SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ १३२ आवश्यक-मूलसूत्रम् -२. ४/२३ संजयमनुएहिं जा सा सादुविहा होइआनुपुव्वीए । सच्चित्तेहिं सुविहिया ! अच्चित्तेहिं च नायव्वा ||१०॥ वृ. 'संयतमनुष्यैः' साधुभिः करणभूतैर्याऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूर्व्या, सह चित्तेन वर्तन्त इति सचित्तास्तैः-जीवद्भिरित्यर्थः, सुविहितेति पूर्ववत 'अच्चित्तेहिं च नायव्व'त्ति अविद्यमानचित्तैश्च-मृतैरित्यर्थः, ज्ञातव्या-विज्ञेयेतिगाथाक्षरार्थः । । इत्थं तावदुद्देशः कृतः, अधुना भावार्थः प्रतिपाद्यते, तत्र यथा सचित्तसंयतानां ग्रहणपारिस्थापनिकासम्भवस्तथा प्रतिपादयनराह अनभोग कारणेण व नपुंसमाईसु होइ सच्चित्ता । वोसिरणं तु नपुंसे सेसे कालं पडिक्खिज्जा ।।११॥ वृ- आभोगनमाभोगः-उपयोगविशेषः न आभोगः अनाभोगस्तेन 'कारणेन वा' अशिवादिलक्षणेन ‘नपुंसकादिषु' दीक्षितेषु सत्सु भवति ‘सचित्ता' इति व्यवहारतः सचित्तमनुष्यसंयतपरिस्थापनिकेति भावना, आदिशब्दाज्जड्डादिपरिग्रहः, तत्र चायं विधिः-योऽनाभोगेन दीक्षितः स आभोगित्वे सति व्युत्सृज्यते, तथा चाह-वोसिरणं तु नपुंसे'त्ति व्युत्सृजनं-परित्यागरूपं नपुंसके, कर्तव्यमिति वाक्यशेषः, तुशब्दोऽनाभोगदीक्षित इति विशेषयति, 'सेसे कालं पडिक्खिज्जत्ति शेषः कारणदीक्षितो जड्डादिर्वा, तत्र 'कालन्ति यावता कालेन कारणसमाप्तिर्भवत्येतावन्तं कालं जड्डादौ वक्ष्यमाणंच प्रतीक्ष्येत, न तावद्ध्युत्सृजेत इति गाथाक्षरार्थः ।। अथ किं तत्कारणं येनासौ दीक्ष्यत इति?, तत्रानेकभेदं कारणमुपदर्शयन्नाह असिवे ओमोयरिए रायदुढे भए व आगाढे । गेलन्ने उत्तिमढे नाणे तवदंसणचरित्ते ।।१२॥ वृ- ‘अशिवं' व्यन्तरकृतं व्यसनम् ‘अवमौदर्य' दुर्भिक्षं राजद्विष्ट' राजा द्विष्ट इति 'भयं' प्रत्यनीकेभ्यः ‘अगाढं भृशम, अयं चागादशब्दः प्रत्येकमभिसम्बध्यते अशिवादिषु ग्लानत्वं' ग्लानभावः ‘उत्तमार्थः' कालधर्मः, 'ज्ञानं' श्रुतादि तथा 'दर्शन' तत्प्रभावकशास्त्रलक्षणं 'चारित्रं' प्रतीतम, एतेष्वशिवादिषूपकुरुते यो नपुंसकादिरसौदीक्ष्यते इति, उक्तंच 'रायदुभएसुं ताणट्ट निवस्स वाऽभिगमणट्ठा । वेज्जो वसयं तस्स व तप्पिस्सइ वा गिलाणस्स ।। गुरुणोव्य अप्पणो वा नाणा गिण्हमाणि तप्पिहिई। अचरणदेसा निते तप्पे ओमासिवेहिं वा ।। एएहि कारणेहिं आगाढेहिं तु जो उपव्वावे । पंडा सोलसयं कएउकज्जे विगिचणया ।। जोसो असिवाइकारणेहिं पव्वाविज्जइनपुंसगो सो दुविहो-जाणओय अजाणओय, जाणओ जाणइजह साहूणं न वट्टइ नपुंसओ पव्वावेउं, अयाणओ नजाणइ, तत्थ जाणओ पन्नविज्जइ जह नवट्टइतुझ पव्वज्जा, नाणाइमग्गविराहणातेभविस्सइ,ता घरत्थो चेव साहूणं वट्टसुतो ते विउल निज्जरा भविस्सइ, जइइच्छइलटुं, अहन इच्छइतो तस्सअयाणयस्सय कारणे पव्याविज्जमाणाणं इमाजयणा की कडिपट्टए य छिहली कत्तरिया भंड लोय पाढे य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy