________________
१९
अध्ययनं-२- (नि. १०९१] क एत इत्यत आह-य एते 'लोकस्य' प्राणिलोकस्य मिथ्यात्वादिकर्ममलकलङ्काभावेनोत्तमाःप्रधानाः, ऊर्ध्व वा तमस इत्युत्तमसः, “उत्प्राबल्योर्ध्वगमनोच्छेदनेष्विति वचनात, प्राकृतशैल्या पुनरुत्तमा उच्यन्ते, 'सिद्ध' इति सितं मातमेषामिति सिद्धाः-कृतकृल्या इत्यर्थः, अरोगस्य भाव आरोग्य-सिद्धत्वं तदर्थ बोधिलाभः-प्रेत्य जिनधर्मप्राप्तिर्बोधिलाभोऽभिधीयते तं, स चानिदानो मोक्षायैव प्रशस्यतइति, तदर्थमेव च तावत्किं?, ततआह-समाधान-समाधिः,सचद्रव्यभावभेदाद् द्विविधः, तत्र द्रव्यसमाधिर्यदुपयोगस्वास्थ्यं भवति येषां वाऽविरोध इति, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमस्वास्थ्ययोगादिति, यतश्चायमित्थं द्विधाऽतो द्रव्यसमाधिव्यवच्छेदार्थमाह-वरं-प्रधानं भावसमाधिमित्यर्थः,असावपितारतम्यभेदादनेकधैव अत आहउत्तम-सर्वोत्कृष्टं ददतु-प्रयच्छन्तु, आह-किं तेषांप्रदानसामर्थ्यमस्ति?,न, किमर्थमेवमभिधीयत इति?, उच्यते, भक्त्या, वक्ष्यति च-'भासा असच्चमोसा' इत्यादि, नवरं तद्भक्त्या स्वयमेव तत्प्राप्तिरुपजायत इति कृतं विस्तरेणेतिगाथार्थः ।। व्याख्यातं लेशत इदं सूत्रगाथाद्वयम, अधुना सूत्रस्पर्शिकया प्रतन्यते, तत्राभिष्टकीर्तनैकार्थिकानि प्रतिपादयन्नाहनि.(१०९२) थुइथुणणवंदननमंसणाणि एगट्टिआणि एयाणि ।
कित्तण पसंसणावि अविनयपणामे अएगट्ठा ।। दृ-स्तुतिः स्तवनं वन्दनं नमस्करणमं एकार्थिकान्येतानि तथा कीर्तनं प्रशंसैव विनयप्रणामौ च एकार्थिकानीति गाथार्थः ।। साम्प्रतं युदक्त 'उत्तमां इति तद्व्याचिख्यासुरिदमाहनि.(१०९३) मिच्छत्तमोहणिज्जा नाणावरणा चरितमोहाओ ।
तिविहतमा उम्मुक्का तम्हा ते उत्तमाहुति ।। वृ-मिथ्यात्वमोहनीयात तथा ज्ञानावरणात्तथा चारित्रमोहाद इति, अत्र मिथ्यात्वमोहनीयग्रहणेन दर्शनसप्तकं गृह्यते, तत्रानन्तानुबन्धिनश्चत्वारः कषायास्तथा मिथ्यात्वादित्रयं च, ज्ञानावरणं मतिज्ञानाधावरणभेदात पञ्चविधं, चारित्रमोहनीयं पुनरेकविंशतिमेदं, तच्चनन्तानुबन्धिरहिता द्वादश कषायास्तथा नव नोकषाया इति, अस्मादेव यतस्त्रिविधतमसः, किम ?-उन्मुक्ताः-प्राबल्येन मुक्ताः, पृथग्भूता इत्यर्थः, तस्मात्ते भगवन्तः, किम ?, उत्तमा भवन्ति, ऊर्ध्व तमोवृत्तेरिति गाथार्थः । । साम्प्रतं यदुक्तं 'आरोग्यबोधिलाभ'मित्यादि, अत्र भावार्थमविपरीतमनवगच्छन्नाहनि.(१०९४) आरुग्गबोहिलाभं समाहिवरमुत्तमंच मे दितु ।
किंनुहुनिआणमेअंति?, विभासा इत्थ कायव्वा ।। वृ-आरोग्याय बोधिलाभः आरोग्यबोधिलाभस्तं,भावार्थः प्रागुक्त एव, तथा समाधिवरमुत्तमं च 'मे' मम ददत्विति यदुक्तम, अत्रकाका पृच्छति-'किं नु हुनियाणमेअंति तत्रकिमिति परप्रश्रे, नु इति वितर्के, हुतत्समर्थने,निदानमेतदिति?, यदुक्तमारोग्यादि ददतु, यदि निदानमलमनेन, सूत्रे प्रतिषिद्धत्वात, न चेद व्यर्थमेवोञ्चारणमिति, गुरुराह- “विभासा एत्थ कायद्य'त्ति विविधा भाषा विभाषा-विषयविभागव्यवस्थापनेन व्याख्येत्यर्धः, अत्र कर्तव्या, इयमिह भावना-नेदं निदानं, कर्मबन्धहेतुत्वाभावात, तथाहि-मिथ्यादर्शनाविरतिप्रमादकषाययोग बन्धहेतवः, न च मुक्तिप्रार्थनायाममीषामन्यतरस्यापि सम्भव इति, नच व्यर्थमेव तदुच्चारणमिति, ततोऽन्तःकरणशुद्धेरिति गाथार्थः ।। न नामेदमित्थं निदानं, तथाप तु दुष्टमेव, कथम ?, इह स्तुत्या आरोग्यादिप्रदातारः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org