________________
अध्ययनं-१ - [नि.१०५४]
४३१
न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहैतोऽपि भवाम्मोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्झानमेव प्रधानमैहिकामुष्पिकफलप्राप्ति कारणमिति स्थितम् । इति जो उवएसो सो नयो नामंति 'इति' एवमुक्तेन न्यानेन यः उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः। अयं च चतुर्विधे सम्यक्त्वादिसामायिके सम्यक्त्वासामायिकश्रुतसामायिकद्वयमेवेच्छति, ज्ञानात्मकत्वादस्य, देशविरतिसर्वविरतिसामायिके तु तत्कार्यत्वात् तदायत्तत्वानेच्छति, गुणभूते चेच्छतीति गाथार्थः ।। उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदं-क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्ष-सिद्धये गाथामाह-'नायंमि गिहियव्वे' त्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्येऽग्रहीतवये चैव अर्थे ऐहिकामुष्मिकफलप्राप्तयर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिद्देश्यते, तथा चान्यैरप्युक्तम्
“क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् ।
यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥" तथाऽऽमुष्मिकफलप्राप्तयर्थिना क्रियैव कर्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थितं, यत उक्तम्
"चेइयकुलगणसंधे आयरिआणं च पव्वयण सुए य ।
सव्वेसुवि तेन कयं तवसंजममुज्जमंतेणं ||१॥" इतश्चैतदेवमङ्गीकर्तवयं यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चाऽऽगमः
"सुबहुंपि सुयमहीयं किं काहि चरणविप्पमुक्कस्स ?।
अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥१॥" शिक्रियाविकलत्वात् तस्येत्यभिप्रायः, एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनान्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्या एव विज्ञेयं, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते यावदखिलकर्मेन्धनानलभूता हूस्वपञ्चाक्षरोगिरणपात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधाना ऐहिकामुष्पिकफलप्राप्तिकारणमिति स्थितम्, ‘इति जो उवएसो सो नओ नाम'त्ति 'इति' एवमुक्तेन न्यायेन य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः, अयं च सम्यक्त्वादौ चतुर्विधे सामायिके देशविरतिसर्वविरतिसामायिक-द्वयमेवेच्छति क्रियात्मकत्वादस्य, सम्यक्त्वसामायिकश्रुतसामायिके तु तदर्थमुपादीयमानत्वाद-प्रधानत्वानेच्छति, गुणभूते चेच्छतीति गाथार्थः ।। उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं ज्ञात्वाऽविदित. तदभिप्रायो विनेयः संशयापन्नः सन्नाह किमत्र तत्त्वं?, पक्षद्वयेऽपि युक्तिसम्भ-वात, आचार्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org