________________
१२
आवश्यक-मूलसूत्रम् -२- २/३ द्वैविध्यमेव दर्शयति-प्रशस्तस्तथाऽप्रशस्तश्चैतिगाथार्थः ।। तत्राप्रशस्तपरित्यागेन प्रशस्तसद्भा-वादप्रशस्तमेवादावभिधित्सुराहनि.(१०७४) कलहकरो डमरकरो असमाहिकरोअनिव्वुइकरो अ ।
एसो उअप्पसत्थो एवमाई मुणेयव्यो ।। वृ- आह-उक्तप्रयोजनसद्भावादुपन्यासोऽप्येवमेव किमिति न कृत इति, अत्रोच्यते, आसेवनयाऽयमेव प्रथमस्थाने कार्य इति ज्ञापनार्थ, तंत्र कलहो-भण्डनं, ततश्चाप्रशस्तः कोपाद्यौदयिकभावतः, तत्करणशीलः कलहकर इति, एवं डमरादिष्वपि भावनीयं, नवरं वाचिकः कलहः, कायवाङ्मनोभिस्ताडनादिगहनं डमरं, समाधान-समाधिः स्वास्थ्यं न समाधिरसमाधिःअस्वास्थ्यनिबन्धना सा सा कायादिचेष्टेत्यर्थः, अनेनैव प्रकारेणानिर्वृतिरिति, एषोऽप्रशस्तः, तुशब्दस्यावधारणार्थत्वादेष एव जात्यपेक्षया नतुव्यक्त्यपेक्षयेति, अतएवाह-एवमादिविज्ञातव्यः व्यक्त्यपेक्षयाऽप्रशस्तभावकर इति गाथार्थः । । साम्प्रतंप्रशस्तभावकरमभिधातुकाम आहनि. (१०७५) अत्थकरो अहिअकरो कित्तिकरो गुणकरो जसकरो अ।
अभयकर निव्वुइकरो कुलगर तित्थंकरतकरो ।। वृ-तत्रौधत एव विद्यादिरर्थः, उक्तं च-'विद्याऽपूर्वे धनार्जनं शुभमर्थ' इति, ततश्च प्रशस्त विचित्रकर्मक्षयोपशमादिभावतः, तत्करणशीलोऽर्थकरः, एवं हितादिष्वपि भावनीयं, नवरं हितं. परिणामपथ्यं कुशलानुबन्धि यत्किञ्चित्, कीर्तिः-दानपुण्यफला, गुणाः-ज्ञानादयः, यशःपराक्रमकृतं गृह्यते, तदुत्थसाधुवाद इत्यर्थः, अभयादय प्रकटार्थाः, नवरमन्तः कर्मणः परिगृह्यते, तत्फलभूतस्य वासंसारस्येति गाथार्थः ।। उक्तोभावकरः, अधुना जिनादिप्रतिपादनायाऽऽहनि.(१०७६) जियकोहमानमाया जियलोहा तेन ते जिना हुंति ।
अरिणो हंता रयं हंता अरिहंता तेन वुच्चंति ।। वृ-जितक्रोधमानमाया जितलोभायेन कारणेनतेन तेभगवन्तः, किं?-जिनाभवन्ति, 'अरिणो हंता रयं हते' त्यादिगाथादलं यथा नमस्कारनिर्युक्तौ प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ।।
कीर्तयिष्यामीत्यादिव्याचिख्यासया साम्प्रतमिदमाहनि.(१०७७) कित्तेमि कित्तणिज्जे सदेवमनुआपुरस्स लोगस्स ।
दसणनाणचरिते तवविनओदंसिओ जेहिं ।। वृ-कीर्तयिष्यामि नामभिगुणैश्च, किम्मूतान् ?-कीर्तनीयान, स्तवाहनित्यर्थः, कस्येत्यत्राहसदेवमनुष्यासुरलोकस्य, त्रैलोक्यस्येति भावः, गुणानुपदर्शयति-'दर्शनज्ञानचारित्राणि' मोक्षहेतुनि (निति), तथा 'तपोविनयः' दर्शितो यैः, तत्र तप एव कर्मविनयाद् विनयः, इति गाथार्थः ।। नि.(१०७८) चउवीसंतिय संखा उसभाईआ उभण्णमाणा उ ।
अविसद्दग्गहणा पुण एरवयमहाविदेहेसुं ।। वृ- चतुर्विंशतिरिति सङ्ख्या , ऋषभादयस्ते वक्ष्यमाणा एव, अपिशब्दग्रहणात्पुनः एरवतमहाविदेहेषु ये तद्रहोऽपि वेदितव्य इति गाथार्थः ।। नि.(१०७९) कसिणं केवलकप्पं लोग जाणंति तह य पासंति ।
केवलचरितनाणी तम्हा ते केवली हुँति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org