SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ८६ आवश्यक - मूलसूत्रम् - २- ४ /२१ मेहुणसन्नाए परिग्गहसन्नाए । पडिक्कमामि चउहिं विकहाहिंइत्थीकहाए भत्तकहाए देसकहाए रायकहाए । पडिक्कमामि चउहिं झाणोहिं अट्टेणं झाणेणं रुद्देणं० धम्मेणं० सुकेणं० । वृ-प्रतिक्रामामि त्रिमिः शत्यैः करणभूतैर्योऽतिचारः कृतः, तघथा- मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन, शल्यतेऽनेनेति शल्यं द्रव्यभावभेदमिन्नं, द्रव्यशल्यं कण्टकादि, भावशल्यमिदमेव, माया - निकृतिः सैव शल्यं मायाशल्यम्, इयं भावना - यो यदाऽतिचारमासाद्य मायया नालोचयत्यन्यथा वा निवेदयत्यभ्याख्यानं वा यच्छति तदा सैव शल्यमशुभकर्मबन्धनेनात्मशल्यनात् तेन, निदानं दिव्यमानुषर्द्धिसंदर्शनश्रवणाभ्यां तदभिलाषानुष्ठानं तदेव शल्यमधिकरणानुमोदनेनात्मशल्यनात तेन, मिथ्या विपरीतं दर्शनं मिथ्यादर्शनं मोहकर्मोदयजमित्यर्थः, तदेव शल्यं तत्प्रत्ययकर्मादानेनात्मशल्यनात् तत्पुनरभिनिवेशमतिमेदान्यसंस्तवोपाधितो भवति, इह चोदाहरणानि मायाशल्ये रुद्रो वक्ष्यमाणः पण्डुरार्या चोक्ता, निदानशल्ये ब्रह्मदत्तकथानकं यथा तच्चरिते, मिथ्यादर्शनशल्ये गोष्ठामाहिल जमालिभिषक्षूपचरकश्रावका अभिनिवेशमतिभेदान्यसंस्तवेभ्यो मिथ्यात्वमुपागताः, तत्र गोष्ठामाहिलजमालिकथानकद्वयं सामयिके उक्तं, भिक्षूपचरक श्रावककथानकं तूपरिष्टाद्वक्ष्यामः । । प्रतिक्रमामि त्रिभिर्गौरवैः करणभूतैर्योऽतिचारः कृतः, तद्यथा - ऋद्धिगौरवेण रसगौरवेण सातगौरवेण तत्र गुरोर्भावो गौरवं, तच्च द्रव्यभावभेदभिन्नं, द्रव्यगौरवं वज्रादेः भावगौरवमभिनालोभाभ्यामात्मनोऽशुभभावगौरवं संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानमिति भावार्थः तत्र ऋद्ध्या नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया गौरवं ऋद्धिप्रात्याभिभमानाप्राप्तिसम्प्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवमित्यर्थः एवं रसेन गौरवम् इष्टरसप्राप्तयभिमानाप्राप्तिप्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवं तेन, सातं सुखं तेन गौरवं सातप्राप्त्यभिमानाप्राप्तप्रार्थनाद्वारेणात्मनोऽशुभभावगौरवं तेन, इह च त्रिष्वप्युदाहरणं मङ्गुः " - मथुराए अज्जमंगू आयरिया सुबहुसड्ढा तहियं च । इइरसवत्थसयणासणाइ अहियं पयच्छंति ॥ 19 ॥ सो तिहिवि गारवेहिं पडिबद्धो अईव तत्थ कालगओ । महुराए निद्धमणे जक्खो य तहिं समुप्पन्नो ॥ २ ॥ क्खायतण अदूरेण तत्थ साहूण वञ्च्चमाणाणं । सन्नाभूमिं ताहे अनुपविसइ जक्खपडिमाए ||३ || निल्लालेउं जीहं निप्फेडिऊण तं गवक्खेणं । दंसेइ एव बहुसो पुट्ठो य कयाइ साहूहिं | १४ || किमिदं ? तो सो वय जीहादुट्ठो अहं तु सो मंगू । इत्थुववन्नो तम्हा तुम्भेवि एवं करे कोई । ।५ ॥ मा सोवि एवं होहिति जीहादोसेण जीह दाएमि । दहूण तयं साहू सुतरमगारवा जाया || ६ || प्रतिक्रमामि तिसृभिर्विराधनाभर्योऽतिचार इत्यादि पूर्ववत्, तद्यथा-ज्ञानविराधनयेत्यादि, तत्र विराधनं कस्यचिद्वस्तुनः खण्डनं तदेव विराधना ज्ञानस्य विराधना ज्ञानविराधना-ज्ञानप्रत्यनी For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy