________________
२४६
आवश्यक मूलसूत्रम्-२- ५/३७ मार्गणाद्वारावयवार्थव्याचिख्यासयाऽऽहनि. (१४५२) सो उस्सग्गो दुविहो चिट्ठाइ अभिभवे य नायववो ।
भिक्खायरियाइ पढमो उक्सग्गभिजुंजणे बिइओ ।। वृ- ‘सो उस्सग्गो दुविहो 'स कायोत्सर्गो द्विविधः, 'चेट्टाए अभिभवे य नायव्वो' चेष्टायामभिभवे च ज्ञातव्यः, तत्र 'भिक्खायरियादि पढमो' भिक्षाचर्यादौ विषयो प्रथमः कायोत्सर्गः, तथाहि-चेष्टाविषय एवासौ भवति, “उवसग्गऽभिउंजणे बिइओ'त्ति उपसर्गा-दिव्यादयस्तैरभियोजनमुप-सर्गाभियोजनं तस्मिन्नुपसर्गाभियोजने द्वितीयः-अभिभवकायोत्सर्ग इत्यर्थः, दिव्याद्यभिभूत एव महामुनिस्तदैवायं करोतीति हृदयम्, अथवोपसर्गाणामभियोजन-सोढव्या मयोपसर्गास्तद्भयं न कार्यमित्येवं भूतं तस्मिन् द्वितीय इत्यर्थः । इत्थं प्रतिपादिते सत्याह चोदकः, कायोत्सर्गे हि साधुना नोपसर्गाभियोजनं कार्यनि. (१४५३)इयरहवि ता न जुञ्जइ अभिओगो किं पुणाइ उस्सग्गे ?।
ननु गव्वेण परपुरं अभिरुज्झइ एवमेयंति (पि)॥ वृ- 'इयरहवि तान' इतरथापि-सामान्यकार्येऽपि तावत् क्वचिदनवस्थानादौ न युज्यतेऽभियोगः कस्यचित् कर्तुं, 'किं पुणाइ उस्सग्गे' किं पुनः कायोत्सर्ग कर्मक्षयाय क्रियमाणे ?, स हि सुतरां गर्वरहितेन कार्यः, अभियोगश्च गर्वो वर्तते, नन्वित्यसूयायां गर्वेण अभियोजने परपुर-शत्रुनगरमभिरुध्यते, यथा तद्गर्वकरणमसाधु एवमेतदपि कायोत्सर्गाभियोजनमशोभनमेवेति गाथार्थः ।। एवं चोदकेनोक्ते सत्याहाचार्यःनि. (१४५४) मोहपयडीभयं अभिभवित्तु जो कुणइ काउस्सग्गं तु ।
भयकारणे य तिविहे नाभिभवो नेव पडिसेहो । वृ-'मोहपयडीभयं' मोहप्रकृतौ भयं २ अथवा मोहप्रकृतिश्चासौ भयं चेति समासः, मोहनीयकर्मभेद इत्यर्थः, तथाहि-हास्यरत्यरतिभयशेकजुगुप्साषट्कं मोहनीयभेदतया प्रतीतं, तत् अभिभवतु अभिभूय यः कश्चित् करोति कायोत्सर्ग तुशब्दो विशेषणार्थः नान्यं कञ्चन बाह्यमभिभूयेति, “भयकारणे तु तिविहे' बाह्ये भयकारणे त्रिविधे द्रव्यमनुष्यतिर्गग्भेदभिन्ने सति तस्य नाभिभवः, अथेत्थंभूतोऽप्यभियोग इत्यत्रोच्यते- 'नेव पडिसेहो' इत्थंभूतस्याभियोगस्य नैव प्रतिषैध्य इति गाथार्थः ।। किन्तु
नि. (१५५५) आगारेऊण परं रणिव्व जइ सो करिज उस्सग्गं । . मुंजिज्ज अभिभवो तो तद्भावे अभिभवो कस्स ?।।
वृ- 'आगारेऊण परं' आगारेऊण'त्ति, आकार्य रे रे क्व यास्यसि इदानीं एवं परम्-अन्यं कञ्चन ‘रणेव्य' संग्रामे इव यदि स कुर्यात् कायोत्सर्ग युज्येत अभिभवः, तभावे-पराभिभवाभावेऽभिभवः कस्य ?, न कस्यचिदिति गाथार्थः ।। तत्रैतत् स्यात्-भयमपि कर्मांशो वर्तते, कर्मणोऽपि चाभिभवः खल्चेकान्तेन नैव कार्य इत्येतच्चायुक्तम्, यतःनि. (१४५६) अट्टविहंपि य कम्मं अरिभूयं तेन तज्जयट्ठाए ।
अब्भुट्ठिया उ तवसंजमंमि कुब्वंति निग्गंथा । वृ. 'अट्ठविहंपि य कम्म' अष्टविध-अष्टप्रकारमपि, चशब्दो विशेषणार्थः तस्य च व्यवहितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org