________________
११
अध्ययनं -२- [नि. १०६६]] तृषः- पिपासायाश्छेदनं, जलसङ्घातेन तदपनयनात्, 'मलप्रवाहणं चैवे'त्यत्र मलः बाह्य एवाङ्गसमुत्थोऽभिगृह्यते तत्प्रवाहणं, जलेनैव तत्प्रवाहणात्, ततः प्रक्षालनादिति भावः, एवं त्रिभिर ः करणभूतैत्रिषु वाऽर्थेषु 'नियुक्तं प्रथमव्युत्पत्तिपक्षे प्ररुपितं द्वितीये तु नियोजितं, यस्मादेवं बाह्यदाहादिविषयमेव तस्मात्तन्मागधादि द्रव्यतस्तीर्थे, मोक्षासाधकत्वादिति गाथार्थः ।।
भावतीर्थमधिकृत्याहनि. (१०६७) कोहमि उनिगहिए दाहस्स पसमणं हवइ तत्थं ।
लोहमि उनिगहिए तण्हाएछेअणं होइ ।। वृ-इहभावतीर्थक्रोधादिनिग्रहसमर्थं प्रवचनमेव गृह्यते, तथा चाह-क्रोध एव निगृहीते 'दाहस्य' द्वेषानलजातस्यान्तः प्रशमनं भवति, तथ्यं निरुपचरितं, नान्यथा, लोभ एव निगृहीते सति, किं?'तण्हाएछेअणं होइत्ति तृषः-अभिष्वङ्गलक्षणायाः किं ? - 'छेदनं भवति' व्यपगमो भवतीति । नि.(१०६८) अट्टविहं कम्मरयं बहुएहि भवेहिं संचिअंजम्हा ।
तवसंजमेणधुव्वइ तम्हातंभावओतित्थं ।। वृ- 'अष्टविधम्' अष्टप्रकारं, किं ? - 'कर्मरजः' कर्मैव जीवानुरञ्जनाद्रजः कर्मरज इति, बहुभिर्भवैः सञ्चितं यस्मात्तपसंयमेन 'धाव्यते' शोध्यते, तस्मात्तत्-प्रवचनं भावतः तीर्थ, मोक्षसाधनत्वादिति गाथार्थः ।। नि. (१०६९) सणनाणचरितेसु निउत्तं जिनवरेहि सव्वेहिं ।
तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ।। वृ-दर्शनज्ञानचारित्रेषु 'नियुक्तं नियोजितं 'जिनवरैः' तीर्थकृभिः सर्वे' ऋषभादिभिरिति, यस्माच्चैत्थम्मूतेषु त्रिष्वर्थेषु नियुक्त तस्मात्तत्प्रवचनंभावतः तीर्थ, मोक्षसाधकत्वादिति गाथार्थः ।।
उक्तं तीर्थम्, अधुना कर उच्यते, तत्रेयं गाथानि. (१०७०) नामकरो १ ठवणकरो २ दव्वकरो ३ खित्त ४ काल ५ भावको ६ ।
___एसो खलु करगस्स उ निक्खेवो छव्विहो होइ ।। वृ-निगदसिद्धा । । नवरं द्रव्यकरमभिधित्सुराहनि. (१०७१) गोमहिसुट्टिपसूणं छगलीणंपिअकरा मुणेयव्वा ।
तत्तो अतणपलाले भुसकटुंगारपलले य ।। नि.(१०७२) सिउबरजंधाए बलिवद्दकए घए अचम्मे अ ।
चुल्लगकरे अभणिए अट्ठारसमाकरुप्पत्ती ।। दृ-गोकरस्तथाभूतमेव तद्द्वारेण वारुपकाणामित्येवं सर्वत्र भावना कार्येति, नवरं शीताकरोभोगः क्षेत्रपरिमाणोद्भव इति चान्ये, उत्पत्तिकरस्तु स्वकल्पनाशिल्पनिर्मितः शतरुपकादिः, शेषं प्रकटार्थमिति गाथाद्वयार्थः ।। उक्तो द्रव्यकर इति, क्षेत्रकराद्यभिधित्सुराहनि.(१०७३) खित्तंमिमि खित्ते काले जो जंमि होइ कालंमि ।
दुविहो अहोइ भावे पसत्थु तह अप्पसत्थो अ ।। वृ-क्षेत्र इति द्वारपरामर्शः, एतदुक्तं भवति-क्षेत्रकरो यो यस्मिन् क्षेत्रे शुल्कादि । काल इति द्वारपरामर्श एव, कालकरो यो यस्मिन् भवति काले कुटिकादानादिः, द्विविधश्च भवति भावे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org