SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४३२ आवश्यक मूलसूत्रम्-१-१/२ पुनराह-सव्वेसिंपि गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाहनि. (१०५५) सव्वेसिपि नयाणं बहुविहवत्तव्ययं निसामित्ता। तं सव्वनयविसुद्धं जं चरणगुणढिओ साहू ।। ..वृसर्वेषामपि मूलनयानाम्, अपिशब्दात् तद्भेदानां च 'नयानां द्रव्यास्तिकादीनां 'बहुविधवक्तव्यतां' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम् अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं' सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाथार्थः ।। सामायिकस्य विवृतिं कृत्वा यदवाप्तमिह मया कुशलम् । तेन खलु सर्वलोको लभतां सामायिकं परमम् ।।१।। यस्माजगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥२॥ अध्ययनं-१-समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे प्रथमअध्ययनस्य भद्रबाहुस्वामिरचिता नियुक्तिः, पूर्वाचार्यरचितं भाष्यं एवं हरिभद्रसूरिणा विरचिता टीका परिसमाप्ता । ४० प्रथमं मूलसूत्रं "आवश्यक"-१- समाप्तम् __ अध्ययनं-१- यावत् समाप्तम् अध्ययन - २...६ आगामी भागे वर्तते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy