________________
१२७
अध्ययनं. ४- [नि. १२७१]
संबंधेणेएणं परिठावणिजुत्तिमायाया ।।१३॥
परिट्ठावणियविहिं वोच्छमि धीरपुरिसपन्नतं ।
जं नाऊण सुविहिया पवयणसारं सवलहंति ।।१॥ वृ- परितैः-सर्वैः प्रकारैः स्थापनं परिस्थापनम-अपुनर्ग्रहणतया न्यास इत्यर्थः, तेन निर्वृत्ता पारिस्थापनिकी तस्या विधिः-प्रकारः पारिस्थापनिकाविधस्तं वक्ष्ये'अभिधास्ये, किं स्वबुद्धयोत्प्रेक्ष्य ?, नेत्याह-'धीरपुरुषप्रज्ञप्तम्' अर्थसूत्राभ्यां तीर्थकरगणधरप्ररूपितमित्यर्थः, तत्रैकान्ततो वीर्यान्तरायापगमाद्धीरपुरुषः-तीर्थकरो गणधरस्तुधीः-बुद्धिस्तया विराजत इतिधीरः । आह-यद्ययं पारिस्थापनिकाविधि/रपुरुषाभ्यां प्ररूपित एव किमर्थं प्रतिपाद्यत इत्युच्यते-धीरपुरुषषाभ्यां प्रपञ्चेन प्रज्ञप्तः स एव संक्षेपरुचिसत्त्वानुग्रहायेह सक्षेपेणोच्यत इत्यदोषः, किंविशिष्टं विधिमत आह-यं 'ज्ञात्वा' विज्ञाय ‘सुविहिताः' शोभनं विहितम-अनुष्ठानं येषां ते सुविहिताः, साधव इत्यर्थः, किं ?-प्रवचनस्य सारः प्रवचनसन्दोहस्तम "उपलभन्ति' जानन्तीत्यर्थः । । सा पुनः पारिस्थापनिक्योघतः एकेन्द्रियनोएकेन्द्रियपरिस्थाप्यवस्तुभेदेन द्विधा भवति, आह
एगेंदियनोएगेंदियपारिद्वावणिया समासओ दुविहा ।
एएसिं तुपयाणं पत्तेय परूवणं वोच्छं ।।२।। वृ- एकेन्द्रिया:पृथिव्यादयः, नोएकेन्द्रियाः-त्रसादयस्तेषां पारिस्थापनिकी-एकेन्द्रियनोएकेन्द्रियपारिस्थापनिकी, 'समासतः' संक्षेपेण 'द्विधा' द्विप्रकारा प्रज्ञप्तोक्तेनैव प्रकारेण, 'एएसिंतुपयाणं पत्तेय परूवणंवोच्छं' अनयोः पदयोरेकेन्द्रियनोएकेन्द्रियलक्षणयोः 'प्रत्येकं पृथक्पृथक् 'प्ररूपणां' स्वरूपकथनां वक्ष्ये-अभिधास्य इति गाथार्थः ।। तत्रैकेन्द्रियपारिस्थापनिकीप्रतिपिपादयिषया तत्स्वरूपभेवादौ प्रतिपादयन्नाह
पुढवी आउक्काए तेऊ वाऊ वणस्साचेव ।
एगेदिय पंचविहा तज्जायतहा य अतज्जाय ।।३॥ वृ- पृथिव्यप्कायस्तेजो वायुर्नवनस्पतिश्चैव एवमेकेन्द्रियाः पञ्चविधाः, एकं त्वगिन्द्रियं येषां ते एकेन्द्रिया: 'पञ्चविधाः' पञ्चप्रकाराः, एतेषां चैकेन्द्रियाणां पारिस्थापनिकी द्विविधा भवति, कथमित्याह-तज्जाय तहा य अतज्जाय' तज्जातपारिस्थापनिकी अतज्जातपारिस्थापनिकी च, अनयोर्भावार्थमुपरिष्टाद्वक्ष्यतीति गाथार्थः ।। आह-सति ग्रहणसम्भवेऽतिरिक्तस्य परिस्थापनं भवति, तत्रपृथिव्यादीनां कथं ग्रहणमित्यत आह
दुविहं च होइ गहणं आयसमुत्थं च परसमुत्थं च ।
एक्कक्कंपिय दुविहं आभोगे तह अनाभोगे ।।४॥ वृ-'द्विविधंतु' द्विप्रकारं च भवति ‘ग्रहणं पृथिव्यादीनां, कथम्?-'आत्मसमुत्थं च परसमुत्थं च' आत्मसमुत्थं च स्वयमेव गृह्णतः परसमुत्थं परस्माद्वृतः, पुनरैकैकमपि द्विविधं भवति, कथमित्याह-'आभोए तह अनाभोए' आभोगनम् आभोगः, उपयोगविशेष इत्यर्थः, तस्मिन्त्राभोगे सति, तथाऽनाभोगे, अनुपयोग इत्यर्थः, अयं गाथाक्षरार्थः ।। अयं पुनर्भावार्थो वर्तते-तत्थ ताव आयसमुत्थंकहंच आभोएणहोज्ज?,साहू अहिणा खइओ विसं वाखइयं विसप्फोडिया वा उठ्ठिया, तत्थ जो अचित्तो पुढविकाओ केणइ आणिओ सोमणिज्जइ, नत्थि आणिल्लओ, ताहे अप्पणावि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org