________________
८७
अध्ययनं-४- [नि. १२७१] कतादिलक्षणा तया, उक्तं
'नाणपडिनीय निण्हव अच्चासायण तदंतरायं च ।
कुणमाणस्सऽइयारो नाणविसंवादजोगं ।। तत्र प्रत्यनीकता पञ्चविधज्ञाननिन्दया, तद्यथा-आभिनिबोधिकज्ञानमशोभनं, यतस्तदवगतं कदाचित्तथा भवति कदाचिदन्यथेति, श्रुतज्ञानमपि शीलविकलस्याकिच्चत्करत्वादशोभनमेव, अवधिज्ञानमप्यरूपिद्रव्यागोचरत्वादसाधु, मनःपर्यायज्ञानमपि मनुष्यलोकावधिपरिच्छिन्नगोचरत्वादशोभनं, केवलज्ञानमपि समयभेदेन दर्शनज्ञानप्रवृत्तेरेकसमयेऽकेवलत्वादशोभनमिति, निह्नवो-व्यपलापः, अन्यसकाशेऽधीतमन्यं व्यपदिशति, अच्चासायणा
___काया वया यतेच्चिय ते चेव पमाय अप्पमाया य ।
मोक्खाहिगारिगाणं जोइसजोणीहि किं कज्जं ? इत्यादि, अन्तरायमसङ्खडास्वाध्यायिकादिभिः करोति, ज्ञानविसंवादयोगः अकालस्वाध्यायादिना, दर्शनसम्यग्दर्शनं तस्य विराधना दर्शनविराधनातया, असावप्येवमेय पञ्चभेदा, तत्रदर्शनप्रत्यनीकता क्षायिकदर्शनिनोऽपि श्रेणिकादयो नरकमुपगता इति निन्दया, निहवः-दर्शनप्रभावनीयशास्त्रापेक्षया प्राग्वद् द्रष्टव्यः, अत्याशातना-किमेभिः कलहशास्त्रैरिति?,अन्तरायंप्राग्वत दर्शनविसंवादयोगः शङ्कादिना, चारित्रं प्राग्निरूपितशब्दार्थ तस्य विराधना चारित्रविराधना तया-व्रतादिखण्डनलक्षणया ।। प्रतिक्रमामि चतुर्भिः कषायैर्योऽतिचारः कृतः, तघथा-क्रोधकषायेण मानकषायेण मायाकषायेण लोभकषायेण, कषायस्वरूपं सोदाहरणं यथा नमस्कार इति ।। __ प्रतिक्रमामि चतसृभिः संज्ञाभिर्योऽतिचारः कृतः, तद्यथा-आहारसंज्ञयेत्यादि ४, तत्र संज्ञानं संज्ञा, सा पुनः सामान्येन क्षायोपशमिकी औदयिकी च, तत्राऽऽघा ज्ञानावरणक्षयोपशमजा मतिभेदरूपा, न तयेहाधिकारः, द्वितीया सामान्येन चतुर्विधाऽऽहारसंज्ञादिक्षणा, तत्राहारसंज्ञाआहारभिलाषः क्षुद्वेदनीयोदयप्रभवः खल्वात्मपरिणाम इत्यर्थः, सा पुनश्चतुर्भिःस्थानैः समुत्पद्यते, तद्यथा- 'ओमकोट्टयाए १ छुहावेयणिज्जस्स कम्मस्सोदएणं २ मईए ३ तट्ठोवजोगेणं' तत्र मतिराहारश्रवणादिभ्यो भवति, तदर्थोपयोगस्त्वाहारमेवानवरतं चिन्तयतः, तयाऽऽहारसंज्ञया, भयसंज्ञा-भयाभिनिवेशः-भयमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा-'हीनसत्तयाए १ भयमोहणिज्जोदएणं २ मइए ३तयट्टोवओगेणं' तया, मैथुनसंज्ञामैथुनाभिलाषः वेदमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा'चियमंससोणित्ताए १ वेदमोहणिज्जोदएणंर. मए ३ तयट्ठोवओगेणं ४' तया, तथा परिग्रहसंज्ञापरिग्रहाभिलावस्तीव्रलोभोदयप्रभव आत्मपरिणामः, इयमपि चतुर्भिःस्थानैरुत्पद्यते, तद्यथा'अविवित्तयाए १ लोहोदएणरमए ३ तदट्ठोवओगेणं ४ तथा ।।
प्रतिक्रमामिचतसृभिर्विकथामिः करणभूताभिर्योऽतिचारः कृतः, तद्यथा-'स्त्रीकथये ति विरुद्धा विनष्टा वा कथा विकथा,साच स्त्रीकथादिलक्षणा, तत्रस्त्रीणां कथास्त्रीकथा तया, सा चतुर्विधाजातिकथा कुलकथा रूपकथा नेपथ्यकथा,तत्रजातिकथा ब्राह्मणीप्रभृतीनामन्यतमांप्रशंसति द्वेष्टि वा, कुलकथा उग्रादिकुलप्रसूतानामन्यतमा, रूपकथा अन्ध्रिप्रभृतीनामन्यतमाया रूपं प्रशंसति
'अन्ध्रीणां च ध्रुवं लीलाचलितभ्रूलते मुखे ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
ww