________________
उपोद्घातः - [ नि. ८० ]
४७
एयं च दवण अन्ने अगीयत्थसमयणा पसंसंति, चिंतेंति य-नवरं आलोएयव्वं नत्थित्थ किंची पडिसेविएणं ति । अन्नदा कदाई गीयत्थे संविग्गी विहरमाणो आगओ, सो तं दिवसदेवसियं अविहिं दण उदाहरणं दाएति- गिरिणनरे नगरे रयणवाणियओ रत्तरयणाणं घरं भरेऊणं पलीवेइ, तं पासित्ता सव्वलोगो पसंसति - अहो इमो धन्नो भगवन्तं अग्गिं तप्पेति, अन्नया कयाई तेन पलीवितं, वाओ य पबलो जाओ, सव्वं नगरं दहुं, पच्छा रन्ना पडिहणिओ निव्विसओ य कओ । अन्नहिंपि नगरे एगो एवं चेव करेइ, सो राइणा सुओ जहा एवं करेइत्ति, सो सव्वरसहरणो काऊण विसजिओ, अडवीए कीस न पलीवेसि ? । जहा तेन वाणिअगेण अवसेसावि दड्ढा, एवं तुमंपि एतं पसंसित्ता एते साहुणो सव्वे परिचयसि, जाहे न ठाति ताहे साहुणो भणिआएस महाणिद्धम्मो अगीयत्थो अलं एयस्स आणाए, जदि एयस्स निग्गहो न कीरइ, तो अन्नेवि विनस्संति । इदानीं भावावश्यकं तदपि द्विविधमेव-आगमतो नोआगमतश्च, तत्रागमतो भावावश्यकं ज्ञाता उपयुक्तः, तदुपयोगानन्यत्वात्, अथवाऽऽवश्यकार्थोपयोगपरिणाम एवेति । नोआगमतस्तु ज्ञानक्रियोभयपरिणामो भावावश्यकं, उपयुक्तत्म क्रियेति भावार्थः, मिश्रवचनश्च नौशब्दः, इदमपि च लौकिकादित्रिविधं सूत्रादवसेयं, इह तु लोकोत्तरेणाधिकार इति । उक्तमावश्यकं, अस्य चामूनि अव्यामोहार्थमेकार्थिकानि द्रष्टव्यानि - आवस्सयं १ अवस्सकरणिजं २ धुव ३ निग्गहो ४ विसोही ५ य । अज्झयणछक्क ६ वग्गो ७णाओ ८ आराहणा ९ मग्गो १० ॥
समणेण सावएण य अवस्सकायव्वयं हवइ जम्हा 1 अहोनिसस्स य तम्हा आवस्सयं नाम ||
एवं श्रुतस्कन्धयोरपि निक्षेपश्चतुर्विध एव द्रष्टव्यः, यथाऽनुयोगद्वारेषु, स्थानाशून्यार्थे तु किञ्चिदुच्यते - इह नोआगमतो इशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतं पुस्तकपत्रकन्यस्तं, अथवा सूत्रमण्डजादि, भावश्रुतं त्वागमतो ज्ञाता उपयुक्तः, नोआगमतस्तिवदमेवावश्यकं, नोशब्दस्य देवावचनत्वात् । एवं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः सचेतनादिः, तत्र सचित्तो द्विपदातिः अचित्तो द्विप्रदेशिकादिः मिश्रः सेनादिदेशादिरिति, तथा भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एव, नोआगमतस्त्वावश्यकश्रुतस्कन्ध एवेति, नोशब्दस्य देशवचनत्वात्, अथवा ज्ञानक्रियागुणसमूहात्मकः सामायिकादीनामध्ययनानां समावेशात्, ज्ञानदर्शनक्रियोपयोग इत्यर्थः, नोशब्दस्तु मिश्र वचनः । सर्वपदैकवाच्यता सामाकिकादि श्रुतविशेषाणां षण्णां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्चेति समासः । आह- किमिदं आवश्यकं षडध्ययनात्मकमिति, अत्रोच्यते, षडर्थाधिकारात्मकत्वात्, ते चामी सामायिकादीनां यथायोगमवसेया इति
सावज्जजोगविरई १ उक्कित्तण २ गुणवओ य पडिवत्ती ३ |
खलयस्स निंदन ४ वणतिगिच्छ गुणधारणा ६ चेव ||
अवद्यं पापं, युज्यन्त इति योगाः व्यापाराः, सहावद्येन वर्त्तन्त इति सावद्याः, सावद्याश्च ते योगाश्चेति समासः, तेषां विरमणं विरतिः सामायिकार्थाधिकार इति १ उत्कीर्त्तनमुत्कीर्त्तना, तत्र गुणोत्कीर्त्तना अर्हतां चतुर्विंशतिस्तवस्य २ । गुणा ज्ञानादयः मूलोत्तराख्या वा, तेऽस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org