________________
२०
आवश्यक मूलसूत्रम् - २- २/८
स्युर्न वा ?, यद्याद्यः पक्षस्तेषां रागादिमत्त्वप्रसङ्गः, अथ चरमः तत आरोग्यादिप्रदानविकला इति जानानस्यापि प्रार्थनायां मृषावाददोषप्रसङ्गः इति, न, इत्थं प्रार्थनायां मृषावादायोगात्, तथा चाह भासा असच्चामोसा नवरं भत्तीइ भासिआ एसा । नहु खीणपिज्जदोसा दिति समाहिं च बोहिं च । ।
नि. (१०९५)
वृ भाषा असत्यामृषेयं वर्तते, सा चामन्त्रण्यादिभेदादनेकविधा, तथा चोक्तम्, "आमंतणि आणवणी जायणि तह पुच्छणी य पन्नवणी । पच्चक्खाणी भासा भासा इच्छानुलोमाय ।। अभिग्गहिया भासा भासा य अभिग्राहंमि बोद्धव्या ।
संसयकरणी भासा वोयड अव्वोयडा चेव ।।
इत्यादि, तत्रेह याचन्याऽधिकार इति, यतो याञ्चयां वर्तते, यदुत- 'आरुग्गबो हिलाभ समाहिवरमुत्तमं दिंतु 'त्ति । आह-रागादिरहितत्वादारोग्यादिप्रदानविकलास्ते, ततश्च किमनयेति ?, उच्यते, सत्यमेतत नवरं भक्त्या भाषितैषा, अन्यथा नैव 'क्षीणप्रेमद्वेषाः ' क्षीणरागद्वेषा इत्यर्थः, 'ददति' प्रयच्छनित, किं न प्रयच्छन्ति ?, अत आह-समाधिं च बोधिं चेति गाथार्थः । । किंचनि. (१०९६ ) जं तेहिं दायव्वं तं दिनं जिनवरेहिं सव्वेहिं । दंसणनाणचरित्तस्स एस तिविहस्स उवएसो ।।
वृ- यत्तैर्दातव्यं तद्दत्तं जिनवरैः 'सर्वैः' ऋषभादिभिः पूर्वमेव, किं च दातव्यं ? दर्शनज्ञानचारित्रस्य सम्बन्धिभूतः आरोग्यादिप्रसाधक एष त्रिविधस्योपदेशः इह च दर्शनज्ञानचारित्रस्येत्युक्तं, मा भूदिदमेकमेव कस्यचित्सम्प्रत्यय इत्यतस्तद्व्युदासार्थं त्रिविधस्येत्याहेति गाथार्थः । आह-यदि नाम दत्तं ततः किं साम्प्रतमभिलषितार्थप्रसाधन सामर्थ्यरहितास्ते ?, ततश्च तद्भक्तिः कोपयुज्यते इति ?, अत्रोच्यतेनि. (१०९७)
भत्तीइ जिनवराणं खिती पुव्व संचिआ कम्मा । आयरिअ नमुक्कारेण विज्जा मंता य सिज्झति ॥
बृ- 'भक्त्या' अन्तःकरणप्रणिधानलक्षणया 'जिनवराणां' तीर्थकराणां सम्बन्धिन्या हेतुभूतया, किं ? 'क्षीयन्ते' क्षयं प्रतिपद्यन्ते 'पूर्वसञ्चितानि' अनेकभवोपात्तानि कर्माणि ज्ञानावरणादीनि, इत्थंस्वभावत्वादेव तद्भक्तेरिति, अस्मिन्नेवार्थे दृष्टान्तमाह तथाहि - आचार्यनमस्कारेण विद्यामन्त्राश्च सिद्ध्यन्ति, तद्भक्ति मतस्सत्त्वस्य शुभपरिणामत्वात्तत्सिद्धिप्रतिबन्धककर्मक्षयादिति भावनीयं, गाथार्थ: ।। अतस्साध्वी तद्भक्तिः, वस्तुतोऽभिलषितार्थप्रसाधकत्वाद, आरोग्यबोधिलाभादेरपि तन्निर्वर्त्यत्वात तथा चाऽऽह
नि. (१०९८ )
भत्तीइ जिनवराणं परमाएखीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं पावंति ।।
वृ- भक्त्या जिनवराणां किंविशिष्टया ? - 'परमया' प्रधानया भावभक्त्येत्यर्थः, 'क्षीणप्रेमद्वेषाणां' जिनानां, किम ? आरोग्यबोधिलाभं समाधिमरणं च प्राप्नुवन्ति प्राणिन इति, इयमत्र भावनाजिनभक्त्या कर्मक्षयस्ततः सकलकल्याणावाप्तिरिति, अत्र समाधिमरणंच प्राप्नुवन्तीत्येतदारोग्यबोधिलाभस्य हेतुत्वेन द्रष्टव्यं समाधिमरणप्राप्तौ नियमत एव तत्प्राप्तिरति, गाथार्थः । । साम्प्रतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org