________________
४८
आवश्यक मूलसूत्रम्-१
विद्यन्त इति गुणवान् तस्य गुणवतः प्रतिपत्तिर्वन्दनाध्ययनस्य ३ । चशब्दः समुचये, 'स्खलितस्येति' श्रुतशीलस्खलितस्य निन्दना प्रतिक्रमणस्य ४। तथा चारित्रात्मनो व्रणचिकित्साअपराधव्रणरोहणं कायोत्सर्गस्य ५। अपगतव्रतातिचारेतरोपचितकर्मविशरणार्थमनशनदिगुणसंधारणा प्रत्याख्यानस्य ६ इत्याधिकाराः । एषां च प्रत्यध्ययनमाधिकारद्वार एवावसरः प्रत्येतव्यः, इह तु प्रसङ्गतः स्कन्धोपदर्शनद्वारेणोक्ता इति । __ इदानीं अध्ययनन्यासप्रस्तावः, तं चानुयोगद्वारक्रमायातं प्रत्यध्ययनं ओघनिष्पत्रनिक्षेपे' लाघवार्थं वक्ष्यामः । एष आवश्यकस्य समुदायार्थः, इदानीमवयवार्थप्रदर्शनाय एकैकमध्ययन वक्ष्यामः, तत्र प्रथममध्ययनं सामायिक समभावलक्षणत्वात्, चतुविशतिस्तवादीनां च तद्भेदत्वात् प्राथम्यमस्येति । अस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति । अनुयोगद्वाराणीति कः शब्दार्थः ? अनुयोगोऽध्ययनार्थः, द्वाराणि तत्प्रवेशमुखानीति, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि च दुरधिगम कार्यातिपत्तये च, कृतचतर्मूलद्वारं प्रतिद्वारानुगतं सुखाधिगमं कार्यानतिपत्तये च, एवं सामायिकपुरमपि अधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगम भवति, सप्रभेदचतुर्धारानुगतं तु सुखाधिगम इत्यंतः फलवान् द्वारोन्यासः । तानि च अमूनि-उपक्रमो १ निक्षेपो २ ऽनुगमो ३ नय ४ इति । तत्र शास्त्रस्य उपक्रमणं उपक्रम्यतेऽनेनास्मादस्मिन्निति वा उपक्रमः, शास्त्रस्य न्यासदेशानयनमित्यर्थः । तथा निक्षेपणं निक्षिप्यतेऽनेनास्मादस्मिन्निति वा निक्षेपः न्यासः स्थापनेति पर्यायाः । एवमनुगमनं अनुगमः अनुगम्यते वाऽनेनास्मादस्मिन्निति वाऽनुगमः, सूत्रस्यानुकूलः परिच्छेद इत्यर्थः । एवं नयनं नीयते वाऽनेनास्मादस्मिन्निति वा नयः, वस्तुनः पर्यायाणां संभवतोऽधिगम इत्यर्थः। __ आह-एषामुपक्रमादिद्वाराणां किमित्येवं क्रम इति, अत्रोच्यते, न ह्यनुपक्रान्तं सद् असमीपीभूतं निक्षिप्यते, न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचायते इत्यतोऽयमेव क्रम इति । तत्रोपक्रमो द्विविधः-शास्त्रीय इतरश्च, तत्र इतरः षट्प्रकारः, नामस्थापनाद्रव्यक्षेत्र-कालभावभेदभिन्न इति, तत्र नामस्थपने सुज्ञाने, द्रव्योपक्रमो द्विविधः-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तश्च, स च त्रिविध-सचित्ताचित्तमिश्रद्रव्योपक्रम इति, तत्र सचित्तद्रव्योपक्रमः द्विपदचतुष्पदापदोपाधिभेदभिन्नः, पुनरेकैको द्विविधः- परिकर्मणि वस्तुविनाशे च, तत्र परिकर्म-द्रव्यस्य गुणविशेषपरिणामकरणं तस्मिन्सति, तद्यथा-धृताधुपभोगेन पुरुस्य वर्णादिकरणमिति, अथवा कर्णस्कन्धवर्धनादिक्रियेति, अन्ये तु शास्त्रगन्धर्वनृत्यादिकलासंपादनमपि द्रव्योपक्रम व्याचक्षते, इदं पुनरसाधु, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, किन्तु
आत्मद्रव्यसंस्कारविवक्षापेक्षया शरीरवर्णादिकरणवत् स्यादपीति । एवं शुकसारिकादीनां शिक्षागुणविशेषकरणं, तथा चतुष्पदानां हस्त्यादीनां, अपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद् वार्धक्यादि गुणापादनमिति, आह-यत्स्वयं कालान्तरभाव्युपक्रम्यते यथा तरोर्वार्धक्यादि तत्र परिकर्मणि द्रव्योपक्रमता युक्ता, वर्णकरणकलादिसंपदानस्य तु कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः कथं परिकर्मणि द्रव्योपक्रमतेति, अत्रोच्यते, विवक्षितहेतुजालमन्तरेणानुपपत्तेरित्यसिद्ध, कथं ? वर्णस्य तावन्नामकर्मविपाकित्वात् स्वयमपि भावात्, कालादीनां च
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only