________________
अध्ययनं -३- [नि. १११३]
३१ 'काचभावं' काचधर्म ‘प्राधान्यगुणेन' वैमल्यगुणेन 'निजेन' आत्मीयेन, एवं सुसाधुरपि पार्श्वस्थादिभिः सार्द्ध संवसन्नपिशीलगुणेनात्मीयेन न पार्श्वस्थास्थादिभावमुपैति, अयं भावार्थ इति गाथार्थः ।। - यत्किञ्चिदेतत, न हि दृष्टान्तमात्रादेवाभिलषितार्थसिद्धिः संजायते, यतःनि. (१११४) भावुगअभावुगाणिय लोए दुविहाणि होति दव्याणि ।
वेरुलिओ तत्थ मणी अभावुगो अन्नदव्वेहिं ।। वृ- भाव्यन्ते-प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्याति-कवेल्लुकादीनि, प्राकृतशैल्या भावुकान्युच्यन्ते, अथवा प्रतियोगिनि, सति तद्गुणापेक्षया तथा भवनशीलानि भावुकानि, लषपतपदस्थाभूवृषेत्यादावुकञ्तस्य ताच्छीलिकत्वादिति, तद्विपरीतानि अभाव्यानि च-नलादीनि लोके द्विविधानि' द्विप्रकाराणिभवन्ति 'द्रव्याणि' वस्तूनि, वैडूर्यस्तत्र मणिरभाव्यः 'अन्यद्रव्यैः' काचादिभिरिति गाथार्थः ।। स्यान्मतिः-जीवोऽप्येवम्भूत एव भविष्यति न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यति, एतच्चासत् यतःनि.(१११५) जीवो अनाइनिहणो तब्भावणभाविओय संसारे | '
खिप्पंसो भाविज्जइमेलणदोसानुभावेणं ।। वृ- 'जीवः' प्राग्निरूपितशब्दार्थः, स हि अनादिनिधनः अनाद्यपर्यन्त इत्यर्थः, तद्भावनाभावितश्च पार्श्वस्थाद्याचरितप्रमादादिभावनाभावितश्च संसारे' तिर्यग्नरनारकामरभवानुभूतिलक्षणे, ततश्च तद्मावनाभावितत्वात ‘क्षिप्रं' शीधं स ‘भाव्यते' प्रमादादिभावनयाऽऽत्मीक्रियते 'मीलनदोषानुभावेन' संसर्गदोषानुभावेनेतिगाथार्थः ।। अथ भवतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणुनि.(१११६) अंबस्स य निंबस्स य दुण्हपि समागयाई मूलाई ।
संसणीइ बिनट्ठो अंबो निबत्तणं पत्तो ।। वृ- चिरपतिततिक्तनिम्बोदकवासितायां भूमौ आम्रवृक्षः समुत्पन्नः, पुनस्तत्राऽऽम्रस्य च निम्बस्य च द्वयोरपि समागते' एकीभूते मूले, ततश्च संसर्या' सङ्गत्या विनष्ट आम्रो निम्बत्वं प्राप्तःतिक्तफलः संवृत्त इति गाथार्थः ।। तदेवं संसर्गिदोषदर्शनात्याच्या पार्श्वस्थादिसंसर्गिरिति ।
पुनरप्याह चोदकः-नन्वेतदपि सप्रतिपक्षं, तथाहि नि.(१११७) सुचिरपि अच्छमाणो नलथंभो उच्छुवाडमझमि |
कीस न जाय महुरो ? जइ संसग्गी पमाणं ते ।। वृ- 'सुचिरमपि' प्रभूतकालमपि तिष्ठन् ‘नलस्तम्बः' वृक्षविशेषः ‘इक्षुवाटमध्ये' इक्षुसंसर्या किमिति न जायतेमधुरः?, यदिसंसर्गी प्रमाणं तवेति गाथार्थः ।। आहाचार्यः-ननु विहितोत्तरमेतत 'भावुग अभावुगाणि य' इत्यादिग्रन्थेन, अत्रापि च केवली अभाव्यः पार्श्वस्थादिभिः, सरागास्तु भाव्या इति । आह-तैः सहाऽऽलापमात्रतायां संसर्या क इव दोष इति?, उच्यतेनि.(१११८) ऊणगसयभागेणं बिंबाइं परिणमंति तब्भावं ।
लवणागराइसु जहा वज्जेह कुसीलसंसगिं ।। वृ-ऊनश्चासौ शतभागश्चोनशतभागोऽपिन पूर्यत इत्यर्थः, तेन तावताऽशेन प्रतियोगिना सह सम्बद्धानीति प्रक्रमादम्यते ‘बिम्बानि' रूपाणि 'परिणमन्ति' तद्भावमासादयन्ति लवणीभवन्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org