________________
अध्ययनं-५- |नि. १४६७]
२४९
वृ-तत्र भणेत्-ब्रूयात् कश्चित्, किं ब्रूयादित्याह-'झाणं जो माणसो परीणामो' ध्यानं यो मानसः परीणामः, 'ध्यै चिन्ताया मित्यस्य चिन्तार्थत्वात्, इत्थमाशङ्कयोत्तरमाह-तं न भवति जिनदिठं झाण तिविहेवि जोगंमि' तदेतन्न भवति यत् परेणाभ्यधायि, कुतः ?, यस्मानिनैदृष्टं ध्यानं त्रिविधेऽपि योगे-मनोवाक्कायव्यापारलक्षण इति गाथार्थः ।। किंतु?, कस्यचित् कदाचित् प्रााधान्यमाश्रित्य भेदेन व्यपदेशः प्रवर्तते, तथा चामुमेव न्यायं प्रदर्शयन्नाहनि. (१४६८) वायाईघाऊणं जो जाहे होइ उक्कडो घाऊ।
कुविओत्ति सो पवुच्चइ न य इअरे तत्थ दो नत्थि ।। वृ- 'वायाईधाऊणं' वातादिधातूनां आदिशब्दात् पित्तश्लेष्मणोर्यो यदा भवत्युत्कट:-प्रचुरो धातुः कुपित इति स प्रोच्यते उत्कटत्वेन प्राधान्यात्, न य इतरे तत्थ दो नत्थि'त्ति न चेतरौ तत्र द्वौ न स्त इति गाथार्थः ।। नि. (१४६९) एमेव य जोगाणं तिण्हवि जो जाहि उक्कडो जोगो।
तस्स तहिं निद्देसो इअरे तत्थिक्क दो व नवा ।। वृ- “एमेव य जोगाणं' एवमेव च योगाना-मनोवाक्कायानां त्रयाणामपि यो यदा उत्कटो योगस्तस्य योगस्य तदा-तस्मिन् काले निर्देशः, 'इयरे तत्थेक्क दो व नवा' इतरस्तत्रैको भवति द्वौ वा भवतः, न वा भवत्येव, इयमत्र भावना-केवलिनः वाचि उत्कटाय कायोऽप्यस्ति अस्मदादीनां तु मनः कायो न वेति, केवलिनः शैलेश्यवस्थायां काययोगनिरोधकाले स एव केवल इति, अनेन च शुभयोगोत्कटत्वं तथा निरोधश्च द्वयमिति (मपि) ध्यानमित्यावेदित (व्य) मिति गाथार्थः ।। इत्थं य उत्कटो योगः तस्यैवेतरसद्भावेऽपि प्राधान्यात् सामान्येन ध्यान (त्व) मभिधायाधुना विशेषेण त्रिप्रकारमप्युपदर्शयन्नाहनि. (१४७०) काएविय अज्झप्पं वायाइ मनस्स चेव जह होई।
कायवयमनोजुत्तं तिविहं अजप्पमाहंसु ।। तु- 'काएवि य कायेऽपि च अध्यात्म अधि आत्मनि वर्तत इति अध्यात्म ध्यानमित्यर्थः, एकाग्रतया एजनादिनिरोधात्, ‘वायाए'त्ति तथा वाचि अध्यात्मं ध्यानमित्यर्थः, एकाग्रतया एजनादिनिरोधात्, 'वायाए त्ति तथा वाचि अध्यात्म एकाग्रतयैवायतभाषानिरोधात्, ‘मनस्स चेव जह होइ' त्ति मनसश्चैव यथा भवत्यध्यात्म एवं कायेऽवि वाचि चेत्यर्थः, एवं भेदेनाभिधायाधुनैकादावपि दर्शयन्नाह-कायवाङ्गनोयुक्तं त्रिविधं अध्यात्ममाख्यातवन्तस्तीर्थकरा गणधराश्च, वक्ष्यते च-भंगिअसुतं गुणंतो वट्टति तिविहेवि झाणमि'त्ति गाथार्थः ।। पराभ्युपगतध्यानसाम्यप्रदर्शनेनानभ्युपगतयोरपि ध्यानतां प्रदर्शयन्नाह-- नि. (१४७१) जइ एगग्गं चित्तं धारयओ वा निरंभओ वावि ।
झाणं होइनन् तहा इअरेसवि दोस एमेव ।। वृ- 'जइ एगग्गं' गाहा, हे आयुष्मन् ! यदप्येकाग्रं चित्तं क्वचिद् वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवत् डंक इति 'निरंभओ बावित्ति निरुन्धानस्य वा तदपि योगनिरोध इव केवलिनः किमित्याह-ध्यानं भवति मानसं यथा ननु तथा इतरयोरपि द्वयोकिकाययोः, एवमेव-एकाग्रधारणादिनैव प्रकारेण तल्लक्षणोगाद् ध्यानं भवतीति माथार्थः ।। इत्थं त्रिविधे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org