________________
३०४
आवश्यक मूलसूत्रम् -२-६/७२ आरम्भो भूतोपमर्दोऽर्थदण्डः, दण्डोनिग्रहो यातना विनाश इति पर्यायाः, अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः स चैष भूतविषयः उपमईनलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्ड:-प्रयोजननिरपेक्षः, अनर्थः अप्रयोजनमनुपयोगो निष्कारणतेति पर्यायाः, विनैव कारणेन भूतानि दण्डयति सः, तथा कुठारेण प्रहृष्टस्तरंस्कन्धशाखादिषु प्रहरति कृकलासपिपीलिकादीन व्यापादयति कृतसङ्कल्पः, न च तव्यापादने किञ्चिदतिशयोपकारि प्रयोजनं येन विना गार्हस्थ्यं प्रतिपपालयितुं न शक्यते, सोऽयमनर्थदण्डः चतुर्विधः प्रज्ञप्तः, तद्यथा
'अपध्यानाचरित' इति अपध्यानेनाचरितः अपध्यानाचरितः समासः, अप्रशस्तं ध्यानं अपध्यानं, इह देवदत्तश्रावककोङ्कणकसाधुप्रभृतयो ज्ञापकं, 'प्रमादाचरितः' प्रमादेनाचरित इति विग्रहः, प्रमादस्तु मद्यादिः पञ्चधा, तथा चोक्तम्-'मजं विसयकसाया विकथा निद्दा य पंचमी भणिया" अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या भावनीयं, "हिंसाप्रदानं' इह हिंसाहेतृत्वादायुधानलविषादयो हिंसोच्यते, कारणे कार्योपचारात, तेषां प्रदानन्यस्मै क्रोधाभिभूता-यानभिभूताय वा न कल्पते, प्रदाने त्वनर्थदण्ड इति, 'पापकर्मोपपदेशः' पातयति नरकादाविति पापं तत्प्रधानं कर्म पापकर्म तस्योपदेश इति समासः, यथा-कृष्यादि कुरुत, तथा चोक्तं
___ "छित्ताणि कसध गोणे दमेध इच्चादि साक्गजनस्स ।
नो कप्पति उवदिसिउं जाणियजिनवयणसारस्स ॥१॥" इदमतिचाररहितमनुपालनीयमित्योऽस्यैवातिचारभिधित्सयाऽऽह- अनट्ठदंडे' त्यादि, अनर्थदण्डविरमणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथाकन्दर्पः कामः तद्धेतुर्विशिष्टो वाक्प्रयोगः कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रो मोहोद्दीपको नर्मेति भावः । इह सामाचारी-सावगस्स अट्टहासो न कप्पति, जति नाम हसियव्वं तो ईसि चेव विहसितव्वंति । कौकुच्यं-कुत्सितसंकोचनादिक्रियायुक्तः कुचः कुकुचः तद्भावः कौकुच्यंअनेकप्रकारा मुखनयनोष्ठकरचरणभूविकारपूर्विका परिहासादिजनिका भाण्डादीनामि विडम्बनक्रियेत्यर्थः । एत्थ सामायारी-तारिस-गाणि भासितुं न कप्पति जारिसेहिं लोगस्स हासो उप्पज्जति, एवं गतीए ठाणेण वा ठातितुन्ति ! मौखर्यं-धाष्ठाप्रायमसत्या सम्बद्धप्रलापित्वमुच्यते, मुहेण वा अहिमाणेति, जधा कुमारामच्चेणं सो चारभडओ विसज्जितो, रन्ना निवेदितं, ताए जीविकाए वित्ति दिन्ना, अन्नता रुद्वेण मारितो कुमारामच्छे । संयुक्ताधिकरणं-अधिक्रियते नरकादिष्वनेनेत्यधिकरणं-वास्तूदूषलशिलापुत्रकगोधूमयन्त्रकादि संयुक्तं-अर्थक्रियाकरणयोग्यं संयुक्तं च तदधिकरणं चेति समासः । एत्थ समाचारी-सावगेण संजुत्ताणि चेव सगडादीनि न धरेतव्याणि, एवं वासीपरसुमादिविभासा । अभोगपरिरभोगातिरेक' इति उपभोगपरिभ्भोगशब्दार्थो निरूपित एव तदतिरेकः । ___ एथवि सामायारी-उवभोगातिरित्तं जदि तेल्लामलए बहुए गेण्हति ततो बहुगा पहायगा वचंति तस्स लोलियाए, अण्हविण्हायगा ण्हायंति, एत्थ पूतरगाआउक्कायवधो, एवं पुप्फतंबोलमादिविभासा, एवं न वट्टति, का विधी सावगस्स उवभोगे पहाणे ?, घरे ण्हायव्वं नस्थि ताधे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org