________________
अध्ययनं - ३ - [ नि. ११८७]
४९
वर्तमाना अपि सन्तः सीदन्ति, एतदुक्तं भवतिसूत्रं निश्रापदं कृत्वा यथाऽहं पठामि तावत्किं ममान्ये ?, एवमर्थे निश्रापदं कृत्वा श्रृणोमि तावत, एवं बालत्वं वृद्धत्वं असहम- असमर्थत्वमित्यर्थः, एवं द्रव्यापदं दुर्लभमिदं द्रव्यं, तथा क्षेत्रापदं क्षुल्लकमिदं क्षेत्रं, तथा कालापदं दुर्भिक्षं वर्तते, तथा भावापदं-ग्लानोऽहमित्यादि निश्रापदं कृत्वा संस्तरन्तोऽपि सीदन्त्यल्पसत्त्वा इति गाथार्थः । एवम्नि. ( ११८८ ) आलंबणाण लोगो भरिओ जीवस्स अजउकामस्स ।
जं जं पिच्छइ लोए तं तं आलंबणं कुणइ ।।
वृ- 'आलम्बनानां' प्राग्निरूपितशब्दार्थानां 'लोकः' मनुष्यलोकः 'भृतः' पूर्णो जीवस्य 'अजउकामस्स' त्ति अयतितुकामस्य, तथा च अयतितुकामो यद यत्पश्यति लोके नित्यवासादि तत तदालम्बनं करोतीति गाथार्थ: 11 किं च द्विधा भवन्ति प्राणिनः मन्दश्रद्धास्तीव्र श्रद्धाश्च, तत्रान्यन्मन्दश्रद्धानामालम्बनम अन्यच्च तीव्र श्रद्धानामिति, आह च
नि. (११८९) जे जत्थ जया जया बहुस्सुया चरणकरणप भट्ठा । जं ते समायरंती आलंबण तिव्वसङ्काणं ।।
बृ- 'ये' केचन साधवः 'यत्र' ग्रामनगरादी 'यदा' यस्मिन काले सुषमदुष्षमादौ 'जइय'त्ति यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणप्रभ्रष्टाः सन्तो यत्ते समाचरन्ति पार्श्वस्थादिरूपं तदालम्बनं मन्दश्रद्धानां भवतीति वाक्यशेषः, तथाहि आचार्यो मथुरायां मङ्गः सुभिक्षेऽप्याहारादिप्रतिबन्धापरित्यागात् पार्श्वस्थतामभजत्, तदेवमपि नूनं जिनैर्धर्मो दृष्ट एवेति गाथाभिप्रायः ।। नि. (११९० ) जे जत्थ जया जया बहुस्सुया चरणकरणसंपन्ना ।
जं ते समायरंती आलंबण तिव्वसड्डाणं ।।
बृ- 'ये' केचन 'यत्र' ग्रामनगरादौ 'यदा' सुषमदुष्मादौ 'जइय'त्ति यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणसम्पन्नाः, यत्ते समाचरन्ति भिक्षुप्रतिमादि तदालम्बनं तीव्रश्रद्धानां भवतीति गाथार्थः अवसितमानुषङ्गिकं तस्मात स्थितमिदं पञ्चानां कृतिकर्म न कर्तव्यं, तथा च निगमयन्नाहनि. (११९१) दंसणनाणचरित्ते तवविनए निच्चकालपासत्था ।
एए अवंदणिज्जा जे जसघाई पवयणस्स 11
वृ- 'दंसणनाणचरिते' त्ति प्राकृतशैल्या छान्दसत्वाञ्च दर्शनज्ञानचारित्राणां तथा तपोविनययोः 'निच्चकालपासत्थ' त्ति सर्वकालं पार्श्वे तिष्ठन्तीति सर्वकालपार्श्वस्थाः, नित्यकालग्रहणमित्वरप्रमादव्यवच्छेदार्थे, तथा च-इत्वरप्रमादानिश्चयतो ज्ञानाद्यपगमेऽपि व्यवहारतस्तु साधव एवेति, 'एते' प्रस्तुता अवन्दनीयाः, ये किंभूताः ? - 'यशोधातिनः ' यशोऽभिनाशकाः, कस्य ? - प्रवचनस्य, कथं यशोधातिनः ?, श्रमणगुणोपात्तं यद यशस्तत्तगुणवितथासेवनतो धातयन्तीति गाथार्थः । । पार्श्वस्थादिवन्दने चापायान्निगमयन्नाह
नि. (११९२ )
किइकम्मं च पसंसा सुहसीलजऩम्मि कम्मबंधाय । जे जे पमायठाणा ते ते उववूहिया हुंति ।।
वृ- 'कृतिकर्म' वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतो वाऽयमित्यादिलक्षणा 'सुखशीलजने' पार्श्वस्थजने कर्मबन्धाय, कथं ? - यतस्ते पूज्या एव वयमिति निरपेक्षतरा भवन्ति, एवं यानि यानि
25 4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org