________________
२४४
आवश्यक मूलसूत्रम् -२-५/३७
वर्तमानभवे स्थितः पुरस्कृतभवं पश्चात्कृतभवं च आयुष्ककर्म सद्रव्यतया स्पृशति, प्रकाशेनादित्यवदिति गाथार्थः ।। अधुना मातृकाकायः प्रतिपाद्यते, (मातृकेऽपि) मातृकापदानि 'उप्पनेति वे' त्यादीनि तत्समूहो मातृकाकायः, अन्योऽपि तथाविधपदसमूहो बह्वर्थ इति, तथाचाह -- [भा.२३०] माउयपयंति नेयं नवरं अन्नोवि जो पयसमूहो ।
सो पयकाओ भन्नइ जे एगपए बहू अत्था ।।। वृ- 'माउयपर्य'त्ति मातृकापदमिति 'नेम' 'नेमं'ति चिह्न, नवरमन्योऽपि यः पदसमूहःपदसङ्घातः स पदकायो भण्यते मातृकापदयकाय इति भावना, विशिष्टः पदसमूहः, किं ? - 'जे एगपए बहू अत्था' यस्मिन्नेकपदे बहवः अस्तेिषां पदानां यः समूह इति, पाठान्तरं वा 'जस्सेकपदे बहू अत्यत्ति गाथार्थः । संग्रहकायप्रतिपादनायाहनि. (१४४२) संगहकाओऽनेगावि जत्थ अन्नोवि धिप्पंति ।
जह सालिगामसेना जाओ वसही (ति) निविट्ठत्ति ।। वृ. “संगहकाओ नेगा' संग्रहणं संग्रहः स एव कायः, स किंविशिष्ट ? इत्याह-'नेगावि जत्थ एगवयणेण घेपंति'त्ति प्रभूता अपि यत्रैकवचनेन दिश्यन्तो गृह्यन्ते, यथा शालिग्रामः सेना जातो वसति निविठ्ठत्ति, यथासङ्घयं, प्रभूतेष्वपि स्तम्वेषु सत्सु जातः शालिरिति व्यपदेशः, प्रभूतेष्वपि पुरुषविलयादिषु वसति ग्रामः, प्रभूतेष्वपि हस्त्यादिषु निविष्टा सेनेति, अयं शाक्यादिरर्थः सङ्ग्रहकायो भण्यते इति गाथार्थः ।। साम्प्रतं पर्यायकायं दर्शयतिनि. (१४४३) पज्जवकाओ पुन हुंति पजवा जत्थ पिडिया बहवे ।
परमाणुमिविक्कंमिवि जह वन्नाइं अनंतगुणा ।। वृ. "पज्जवकाओ' पर्यायकायः पुनर्भवति, पर्याया-वस्तुधर्मा यत्र-परमाण्वादौ पिण्डिता बहवः, तथा च परमाणावपि कस्मिश्चित् सांव्यवहारिके यथा वर्णगन्धरसस्पर्शा अनन्तगुणाः अन्यापेक्षया, तथा चोक्तम्-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥" स चैकस्तिक्तादिरसस्तदन्यापेक्षया तिक्ततरतिक्तमादिभेदादान्तपं प्रतिपद्यते, पञ्चवर्णादिष्वपि विभाषेत्ययं गाथार्थः । अधुना भारकायस्तत्र गाथानि. (१४४४) एगो काओ दुहा जाओ एगो चिट्ठइ एगो मारिओ ।
जीवंतो अ मएण मारिओ तं लव मानव ! केन हेउना ?॥ वृ- एक्को काओ दुहा जाओ' एकः कायः-क्षीरकायः द्विधा जातः, घटद्वय न्यासात्, तत्र एकस्तिष्ठति, एको मारित्ः, जीवन् मृतेन मारितस्तदेतल्लवेति -ब्रूहि हे मानव ! केन कारणेन? कथानकं यथा प्रतिक्रमणाध्ययने परिहरणायामिति गाथार्थः, भारकायश्चात्र क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते, भारश्चासौ कायश्च भारकायः, अन्ने भति-भारकायः कापोत्येवोच्यते । नि. (१४४५) दुग तिग चउरो पंच व भावा बहुआ व जत्थ वस॒ति ।
सो होइ भावकाओ जीवमजीवे विभासा उ ॥ वृ. 'दुगतिगचउरो' द्वौ त्रयश्चत्वारः पञ्च वा भावा-औदयिकादयः प्रभूता वाऽन्येऽपि 'यत्र' सचेतनाचेतने वस्तुनि विद्यन्ते स भवति भावकायः, भावानां कायो भावकाय इति, 'जीवमजीवे विभासा उ' जीवाजीवयोर्विभाषा खल्वागमानुसारेण कार्येति गाथार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org