________________
अध्ययनं - ६ - [ नि. १५६१ |
मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च ॥ १ ॥ एकस्मिन्नर्थे सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यात्वदर्शनं तत्सचादिहेतुर्भवगतीनाम् ||२||”
२९१
तस्मात् मुमुक्षुणा व्यपगतशङ्केन सता जिनवचनं सत्यमेव सामन्यतः प्रतिपत्तव्यं, संशयास्पदमपि सत्यं, सर्वज्ञाभिहितत्वात्; तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात्तु कार्त्स्न्येन सकलपदार्थस्वभावावधारणम शक्यं छद्मस्थेन, यदाह
"न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरण प्रकृति कर्म ||१||
7
इह चोदाहरणं- जो संक करेइ सो विनस्सति, जहा सो पेजायओ, पेज्जाए मासा जे परिभचमाणा ते छूढा, अंधगारए लेहसालाओ आगया दो पुत्ता पियंति, एगो चिंतेति एयाओ, मच्छियाओ संकाए तस्स वग्गुलो वाउ जाओ, मओ य, विइओ चिंतेइ न मम माया मच्छिया देइ जीओ, एते दोसा । काङ्क्षणं काङ्क्षा-सुगतादिप्रणीतदर्शनेषु ग्राहोऽभिलाष इत्यर्थः तथा चोक्तं'कखा अन्नन्नदंसणग्गाहो' सा पुनर्द्धिभेदा देशकाङ्क्षा सर्वकाङ्क्षा च, देशकाङ्क्षैकदेशविषया, एकमेव सौगतं दर्शनं काङ्क्षति, चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति, सर्वकाङ्क्षा तुं सर्वदर्शनान्यवकाङ्क्षति, अहिंसादिप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादादिमतानीह लोके च नात्यन्तकेश-प्रतिपपादनपराण्यतः शोभनान्येवेति, अथवैहिकामुष्मिकफलानि काङ्क्षति, प्रतिषिद्धा चेयमर्हद्भिरतः प्रतिषिद्धानुष्ठानादेनां कुर्वतः सम्यक्त्वातिचारो भवति, तस्मादेकान्तिकमव्याबाधमपपवर्गं विहायान्यत्र काङ्क्षा न कार्येति, एत्थोदाहरणं, राया कुमारामच्चे य आसेणावहिया अडविं पविट्ठा, छुहापरद्धा वणफलाणि खायंति, पडिनियत्ताण राया चिंतेइ, लड्डुयपूयलगमादीणि सव्वाणि खामि, आगया दोवि जना, रन्ना सूयारा भणिया-जं लोए पयरइ तं सव्वं सव्वे रंधेहत्ति, उवठ्ठवियं च रन्नो, सोराया पेच्छणयदित करेइ, कप्पडिया बलिएहिं धाडिजइ, एवं मिट्ठस्स अवगासो होहितित्ति कणकुंडगममंडगादीणिवि खइयाणि, तेहिं सूलेण मओ, अमचेण वमणविरेयणाणि कयाणि, सो आभागी भोगाण जाओ, इयरो विनड्डो ।
चिकित्सा मतिविभ्रमः, युक्तयागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः, किमस्य महतस्तपः केशायासस्य सिकताकणकवलनादेरायत्या मम फलसम्पद् भविष्यति किं वा नेति, उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीवलानां न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयं, शङ्का हि सकलासकलपपदार्थभाक्त्वेन द्रव्यगुणविषया इयं तु क्रियाविषयैव, तत्त्वतस्तु सर्व एते प्रायो मिध्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते, न सूक्ष्मेक्षिकाऽत्र कार्येति, इयमपि न कार्या, यतः सर्वज्ञोक्तकुशलानुष्ठानाद् भवत्येव . फलप्राप्तिरिति, अत्र चौरोदाहरणं
सावगो नंदीसरवरगमनं दिव्वगंधाणं (तं) देवसंघरिसेण मित्तस्स पुच्छणं विजाए दानं साहणं मसाणे चउप्पायं सिक्कगं, हेट्ठा इंगाला खायरो य सूली, अट्ठसयं वारा परिजवित्ता पाओ सिक्कगस्स छिइ एवं बितिओ तइए चउत्थे य छिण्णे आगासेणं वच्चति, तेन विजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org