________________
आवश्यक मूलसूत्रम्-१.
अस्य च महार्थत्वान्मा भूद्विधन इति आरम्भे मङ्गलमुच्यते । आह-ननु मङ्गलं प्रागेवोक्तं, भूयः किं तेन ?, अथ कृतमङ्गलैरपि पुनरभिधीयते, इत्थं तर्हि प्रतिद्वारं प्रत्यध्ययनं प्रतिसूत्रं च वक्तव्यमिति । अत्राह कश्चित्-मङ्गलं हि शास्त्रस्यादौ मध्येऽवसाने चेति प्रतिपादितं, तत्रातिमङ्गलमुक्तं, इदानीं मध्यमङ्गलमुच्यते, तन्न, अनारब्ध एव शास्त्रे कुतो मध्यावकाश इति, स्यादेतत्, चतुरनुयोगद्वारात्मकं यतः शास्त्रं, अतोऽनुयोगद्वारद्वये ह्यतिक्रान्ते मध्यमङ्गलं, अत एव चानुयोगद्वाराणां शास्त्राङ्गतेति, नन्वेवमपि इदं शास्त्रमध्यं न भवति, अध्ययनमध्यत्वात्, शास्त्रमध्यो च मध्यमङ्गलावसर इति, तस्माद् यत्किञ्चिदेतत् ततश्चायं स्थितपक्षः-इह यदादौ मङ्गलं प्रतिपादितं तदावश्यकादिमङ्गलं, इदं तुनावश्यकमात्रस्य, सर्वानुयोगोपोद्घतिनियुक्तित्वात् प्रक्रान्तोपोद्घातस्य, वक्ष्यति च
“आवस्सस्स दसकालियस्स तह उत्तरज्झमायारे ।
सूयगडे निजुत्ती, वोच्छामि तहा दसाणं च ।। इत्यादि, तथा “सेसेसुवि अज्झयणेसु, होइ एसेव निजुत्ती" चतुर्विशतिस्तवादिष्विति वक्ष्यति, अतो महार्थत्वात् कथञ्चित् शास्त्रान्तरत्वाच्चास्यारम्भे मङ्गलोपन्यासो युक्त एवेति, आह-सामायिकान्वाख्यानेऽधिकृते को हि दशवैकालिकादीनां प्रस्ताव इति, अत्रोच्यते, उपोद्घातसामान्यात्, यतस्तेषामपि प्रायः खल्पवयमेवोपोद्घात इति, अलं प्रपञ्चेन ।
तचेदं मङ्गलम् - नि. (८०) तित्थयरे भगवंते, अनुत्तरपरक्कमे अमियनाणी।
तिण्णे सुगइगइगए, सिद्धिपहपदेसए वंदे ॥ वृ- गमनिका-तीर्थकरणशीलास्तीर्थकराः तान् वन्द इति योगः, तत्र 'तु प्लवनतरणयोः' इत्यस्य 'पात्रतुदिवचिसिचिरिचिभ्यस्थग् इति थक्प्रत्ययेऽनुबन्धलोपे च कृते 'ऋत इद्वा धातोः इति इत्त्वे रपरत्वे हलि चेति दीर्घत्वे परगमे च तीर्थ इति स्थिते 'डुकृञ् करणे' इत्यस्य 'चरेष्टः' इत्यस्मात् सूत्रात् टप्रत्ययाधिकारेऽनुवर्तमाने 'कृञो हेतुताच्छील्यानुलोम्येषु' इतिटप्रत्ययेऽनुबन्धलोपे च कृते गुणे रपरत्वे परगमने च तीर्थकर इति भवति । तत्र तीर्यतेऽनेनेति तीर्थं, तच नामादिचतुर्भेदभिन्नं, तत्र नोआगमतो द्रव्यतीर्थं नद्यादीनां समो भूभागोऽनपायश्च, तत्सिद्धौ तरिता तरणं तरणीयं च सिद्धं पुरुषबाहूडुपनद्यादि, द्रव्यता चस्येत्थं तीर्णस्यापि पुनस्तरणीयभावात्, अनेकान्तिकत्वात्, मानविवक्षायां च बाह्यमलापनयनात् आन्तरस्य प्राणातिपातादिकारणपूर्वकत्वात, तस्यं च तद्विनिवृत्तिमन्तरेणोत्पत्तिनिरोधाभावात्, प्रागुपात्तस्य च विशिष्टक्रियासव्यपेक्षाध्यवसायजन्यस्य तनत्यनीकक्रियासहगताध्यवसायतः क्षयोपपत्तेः, तत्क्षयाभावे च भावतो भवतरणानुपपत्तेरिति । भावतीर्थं तु नोआगमतः संघः, सम्यग्दर्शनादिपरिणामानन्यत्वात्, यत उक्तं-"तित्थं भंते ! तित्थं ? तित्थकरे तित्यं ? गोयमा ! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चाउव्वण्णो समणसंघो, पढमगणहरो वा' ॥ तरिता तु तद्विशेष एव साधुः, तथा सम्यग्दर्शनादित्रयं करणभावापन्नं तरणं, तरणीयो भवोदधिरिति । अथवा-पङ्कदाहपिपासानामपहारं करोति यत् । तद्धर्मसाधनं तथ्यं, तीर्थमित्युच्यते बुधैः ।। पङ्कस्तावत् पापे, दाहः कषायाः, पिपासा विषयेच्छा, एतेषामपहरणसमर्थं यदित्यर्थः, अथवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org