________________
अध्ययनं-५- नि. १४८६]
२५३
वृ-आ०-'मनसहिएण' मनः सहितेनैव कायेन करोति, यदिति सम्बध्यते, उपयुक्तो यत् करोतीत्यर्थः, वाचा भाषते यच्च मनः सहितया, तदेव भावकरणं वर्तते, भावकरणं च ध्यानं, मनोरहितं तु द्रव्यकरणं भवति, ततश्चैतदुक्तं भवति-इहानेकाग्रतैव नास्ति सर्वेषामेव मनः प्रभृतीनामेकविषयत्वात्, तथाहि-स यत् मनसा ध्यायति तदेव वाचाऽभिधत्ते तत्रैव च कायक्रियेति गाथार्थः ।। इत्थं प्रतिपादिते सत्यपरस्त्वाहनि. (१४८७) चो० जइ ते चित्तं झाणं एवं झाणमवि चित्तमावन्नं ।
तेन र चित्तं झाणं अह नेवं झाणमन्नं ते ।। वृ- 'जइ ते चित्तं झाणं' यदि ते-तव चित्तं ध्यानं ‘अन्तोमुत्तकालं चित्तस्सेगग्गया हवइ झाणंति वचनात्, एवं ध्यानमपि चित्तमापनं, ततश्च कायिकवाचिक-ध्यायनासम्भव इत्यभिप्रायः, तेन किल चित्तमेव ध्यानं नान्यदिति हृदयं, अथ नैवमिष्यते-मा भूत, कायिकवाचिके ध्याने न ध्यानासम्भव इत्यभिप्रायः, तेन किल चित्तमेव ध्यानं नान्यदिति हृदयं, अथ नैवमिष्यते-मा भूत्, कायिकवाचिके ध्याने न भविष्यत् इति, इत्थं तर्हि ध्यानमन्यत्ते-तव चित्तादिति गम्यते, यस्मानावश्यं ध्यानं चित्तमिति गाथार्थः ।। नि. (१४८८)आ० नियमा चित्त झाणं झाणं चित्तं न यावि भइयव्वं ।
___जह खइरो होइ दुमो दुमो य खइरो अखयरो वा ।। वृ-अत्र आचार्य आह-अभ्युपगमाददोषः, तथाहि-'नियमा चित्तं झाणं' नियमात्-नियमेन उक्तलक्षणं चित्तं ध्यानमेव, 'झाणं चित्तं न यावि भइयव्वं ध्यानं तु चित्तं न चाप्येवं भक्तव्यंविकल्पनीयं, अत्रैवार्थे दृष्टान्तमाह-'जह खइरो होइ दुमो दुमो य खइरो अखइरो वा' यथा खदिरो भवति द्रुम एव, द्रुमस्तु खदिरः अखदिरो वा-धवादिर्वेत्ययं गाथार्थः ।।
अन्ये पुनरिदं गाथाद्वयमतिक्रान्तगाथावयवाक्षेपद्वारेणान्यथा व्याचक्षते, यदुक्तं 'चित्तं चिय तं न तं झाणंती' त्येतदसत्, कथं ?, यदि ते 'चित्तं झाणं एवं झाणमवि चित्तमावन्नं' सामान्येन 'तेन र चित्तं झाणं' किमुच्यते 'चित्तं चित्तं न झाणं'ति 'अह नेयं झाणंमन्नं ते' चित्तात्, अत्र पाठान्तरेणोत्तरगाथा 'नियमा चित्तं झाणं झाणं चित्तं न यावि भइयव्वं' यतोऽव्यक्तादिचित्तं न ध्यानमिति, 'जह खदिरो' इत्यादि निदर्शनं पूर्वं, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, प्रकृतश्च द्वितीयः उच्छ्रिताभिधानः कायोत्सर्गभेद इति, स च व्याख्यात एव, नवरं तत्र ध्यानचतुष्टयाध्यायी लेश्यापरिगतो वेदितव्य इति, नि. (१४८९) अटै रुदं च दुवे झायइ झाणाइं जो ठिओ संतो ।
एसो काउस्सग्गो दव्वसिओ भावउ निसन्नो ॥ नि. (१४९०) धम्मं सुक्कं च दुवे झायइ झाणाइं जो निसन्नो अ |
एसो काउस्सग्गो निसनसिओ होइ नायव्यो ।। नि. (१४९१) धम्मं सुक्कं च दुवे नवि झायइ नवि य अट्टरुद्दाइं ।
__एसो काउस्सग्गो निसण्णओ होइ नायव्यो । नि. (१४९२) अट्ट रुदं च दुवे झायइ झाणाइँ जो निसन्नो य ।
एसो काउस्सग्गो निसनगनिसन्नओ नाम ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org