SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ १४ आवश्यक-मूलसूत्रम् -२- २/३ इह प्रवचने सामान्यतो विशिष्टश्रुतधरादयोऽपिजिना एवोच्यन्ते, तद्यथा-श्रुतजिना अवधिजिना मनःपर्यायज्ञानजिनाः छद्मस्थवीतरागाश्च, तन्मा भूत्तेषु सम्प्रत्यय इति तदपनोदार्थं लोकस्योद्योतकरानित्याद्यप्युदुष्टमेव । अपरस्त्वाह-अर्हत इति न वाच्यं, न ह्यनन्तरोदितस्वरूपा अर्हद्व्यतिरेकेणापरे भवन्तीति, अत्रोच्यते अर्हतामेव विशेष्यत्वान्न दोष इति । आह-यद्येवं हन्त! तर्हित अवेत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थकं, न, तस्य विशेषणसाफल्यस्य च प्रतिपादितत्वात । अपरस्त्वाह-केवलिन इति न वाच्यं, यथोक्तस्वरूपाणामहतां केवलित्वाव्यभिचारात, सति च व्यभिचारसम्भवे विशेषणोपादानसाफल्यात, तथा च-सम्भवे व्यभिचारं च विशेषणमर्थवद्भवति, तथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुयादीयमानपयिथा कृष्णो भ्रमरः शुक्का बलाका इत्यादि (वत) ऋते प्रयासात कमर्थ पुष्णातीति ?, तस्मात्केवलिन इत्यतिरिच्यते, न, अभिप्रायापरिज्ञानाद, इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो नान्य इति नियमनार्थत्वेन स्वरूपज्ञानार्थमेवेदं विशेषणमित्यन वद्यं, न चैकान्ततो व्यभिचारसम्भव एव विशेषणोपादानसाफल्यम्, उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात, तत्रोभयपदव्यभिचारे यथा नीलोत्पलमिति, तथैकपदव्यभिचारे यथा आपो द्रव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा परमाणुषप्रदेश इत्यादि, यतश्चैवमतः केवलिन इति न दुष्टम् । आह-यद्येवं केवलिन इत्येतदेव सुन्दरं, शेषं तुलोकस्योद्योतकरानित्यादिकमनर्थकीमति, अत्रोच्यते इह श्रुतकेवलिप्रभृतयोऽन्येऽपि विद्यन्त एव केवलिनः, तस्मान्मा भूत्तेषु सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्योद्योतकरानित्याद्यपि वाच्यमिति । एवं व्यादिसंयोगापेक्षयाऽपि विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यम्, इत्यलं विस्तरेण, गमनिकामात्रमेतदिति । तत्र यदुक्तं कीर्तयिष्ययामीति' तत्कीर्तनं कुर्वन्नाहमू. (४) उसभमजिअंच वंदे संभवमभिनंदणं च सुमइंच । परमप्पहं सुपासंजिणंच चंदप्पहं वंदे ।। मू. (५) सुविहिं च पुष्कदंतं सीअल सिजंस वासुपुज्जंच । विमलमनंतंच जिणं धम्म संतिंच वंदामि ।। कुंथु अरंच मल्लिं वंदे मुनिसुव्वयं नमिजिणं च । ___वंदामि रिट्ठनेमिं पासंतह बद्धमाणंच ।। वृ- एतास्त्रिस्रोऽपि सूत्रगाथा इति, आसां व्याख्या-इहार्हतां नामानि अन्वर्थमधिकृत्य सामान्यलक्षणतो विशेषलक्षणतश्च वाच्यानि, तत्र सामान्यलक्षणमिदं-'वृष उद्धहने' समग्रसंयमभारोद्वहनाद वृषभः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह- ' नि.(१०८०/१) ऊरूसु उसमलंछग उसभं सुमिणमि तेन्न उसभजिणो | वृ-पुव्वद्धं । जेन भगवओ दोसुविऊरूसुउसभा उप्पराहुत्ताजेणच मरुदेवाएभगवअ चोदसण्हं महासुमिणाणं पढमो उसमो सुमिणे दिह्रोत्ति, तेन तस्स उसभोत्ति नामं कयं, सेसतित्थगराणं मायरो पढमं गयं तओ वसहं एवं चोदस, उसभोत्ति वा वसहोत्ति वा एगटुं ।। इदानिं अजिओ-तस्य सामान्येनाभिधाननिबन्धनं परीषहोपसर्गादिभिर्न जितोऽजितः, सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषनिबन्धनाभिधित्सयाऽऽह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy