________________
अध्ययनं -४. [नि. १२७३]
१६३ तह मारणंतियऽहियासणाय एएऽनगारगुणा ।। वृ- व्रतषट्कं-प्राणातिपातादिविरतिलक्षणं रात्रिभोजनविरतिपर्यवसानम्, इन्द्रियाणां च श्रोत्रादीनां निग्रहः-इष्टेतरेषु शब्दादिषु रागद्वेषाकरणमित्यर्थः,भावसत्यं-भावलिङ्गम् अन्तःशुद्धिः, करणसत्यं चबाह्यं प्रत्युपेक्षणादिकरणसत्यं भण्यते, क्षमाक्रोधनिग्रहः, विरागतालोभनिग्रहः, मनोवाक्कायानामकुशलानामकरणंकुशलानामनिरोधश्च, कायानां-पृथिव्यादीनांषटकं, सम्यगनुपालनविषयतयाऽनगारगुणा इति, संयमयोगयुक्तता, वेदनाशीतादिलक्षणा तदभिसहना वा, तथा मारणान्तिकाऽभिसहना च-कल्याणमित्रबुद्धया मारणान्तिकोपसर्गसहनमित्यर्थः एतेऽनगारगुणा इति गाथाद्वयार्थः ।। अष्टाविंशतिविध आचार एवाऽऽचारप्रकल्पः, क्रिया पूर्ववत्, अष्टाविंशतिभेदान् दर्शयति
सत्थपरिना लोगो विजओ य सीओसणिज्ज संमत्तं । आवंतिधुवविमोहो उवहाणसुय महापरिन्ना य ।। पिंडेसणसिजि रिया भासजाया यवत्थपाएसा । उग्गहपडिमा सत्तेक्कतयं भावणविभुत्तीओ ।। उम्घायमनुग्धायं आरुवणा तिविहमो निसीहं तु ।
इय अट्ठावीसविहो आयारपकप्पणामोऽयं ।। गाथात्रयं निगदसिद्धमेव, एकोनत्रिंशद्भिः पापश्रुतप्रसङ्गैः, क्रिया पूर्ववत्, पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गाः-तथाऽऽसेवनारुपाइति, पापश्रुतानि दर्शयन्नाह सङ्ग्रहणिकारः
अठ्ठनिभित्तंगाइं दिव्वुप्पायंतलिक्खभोमंच | अंगसरलक्खणवंजणंचतिविहं पुणोक्केवं ।। सुत्तं वित्ती तह वत्तियं च पावसुय अउणतीसविहं ।
____गंधव्वनट्टवत्थु आउंधनुवेयसंजुतं ।। वृ- अष्ट निमित्ताङ्गानि दिव्यं-व्यन्तराद्यपृट्टहासादिविषयम्, उत्पातं-सहजरुधिरवृष्ट्यादिविषयम्, अन्तरिक्ष-ग्रहभेदादिविषयं,भौम-भूमिविकारदर्शनादेवास्मादिदं भवतीत्यादिविषयम्, अङ्गम्-अङ्गविषयं स्वरं-स्वरविषयं, व्यञ्जन-मषादि तद्विषयं, तथा च-अङ्गादिदर्शनतस्तद्विदो भाविनं सुखादि जानत्येव, त्रिविधं पुनरेकैकं दिव्यादि सूत्रं वृत्तिः तथा वार्तिकंच, इत्यनेन भेदेन
दिव्वाईण सरुवं अंगविवज्जाणहोति सत्तण्हं । सुत्तं सहस्स लक्खो य वित्ती तह कोडि वक्खाणं ।।
अंगस्स सयसहस्सं सुत्तं वित्तीय कोडि विन्नेया ।
वक्खाणं अपरिभियं इयमेव य वत्तियं जाण ।। पापश्रुतमेकोनत्रिंशद्विधं, कथम् ?, अष्टौ मूलभेदाः सूत्रादिभेदेन त्रिगुणिताश्चतुर्विशतिः गन्धर्वादिसंयुक्ता एकोनत्रिंशद्भवन्ति, 'वत्थुति वास्तुविद्या आउ'न्ति वैद्यकं, शेष प्रकटार्थं ।।
त्रिंशद्भिर्मोहनीयस्थानैः, क्रिया पूर्ववत्, सामान्येनैकप्रकृतिकर्म मोहनीयमुच्यते, उक्तं च'अट्टविहंपि य कम्म भणियं मोहोत्तिजं समासेण मित्यादि, विशेषेण चतुर्थी प्रकृतिर्मोहनीयं तस्य स्थानानि-निमित्तानिभेदाः पर्यायामोहनीयस्थानानि, तान्यभिधित्सुराह सहणिकारः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org