________________
४०
आवश्यक मूलसूत्रम्-११-इह द्रष्टुः सर्वतः संबद्धः प्रदीपप्रभानिकरवदवधिरभ्यन्तरोऽभिधीयते तस्य लब्धिरभ्यन्तरलब्धिः तस्यामभ्यन्तरलब्धौ तु सत्यां अभ्यन्तरावधिप्राप्तावित्यर्थः । तुशब्दो विशेषणार्थः, किं विशिनष्टि ? - तब तदुभयं च तदुभयं, उत्पातप्रतिपातोभयं नास्त्येकसमयेन, 'द्रव्यादौ विषये' इत्यनुवर्तते, किं तर्हि ? -उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिशब्दस्यैवकारर्थत्वात् । अयं भावार्थः-प्रदीपस्येवोत्पाद एव प्रतिपातो वा एकसमयेन भवति 'भ्यन्तरावधेर्न तूभयं, अप्रदेशावधित्वादेव, न टेकस्य एकपर्यायेणोत्पादव्ययौ युगपत्स्यातां अङ्गुल्याकुञ्चनप्रसारणवदिति गाथार्थः ॥ प्रतिपादितं प्रतिपातोत्पादद्वारं, इदानीं यदुक्तं 'संखेज्ज मनोदब्बे, भागो लोगपलियस्स' इत्यादि, तत्र द्रव्यादित्रयस्य परस्परोपनिबन्ध उक्तः, इदानीं द्रव्यपर्याययोः प्रसङ्गत एवोत्पादप्रतिपाताधिकारे प्रतिपादयन्नाहनि. (६४) दवाओ असंखिने, संखेल्जे आवि पञ्जवे लहइ ।
दो पज्जवे दुगुणिए, लहइ य एगाउ दव्वाउ ।। वृ. परमाण्वादिद्रव्यमेकं पश्यन् द्रव्यात्सकाशात् तत्पर्यायान् उत्कृष्टतोऽसंख्येयान् संख्येयाश्चापि मध्यमतो लभते प्राप्नोतिपश्यती त्यनन्तरं, तथा जधन्यतस्तु द्वौ पर्यायौ द्विगुणिती 'लभते च पश्यति च एकस्माद् द्रव्यात्, एतदुक्तं भवति-वर्णगन्धरसस्परहनेव प्रतिद्रव्यं पश्यति, न त्वनन्तान्, सामान्यतस्तु द्रव्यानन्तत्वाादेव अनन्तान् पश्यतीति गाथार्थः ।
साम्प्रतं युगपज्ज्ञानदर्शनविभङ्गद्वारावयवार्थाभिधित्सयाऽऽह-~ नि. (६५) सागारमनागारा, ओहिविभंगा जहन्नगा तुल्ला ।
उवरिमगेवेजेसु उ, परेण ओही असंखिज्जे । वृ-तत्र यो विशेषग्राहकः स साकारः, स च ज्ञानमित्युच्यते,यः पुनः सामान्यग्राहकोऽवधिविभङ्गो वा सोऽनाकारः, स च दर्शनं गीयते, तत्र साकारानाकाराववधिविभङ्गो जघन्यको तुल्यावेव भवतः, सम्यादृष्टेरवधिः, मिथ्याध्ष्टेस्तु स एव विभङ्गः, लोकपुरुषग्रीवासंस्थानीयानि ग्रैवेयकाणि विमानानि, उपरिमाणि च तानि ग्रैवेयकाणि चेति समासः, तुशब्दोऽपिशब्दस्यार्थे द्रष्टवयः, भवनपतिदेवेभ्यः खल्वारभ्य उपरिमौवेयकेष्वपि अयमेव न्यायो यदुत-साकारानाकारी अवधिविभङ्गौ जघन्यादारभ्य तुल्याविति, न तूत्कृष्टौ, ततः परेण' इति परतः अवधिरेव भवति, मिथ्याष्टीनां तत्रोपपाताभावात्, स च क्षेत्रत्ः असंख्येयो भवति, योजनापेक्षयेति गाथार्थः ॥ इदानी देशद्वारावयार्थ प्रचिकटयिषुरिदमाहनि. (६६) नेरइयदेवतित्थंकरा य ओहिस्सऽबाहिरा हुंति ।
पासंति सव्वओ खलु, सेसा देसेन पासंति ॥ कृ-'नारकाः' प्राग्निरूपितशब्दार्थाः देवा अपि तीर्थकरणशीलास्तीर्थकराः, नारकाश्च देवाश्च तीर्थकराश्चेति विग्रहः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः सम्बन्ध इति दर्शयिष्यामः, एते नारकादयः 'अवधेः' अवधिज्ञानस्य न बाह्या अबाह्या भवन्ति, इदमत्र हृदयं-अवध्युपलब्धस्य क्षेत्रस्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात्, प्रदीपवत्, ततश्चार्थादबाह्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः । तथा पश्यन्ति 'सर्वतः' सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽप्येवकारार्थः, स चावधारण एव, सवास्वेिव दिग्विदिक्ष्विति, सर्वत एवेत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org