________________
पीठिका - [नि. ५९]
णामपि अनन्तभागादिवृद्धिरिति षट्स्थानकमनुपपन्नमिति, अत्रोच्यते, सामान्यन्यायमङ्गीकृत्य इदमित्थमेव, यदा क्षेत्रानुवृत्त्या पुद्गलाः परिसंख्यायन्ते, पुद्गलानुवृत्त्या च तत्पर्यायाः, न चात्रैवं, कथम् ? -यस्मात्स्वक्षेत्रादनन्तगुणाः पुद्गलाः, तेभ्योऽपि पर्याया इति, अतो यस्य यथैवोक्ता वृद्धिानिर्वा तस्य तथैवाविरुद्धेति, प्रतिनियतविषयत्वात्, विचित्रावधिनिबन्धनाचेति गाथार्थः । एवं तावच्चलद्वारं; इदानीं तीव्रमन्दद्वारावयवार्थे व्याचिख्यासुरिदमाहनि. (६०) फड्डा य असंखिज्ज, संखेज्जा यावि एगजीवस्स ।
एकप्फड्डुवओगे, नियमा सव्वत्थ उवउत्तो । वृ- इह फडकानि अवधिज्ञाननिर्गमद्वाराणि अथवा गवाक्षजालादिव्यवहितप्रदीपप्रभाफड्डुकानीव फड्डकानि, तानि चासंख्येयानि संख्येयानि चैकजीवस्य, तत्रैकफड्डकोपयोगे सति नियमात् ‘सर्वत्र' सर्वैः फड्डकैरुपयुक्ता भवन्ति, एकोपयोगत्वाञ्जीवस्य, लोचनद्वयोपयोगवद्, प्रकाशमयत्वाद्वा प्रदीपोपयोगवदिति । आह-तीव्रमन्दद्वारं प्रकान्तं विहाय फडकावधिस्वरूपं प्रतिपादयतः प्रक्रमविरोध इति, अत्रोच्यते, प्रायोऽनुगामुकाप्रतिपातिलक्षणौ फडकौ तीव्रौ, तथेतरौ मन्दौ, उभयस्वभावता च मिश्रस्येति गाथार्थः ॥ नि. (६१) फड्डा य आणुगामी, अणाणुगामी य मीसगा चेव ।
पडिवाइ अपडिवाई, मीसो य मणुस्सतेरिच्छे ।। वृ. फडकानि-पूर्वोक्तानि, तानि च अनुगमनशीलानि आनुगामुकानि, एतद्विपरीतानि अनानुगामुकानि, उभस्वरूपाणि मिश्रकाणि च, एवकारः अवधारणे, तान्येकैकशः प्रतिपतनशीलानि प्रतिपातीनि, एवमप्रतिपातीनि मिश्रकाणि च भवन्ति, तानि च मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्तीति । आह-आनुगामुकाप्रतिपातिफडकयोः कः प्रतिविशेषः ?, अनानुगामुकप्रतिपातिफड्कयोति, अत्रोच्यते, अप्रतिपात्यानुगामुकमेव, आनुगामु कं तु प्रतिपात्यप्रतिपाति च भवतीति शेषः । तथा प्रतिपतत्येव प्रतिपाति, प्रतिपतितमपि च सत् पुनर्देशान्तरे जायत एव, नेत्थमनानुगामुकमिति गाथार्थः ।।
व्याख्यातं तीव्रमन्दद्वारं, इदानीं प्रतिपातोत्पादद्वारं विवृण्वन् गाथाद्वयमाहनि. (६२) बाहिरलंभे भन्ने, दव्वे खित्ते य कालभावे य ।
उप्पा पडिवाओऽविय, तं उभयं एगसमएणं ।। वृ-तत्र द्रष्टुर्बहिर्योऽवधिस्तस्यैव एकस्यां दिशि अनेकासु वा विच्छिन्नः स बाह्यः तस्य लाभो बाह्यलाभः, अवधिः पक्रमात् गम्यते, अस्मिन् बाह्यलाभे सति-बाह्यावधिप्राप्तौ सत्यां 'भाज्यो' विकल्पनीयः, कोऽसौ ? -उत्पादः प्रतिपात तदुभयगुणश्च एकसमयेनेति सम्बन्धः, किंविषय इति?, आह–'द्रव्य' इति द्रव्यविषयः, एवं क्षेत्रकालभावविषय इति, अपिचशब्दाः पूरणसमुच्चयार्थाः । अयं भावार्थ:-एकस्मिन् समये द्रव्यादौ विषये बह्यावधेः कदाचिदुत्पादो भवति कदाचिद्व्ययः कदाचिदुभयं, दावानलदृष्टान्तेन, यथा हि दावानलः खल्वेककाल एवैकतो दीप्यतेऽन्यतश्च ध्वंसत इति, तथा अवधिरपि एकदेशे जायते अन्यत्र प्रच्यवत इति गाथार्थः नि. (६३) अभितरलद्धीए, उ तदुभयं नस्थि एगसमएणं ।
उप्पा पडिवओऽविय, एगयरो एगसमएणं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org