SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -५- नि. १५२३ ] २६७ एकेनाभिव्यक्तार्थादागमात् (कश्चित् प्रवृत्तोऽन्येनाभिव्यक्तादर्थादन्योऽन्येनाप्यन्य इत्येवभूतया गताः परंपरगतास्तेभ्यः, आह-प्रथमएव केनाभिव्यक्तार्थादागमात् प्रवृत्त इति ?, उच्यते, अनादित्वात् सिद्धानां प्रथमत्वानुपपत्तिरिति, अथवा कथञ्चित् कर्मक्षयोपशमात् दर्शनं दर्शनात् ज्ञानं ज्ञानाच्चारित्रमित्येवंभूतया परम्परया गतास्तेभ्यः, तेऽपि च कैश्चित् सर्वलोकापन्ना एवेष्यन्त इत्यत आह- 'लोकाग्रमुपगतेभ्यः' लोकाग्रम्-ईषत्प्राग्भाराख्यं तमुपगताः तेभ्यः, आह- कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकाग्रं यावद्गतिर्भवति ? भावे वा सर्वदैव कस्मान्न भवतीति?, अत्रोच्यते, पूर्वाविधवशाद् दण्डादिचक्रभ्रमणवत् समयमेवैकमवसेयेति नमः सर्वदा सर्वकालं 'सर्वसिद्धेभ्यः' तीर्थसिद्धादिभेदभिन्नेभ्यः, अथवा सर्वं साध्यं सिद्धं येषां ते तथा तेभ्यः, इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा पुनरासन्नोपकारित्वाद् वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुति कुर्वन्ति मू. (५४) जो देवाणवि देवो जं देवा पंजली नमसंति । तं देवदेवमहिअं सिरसा वंदे महावीरं ।। वृ- 'जो देवाणवि देवो जं देवा पंजली' त्यादि, यो भगवान् महावीरः देवानामपि - भवनवास्यादीनां देवः, पूज्यत्वात्, तथा चाह-यं देवाः प्राञ्जलयो नमस्यन्ति-विनयरचितकरपुटाः सन्तः प्रणमन्ति, तं 'देव - देवमहियं' देवदेवाः शक्रादयः तैः महितं पूतिं शिरसा उत्तमाङ्गेनेत्यादरप्रदर्शनार्थमाह, वन्दे, तं कं ? - महावीरं ' 'ईर गतिप्रेरणमो 'रित्यस्य विपूर्वस्य विशेषेण ईरयतिकर्म गमयति याति वा श्विामिति वीरः, महांश्चासौ वीरश्च महावीरः तं इत्थं स्तुति कृत्वा पुनः फलप्रदर्शनार्थमिदं पठति भू. (५५) इक्कोऽवि नमुक्कारो जिनवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥ वृ- 'इक्कोऽवि नमोक्कारो जिनवरवसहस्से' त्यादि, एकोऽपि नमस्कारी जिनवरवृषभस्य वर्द्धमानस्य संसारसागरात्तारयति नरं वा नारीं वा, इयमत्र भावना - सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः तथाभूताध्यवसायहेतुर्भवति यथाभूताच्छ्रेणिमवाप्य निस्तरति भवोदधिमित्यतः कारणे कार्योपचारादेतदेवमुच्यते, अन्यथा चारित्रादिवैफल्यं स्यात् । भू. (५६) उञ्जितसेलसिहरे दिक्खा नाणं निसीहिआ जस्स । मू. (५७) तं धम्मचक्कवट्टि अरिनेमिं नम॑सामि ॥ चत्तारि अट्ठ दस दो य वंदिआ जिनवरा चउव्वीसं । परमट्टनिडिअट्टा सिद्धा सिद्धिं मम दिसंतु ।। वृ- एतास्तिस्त्रः स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि पठन्ति न च तत्र नियमः, 'कितिकम्म' पुणो संइंसयं पडिलेहिय उवविसंति, मुहपोत्तियं पडिलेहंति ससीसोवरयिं कार्य पडिलहित्ता आयरियस्स वंदन करेंति' त्ति गाथार्थः || आह- किंनिमित्तमिदं वन्दनकमिति ?, उच्यते नि. (१५२४) सुकयं आणत्तिं पिव लोगे काऊण सुकयकिइकम्मं । वतिया थुईओ गुरुथुइगहणे कए तिन्नि || For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy