________________
४४
दंसणचरित्तपक्खो समणे परलोकंखिम्मि ||
वृ- दर्शनपक्ष: 'श्रावके ' अप्रत्याख्यानकषायोदयवति भवति 'चारित्रभ्रष्टे च ' कस्मिश्चिंदव्यवस्थितपुराणे 'मन्दधर्मे च पार्श्वस्थादी, दर्शनचारित्रपक्षः श्रमणे भवति, किम्भूते ?- परलोकाकाङ्क्षिणि, सुसाधावित्यर्थः, प्राकृतशैल्या चेह सप्तमी षष्ठ्यर्थ एव द्रष्टव्या, दर्शनग्रहणाश्च ज्ञानमपि गृहीतमेव द्रष्टव्यम्, अतो दर्शनादिपक्षस्त्रिरूपो वेदितव्य इति गाथार्थः ।। अपरस्त्वाहयद्येवं बह्वीभिरुपपत्तिभिश्चारित्रं प्रधानमुपवर्ण्यते भवता ततस्तदेवास्तु, अलं ज्ञानदर्शनाभ्यामिति, न तस्यैव तद्व्यतिरेकेणासम्भवाद, आह
नि. (११६६)
आवश्यक मूलसूत्रम् -२- ३/१०
पारंपरम्पसिद्धी दंसणनाणेहिं होइ चरणस्स । पारंपरपसिद्धी जह होइ तहऽन्नपाणाणं ।।
वृ- पारम्पर्येण प्रसिद्धिः पारम्पर्य प्रसिद्धिः - स्वरूपसत्ता, एतदुक्तं भवति दर्शनाज्ज्ञानं, ज्ञानाच्चारित्रम्, एवं पारम्पर्येण चरणस्वरूपसत्ता, सा दर्शनज्ञानाभ्यां सकाशाद्भवति चरणस्य, अतस्तद्भावभावित्वाच्चरणस्य त्रितयमप्यस्तु, लौकिकं न्यायमाह - पारम्पर्यप्रसिद्धिर्यथा भवति तथाऽन्नपानयोलेकिऽपि प्रतीतैवेति क्रिया, तथा चान्नार्थी स्थालीन्धनाद्यपि गृह्णाति पानार्थी च द्राक्षाद्यपि, अतस्त्रितयमपि प्रधानमिति गाथार्थ: ।। आह-यद्येवमतस्तुल्यबलत्वे सति ज्ञानादीनां किमित्यास्थानपक्षपातमाश्रित्य चारित्रं प्रशस्यते भवतेति ?, अत्रोच्यते
नि. (११६७ ) जम्हां दंसणनाणा संपुष्णफलं न दिंति पत्तेयं । चारितजुयादिति उ विसिस्सए तेन चारितं ।।
वृ- यस्माद्दर्शनज्ञाने 'सम्पूर्णफलं' मोक्षलक्षणं 'न ददतः' न प्रयच्छतः प्रत्येकः, . चारित्रयुक्ते दत्ते एव, विशेष्यते तेन चारित्रं, तस्मिन्सति फलभावादिति गाथार्थः । ।
आह- विशिष्यतां चारित्रं, किन्तु
नि. (११६८) उज्जममाणस्स गुणा जह हुंति ससत्तिओ तवसुएसुं । एमेव जहासत्ती संजममाणे कहं न गुणा ? ।।
वृ- 'उज्जममाणस्स 'त्ति उद्यच्छतः उद्यमं कुर्वतः साधोः, क्व ? - तपः श्रुतयोरिति योगः, 'गुणाः' तपोज्ञानावाप्तिनिर्जरादयो यथा भवन्ति 'स्वशक्तितः ' स्वशक्त्योद्यच्छतः, एवमेव 'यथाशक्ति' शक्त्यनुरूपमित्यर्थः, 'संजममाणे कहंन गुण' त्ति संयच्छमाने संयमं पृथिव्यादिसंरक्षणादिलक्षणं कुर्वति सति साधौ कथं न गुणाः ?, गुणा एवेत्यर्थः, अथवा कथं न गुणा येनाविकलसंयमानुष्ठानरहितो विराधकः प्रतिपद्यत इति ?, अत्रोच्यते
नि. (११६९ )
Jain Education International
-
अनिगूहंतो विरियं न विराहेइ चरणं तवसुएसुं । जइ संजमेऽवि विरियं न निगूहिज्जा न हाविज्जा ।।
वृ- 'अनिगूहन वीर्य' प्रकटयन् सामर्थ्यं यथाशक्त्या, क्व ? - तपः श्रुतयोरिति योगः, किं ? न विराधयति चरणं' न खण्डयति चारित्रं ?, यदि 'संयमेऽपि' पृथिव्यादिसंरक्षणादिलक्षणे 'वीर्य' सामर्थ्यमुपयोगादिरूपतया 'न निगूहयेत्' न प्रच्छादयेन्मातृस्थानेन 'न हाविज्ज' त्ति ततो न हापयेत् संयमं न खण्डेत, स्यादेव संयमगुणा इति गाधार्थः ।।
नि. (११७० )
संजमजोएस या जे पुण संतविरियावि सीयंति ।
For Private & Personal Use Only
www.jainelibrary.org