________________
४२८
आवश्यक मूलसूत्रम्-१-१/२
वृसचरित्रस्य सत्त्वस्य पश्चात्तापो निन्दा, स्वप्रत्यक्षं जुगुप्सेत्यर्थः, उक्तं च-'आत्मसाक्षिकी निन्दा" 'तीए चउक्कनिक्खेवो'त्ति तस्यां तस्या वा नामादिभेदचतुष्को निक्षेप इति, तत्र नाभस्थापने अनाध्त्याऽऽह--'दब्बे चित्तकरसुया भावेसु बहू उदाहरण त्ति द्रव्यनिन्दायां चित्रकरसुतोदाहरणं, सा जहा रन्ना परिणीया अप्पाणं निंदियाइयत्ति, भावनिन्दायां सुबहून्युदाहरणानि योगसङ्ग्रहेषु वक्ष्यन्ते, लक्षणं पुनरिदं
'हा ! दुहु कयं हा ! दुइ कारियं दुटु अनुमयं इत्ति ।
अंतो अंतो डन्झइ पच्छातावण वेवंतो 19॥ ति गाथार्थः ।। नि. (१०५०) गरहावि तहाजाईअमेव नवरं परप्पगासणया ।
दव्यंमि मरुअनायं भावेसु बहू उदाहरणा ।। वृ-गर्हाऽपि तथाजातीयैवेति निन्दाजातीयैव, नवरमेतावान् विशेषः-परप्रकाशनया गर्दा भवति, य गुरोः प्रत्यक्षं जुगुप्सा सा गहेति, 'परसाक्षिकी गर्दै ति वचनाद्; असावपि चतुर्विधैव, तत्र नामस्थापने अनाहत्यैवाह-'दव्वंमि मरुअणायं भावेसु बहू उदाहरण'ति । तत्र द्रव्यगर्भायां मरुकोदाहरणं, तच्चेदम्-आणंदपुरे मरुओ ण्हुसाए समं संवासं काऊण उवज्झायस्स कहेइ जहा सुविणए ण्हुसाए समं संवासं गओमित्ति । भावगर्हाए साधू उदाहरणं
'गंतूण गुरुसगासे काऊण य अंजलिं विनयमूलं ।
जह अप्पणो तह परे जाणावण एस गरहा उ ॥१॥ त्ति -गाथार्थः ।। तत्र निन्दामि गर्हामीत्यत्र गर्दा जुगुप्सोच्यते, तत्र किं जुगुप्से ?, 'आत्मानम्' अतीतसावद्योगकारिणमश्लाध्यम्, अथवाऽत्राणम्-अतीतसावद्ययोगत्राणविरहितं जुगुप्से, सामायिकेनाधुना त्राणमिति, अथवा 'अत सातत्यगमने' अतनमतीतं-सावद्ययोगं सततभवनप्रवृत्तं निवर्तयामीति, 'व्युत्सृजामी ति विविधार्थो विशेषार्थो वा विशब्दः उच्छब्दो मृशार्थः सृजामि-त्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, अतीतसावधयोगं व्युत्सृजामीति चा, अवशब्दोऽधःशब्दस्यार्थे विशेषेणाधः सृजामीत्यर्थः, नन्वेवं सावधयोगपरित्यागात् करोमि भदन्त ! सामायिकमिति सावधयोगनिवृत्तिरुच्यते, तस्य व्यवसृजामि शब्दप्रयोगे वैपरीत्यमापद्यते, तत्र, यस्मात् मांसादिविरमणक्रियानन्तरं व्यवसृजामीति प्रयुक्त तद्विपक्षत्यागो मांसभक्षणनि वृत्तिरभिधीयते; एवं सामायिकानन्तरमपि प्रयुक्ते व्यवसृजामिशब्दे तद्विपक्षत्यागोऽवगम्यते, स च तद्विपक्षः सुगम एवेत्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्, गममिकामात्रप्रधानत्वात् प्रारम्भस्य ।। साम्प्रतं व्युत्सर्गप्रतिपादनायाऽऽह ग्रन्थकार:नि. (१०५१) दवविउस्सग्गे खलु पसन्नचंदो हवे उदाहरणं ।
पडिआगयसंवेगो भावंमिवि होइ सो चेव ॥ वृ. इह द्रव्यव्युत्सर्गः-गणोपधिशरीरानपानादिव्युत्सर्गः, अथवा द्रव्यव्युत्सर्गः आर्तध्यानादिध्यायिनः कायोत्सर्ग इति, अत एवाऽऽह-द्रव्यव्युत्सर्गे खलु प्रसन्नचन्द्रो भवत्युदाहरणं, भावव्युत्सर्गस्त्वज्ञानादिपरित्यागः, अथवा धर्मशुक्ध्यायिनः कायोत्सर्ग एव, तथा चाऽऽहप्रत्यागतसंवेगो ‘भावेऽपि' भावव्युत्सर्गेऽपि भवति स एव-प्रसन्नचन्द्र उदाहरणमिति गाथाक्षरार्धः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org