्थितिर्भेदिका, साधोरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि जघन्या तु पल्योपमपृथक्त्वमिति,, श्रावकस्य तूत्कृष्टा द्वाविंशतिः सागरोपमाणे जघन्य तु पल्योपममिति । तथा गतिर्भेदिका, व्यवहारतः साधुः पञ्चस्वपि गच्छति, तथा च कुरटोत्कुरुटौ नरकं गतौ कुणालाद्दष्टान्तेनेति श्रूयते, श्रावकस्तु चतसृषु न सिद्धगताविति, अन्ये च व्याचक्षते-साधुः सुरगतौ मोक्षे च, श्रावकस्तु चतसृष्वपि । तथा कषायाश्च विशेषकाः, साधुः कषायोदयमाश्रित्य सञ्चलनापेक्षया चतुस्त्रिद्व्येककषायोदयवानकषायोऽपि भवति छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवान् अष्टकषायोदयवांश्च भवति, यदा द्वादशकषायवांस्तदाऽनन्तानुब्बन्धवर्जा गृह्यन्ते, एते चाविरतस्य विज्ञेया इति, यदा त्वष्टकषायोदयवान् तदाऽनन्तानुबन्धिअप्रत्याख्यानकषायवर्जा इति, एते च विरताविरतस्य । तथा बन्धश्च भेदकः,, साधुर्मूलप्रकृत्यपेक्षया अष्टविधबन्धको वा सप्तविधबन्धको वा षड्विधबन्धको वा एकविधबन्धको वा, उक्तं च
"सत्तविधबंधगा हुंति पाणिणो आउवनगाणं तु । तह सुहुमसंपरागा छविहबंधा विनिद्दिट्ठा ॥१॥ मोहाउयवाणं पगडीणं ते उ बंधगा भणिया । उवसंतखीणमोहा केवलिणो एगविधबंधा ॥२॥ ते पुन दुसमयठितीयस्स बंधगा न पुन संपरागस्स ।
सेलेसीपडिवण्णा अबंधगा होति विन्मेया ||३॥" श्रावकस्तु अष्टविधबन्धको वा सप्तविधबन्धको वा । तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति । तथा प्रतिपथिकृतो विशेषः, साधुः पञ्च महाव्रतानि प्रतिपद्यते, श्रावकस्त्वेकमणुव्रतं द्वे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिकं प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः २ प्रतिपद्यत इति । तथाऽतिक्रमो विशेषकः, साधोरेकव्रतातिक्रमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनेकस्यैव, पाठान्तरं वा, किं च-इतरश्च सर्वशब्दं न प्रयुङ्क्ते, मा भूद्देशविरतेरप्यभाव इति, आह च-'सामाइयंमि उकए' 'सव्वंति भाणिऊणं' गाहा, सर्वमित्यभिधाय-सर्वं सावद्ये योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य 'सर्वां' निरवशेषा नास्ति, अनुमतेर्नित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवादी 'चुक्कइथि भ्रश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमृषावादित्वादित्यभिप्रायः। पर्याप्तं प्रसङ्गेन प्रकृतं प्रस्तुमः ।
इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-'सामाइयस्स समणो' (गाहा), सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथामनोदुष्प्रणिधानं, प्रणिधानं-प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानं, कृतसामायिकस्य गृहसत्केतिकर्तव्यतासुकृतदुष्कृतपरिचिन्तनमिति, उक्तं च
___ “सामाइयंति (तु) कातुं घरचिन्तं जो तु चिंतये सड्ढो ।
अवसट्टमुवगतो निरत्थयं तस्स सामइयं ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org