________________
उपोद्घातः [नि. ८०]
५३
सुखावतारं सुखोत्तारं १ सुखावतारं दुरुत्तारं २ दुःखावतारं सुखोत्तारं ३ दुःखावतारं दुरुत्तार ४ मिति द्रव्यभावतीर्थं द्रष्टव्यं तच्च सरजस्कशाक्यबोटिकसाधुसंबन्धि विज्ञेयं, अलं प्रसङ्गेन । तथ भगः - समग्रैश्वर्यादिलक्षणः, उक्तं च
•
"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ।।"
ततश्च समग्रैश्वर्यादिभगयोगाद्भगवन्तोऽर्हन्त इति तान् भगवतः । आह - तीर्थकरानित्यनेनैव 'भगवत' इत्यस्य गतार्थत्वात् तीर्थकृतामुक्तलक्षणभगाव्यभिचारात् नार्थोऽनेनेति, न, नयमतान्तरावलम्बि-परिकल्पिततीर्थकरतिरस्कारपरत्वादस्येति, तथा च न तेऽविकलभगवन्तः, तान् भगवतो, वन्द इति क्रिया सर्वत्र योज्या । तथा परे-शत्रवः, ते च क्रोधाद्याः, आक्रमणमाक्रमः-पराजयः तदुच्छेद इतियावत् परेषामाऋमः पराक्रमः, सोऽनुत्तरः - अनन्यसध्शी येषां ते तथाविधाः । आह-ये खलु ऐश्वर्यादिभगवन्तः तेऽनुत्तरपराक्रमा एव, तमन्तरेण विवक्षितभगयोगाभावात्, ततश्च 'अनुत्तरपाक्रमान्' इत्येतदतिरिच्यते इति, अत्रोच्यते, अनादिशुद्धैश्वर्यादिसमन्वितपरमपुरुषप्रतिपादनपरनयवादनिराकरणार्थत्वाद् न दोषः, तथा चानुत्तरपराक्रमत्वामन्तरेणैव कैश्चित् हिरण्यगर्भादीनामनादिविवक्षितभगयोगोऽभ्युपगम्यत इति उक्तं च
“ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्ये चैव धर्मश्च, सहसिद्धं चतुष्टयम् ||" इत्यादि, अकर्त्रात्मवादव्यवच्छेदार्थं वा । अमितं अपरिमितं ज्ञेयानन्तत्वात् केवलं, अमितं ज्ञानं एषामित्यमितज्ञानिनः । आह-येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव नियमेन, क्रोधादिपरिक्षयोत्तरकालभावित्याद् अमितज्ञानस्येति, उच्यते, सत्यमेतत् किं तु क्लेशक्षयेऽप्यमितज्ञानानभ्युपगमप्रधाननयवादनिरासार्थत्वाद् उपन्यास इति, तथा चाहुरेके
"सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ? ।। इत्यादि”
स्वसिद्धान्तप्रसिद्धच्छद्मस्थवीत्तरागवयवच्छेदार्थं वा । तथा तरन्ति स्म भवार्णवमिति तीर्णास्तान् तीर्णान्, तीर्त्वा च भवौधं 'सुगतिगतिगतान्' तत्र सर्वज्ञत्वात्सर्वदर्शित्वाच्च निरुपमसुखभागिनः सुगतयः - सिद्धाः, तेषां गतिः सुगतिगतिः, अनेन तिर्यङ्नरनारकामरगतिव्यवच्छेदेन पञ्चमीमोक्षगतिमाह, तां गताः- प्राप्ताः तान् अनेन चावाप्ताणिमाद्यष्टविडधैश्वर्यस्वेच्छाविलसनशीलपुरुषतीर्णत्वप्रतिपादनपरनयवादव्यवच्छेदमाह, तथा च केचिदाहुः "अणिमाद्यष्टविधं प्राप्यैश्वर्य कृतिः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥
-
इत्यादि" तथा सिद्धेः तस्या एव सुगतेः पन्थाः सिद्धिपथः तस्य प्रधाना देशकाः तद्वीजभूतसामायिकादिप्रतिपादकत्वात् प्रदेशकाः, अनेनत्वनवद्यानेकसत्त्वोपकारकतीर्थकरनामकर्मविपाकपरिणामवत् तत्स्वरूपमेवाह, तान् 'वन्दे' अभिवादये इति गाथार्थः ॥ एव तावदविशेषेण ऋषभादीनां मङ्गलार्थं बन्दनमुक्तं, इदानीं आसन्नोपकारित्वात् वर्त्तमानतीर्थाधिपतेः अखिल श्रुतज्ञार्थप्रदर्शकस्य वर्धमानस्वामिनो वन्दमाह
नि. (८१)
Jain Education International
वंदामि महाभागं, महामुनिं महायसं महावीरं ।
For Private & Personal Use Only
www.jainelibrary.org