________________
१००
आवश्यक - मूलसूत्रम् - २- ४/२१ 'निःसङ्गः' विषयजस्नेहसङ्गरहितः, एवम्भूतोऽपि च कदाचित्सभयो भवत्यत आह- 'निर्भयः ' इहलोकादिसप्तभयविप्रमुक्तः, कदाचिदेवम्भूतोऽपि विशिष्टपरिणत्यभावात्परलोकमधिकृत्य साशंसो भवत्यत आह- 'निराशंसश्च' इहपरलोकाशंसाविप्रमुक्तः, चशब्दात्तथाविधक्रोधादिरहितश्च, य एवंविधो वैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति गाथार्थः । । उक्ता वैराग्यभावना । मूलद्वरगाधाद्वये ध्यानस्य भावना इति व्याख्यातम्, अधुना देशद्वारव्याचिख्यासयाऽऽह
निच्चं चिय जुवइपसूनपुंसगकुसीलवज्जियं जइणो । ठाणं वियणं भणियं विसेसओ झाणकालंमि ।। ३५ ।।
वृ- 'नित्यमेव ' सर्वकालमेव, न केवलं ध्यानकाल इति, किं ? - 'युवतिपशुनपुंसककुशीलपरिवर्जितं यतेः स्थानं विजनं भणित' मिति, तत्र युवतिशब्देन मनुष्यस्त्री देवी च परिगृह्यते, पशुशब्देन तिर्यक्स्त्रीति नपुंसकं प्रतीतं कुत्सितं निन्दितं शीलं वृत्तं येषां ते कुशीलाः, ते च तथाविधा द्यूतकारादयः, उक्तं च
'जूइयरसोलमेंठा वट्टा उब्भायगादिणो जेय ।
एए होति कुसीला वज्जेयव्वा पयत्तेणं ।।'
-
युवतिश्च पशुश्चेत्यादि द्वन्द्वः, युवत्यादिभिः परि-समन्तात् वर्जितं रहितमिति विग्रहः, यतेःतपस्विनः साधोः, 'एकग्रहणे तज्जातीयग्रहण' मिति साध्याश्च योग्यं यतिनपुंसकस्य च, किं ?स्थानम्-अवकाशलक्षणं, तदेव विशेष्यते युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं भणितम् उक्तं तीर्थकरैर्गणधरैश्चेदमेवम्भूतं नित्यमेव, अन्यत्र प्रवचनोक्तदोपसम्भवात्, विशेषतो ध्यानकाल इत्यपरिणतयोगादिनाऽन्यत्र ध्यानस्याऽऽराधयितुमशक्यत्वादिति गाथार्थः । । इत्थं तावदपरिणतयोगादीनां स्थानमुक्तम्, अधुना परिणतयोगादीनधिकृत्य विशेषमाहथिरकयजोगाणं पुण मुगीण झाणे सुनिच्चलमणाणं ।
गामि जणाइन्ने सुन्ने रने व न विसेसो ।। ३६ ।।
वृ-तत्र स्थिराः संहननधृतिभ्यां बलवन्त उछ्यन्ते, कृता- निर्वर्तिता अभ्यस्ता इतियावत्, के ?युज्यन्त इति योगाः - ज्ञानादिभावनाव्यापारः सत्त्वसूत्रतपःप्रभृतयो वा यैस्ते कृतयोगाः, स्थिराश्च से कृतयोगाश्चेति विग्रहस्तेषाम्, अत्र च स्थिरकृतयोगयोश्चतुर्भङ्गी भवति, तद्यथा- 'थिरे नामेगे नो कयजोगे' इत्यादि, स्थिरावा-पौनःपुन्यकरणेन परिचिताः कृता योगा यैस्ते तथाविधास्तेषां पुनः शब्दो विशेषणार्थः, किं विशिनष्टि ? - तृतीयभङ्गवतां न शेषाणां, स्वभ्यस्तयोगानां वा मुनीनामिति, मन्यन्ते जीवादीन् पदार्थानिति मुनयो विपश्चित्साधवस्तेषां च, तथा ध्याने - अधिकृत एव धर्मध्याने सुष्ठुअतिशयेन निश्चलं- निष्प्रकम्पं मनो येषां ते तथाविधास्तेषाम्, एवंविधानां स्थानं प्रति प्रामे जनाकीर्णे
-
शून्येऽरण्ये वा न विशेष इति, तत्र ग्रसति बुद्ध्यादीन् गुणान् गम्यो वा करादीवनामिति ग्रामःसन्निवेशविशेषः, इह 'एकग्रहणे तज्जतीयग्रहणा' नगरखेटकर्बटादिपरिग्रह इति, जनाकीर्णे-जनाकुले ग्राम एवोद्यानादौ वा, तथा शून्ये तस्मिन्नेवारण्ये वा कान्तारे वेति, वा विकल्पे, न विशेषो न भेदः, सर्वत्र तुल्यभावत्वात्परिणतत्वात्तेषामिति गाथार्थः । । यतश्चैवं
जो जत्थ समाहाणं होज मनोवयणकायजोगाणं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org