________________
४२३
अध्ययनं-१ - [नि.१०४४] करणेन, करणे तृतीयेति, मनसा वाच कायेन चेति, अत्र मनःप्रभृतीनां पूर्वं स्वरूपं दर्शितमेवेति न प्रतन्यते,नवरं भावार्थ उच्यते-तत्र 'त्रिविधं त्रिविधेिने' त्यत्रानन्तरस्य करणस्य विवरणसूत्रमेवेदं, यदुत-मनसा वाचा कायेनेति, तस्य च करणस्य कर्म प्रत्यख्येयो योगस्तमपि सूत्र एव विवृणोति-न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि-नानुमन्येऽहमिति । अत्राऽऽहकिं पुनः कारणमुद्देशक्रममतिलङ्घय व्यत्सासेन निर्देशः कृत इति?, अत्रोच्यते, योगस्य करणतन्त्रो (न्त्रतो) पदेशनार्थं, तथाहि-योगः करणवश एव, करणानां भावे योगस्यापि भावादभावे चाभावादिति, करणाना मेव तथा क्रियारूपेण परिणतेरित्यत्र बहु वक्तव्यं तत्तुं नोच्यते ग्रन्थविस्तरभयादिति, अपरस्त्वाह-न करोमि न कारणामि कुर्वन्तं न समनुजानामीत्येतावता ग्रन्थेन गतेऽन्यमपीत्यतिरिच्यते, तथा चातिरिक्तेन सूत्रेण नार्थः, उच्यते, साभिप्रायकमिदम्, अनुक्तस्याप्यर्थस्य सङ्ग्रहार्थं, यस्मात् सम्भावनेऽपिशब्दोऽयं, सोऽयमपिशब्दः उभयशब्दमध्यस्थ एतत् करोति-यथा कुर्वन्तं नानुजानामि एवं कारयन्तमप्यनुज्ञापयन्तमप्यन्यं नानुजानामि, तथा यथा वर्तमानकाले कुर्वन्तमन्यं न समनुजानामीति एवमपिशब्दादतीतकाले कृतवन्तमपि कारितवन्तमपि तथाऽनागतेऽपि काले करिष्यन्तमपि कारयिष्यन्तमपीति त्रिकालोपसङ्ग्रहो वेदितव्य इति, न क्रियाक्रियावतोर्भेद एव अतो न केवला क्रिया सम्भवतीति ख्यापनार्थमन्यग्रहणम्, अत्रापि बहु वक्तव्यं तत्तु नोच्यते मा भूत् मुग्धमतिविनेयसम्मोह इति, किञ्चित्तु सूत्रस्पर्शनियुक्तौ वक्ष्याम इति । एवं तावदिदमेतावत् सूत्रस्य व्याख्यातम् ।। इह च सर्व सावध योग प्रत्याख्यामीत्यत्र प्रत्याख्यानं गृहस्थान् साधूंश्चाधिकृत्य भेदपरिणामतो निरूपयवाहनि. (१०४५) सीआलं भंगसयं तिविहं तिविहेण समिइगुत्तीहिं ।
सुत्तप्फासिअनि त्तिवित्थरत्थो गओ एवं ॥ वृ-गुरवस्तु व्याचक्षते-तदिदमेतावत् सूत्रस्य व्याख्यातं, साम्प्रतं त्रिविधं त्रिविधेनेत्येतदेव किल व्याचष्टे, तत्र त्रिविधं सावधं योगं प्रत्याख्येयं कृतकारितानुमतिभेदभिन्नं त्रिविधेन मनसा वाचा कायेनेति करणेन प्रत्याख्याति यतः अतस्तद्भेदोपदर्शनायैवाऽऽह-सिआलं भंगसयं गाहा ॥अत्राऽऽह-यद्येवमिह सर्वसावद्ययोगप्रत्याख्यानाधिकारात् सप्तचत्वारिंशदधिकशतं प्रत्याख्यानभेदानां गृहस्थप्रत्याख्यानभेदत्वादयुक्तमेतदिति, अत्रोच्यते, न, प्रत्याख्यानसामान्यतो गृहस्थप्रत्या-ख्यानभेदाभिधानेऽप्यदोषत्वादित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र 'सीयालं भंगसयं'ति-एतद्भव्यते,
“सीयालं मंगसयं गिहिपञ्चक्खाणभेयपरिमाणं ।
तं च विहिणा इमेणं भावेयव्वं पयत्तेणं ॥१॥ तिनि तिया तिनि दुगा तिन्निक्किक्का य होति योगेसुं।
तिदुएकं तिदुएकं चेव करणाई ॥२॥ पढमे लब्भइ एगो सेसेसु पएसु तिय तिय तियं च ।
दो नव तिय दो नवगा तिगुणिय सीयालभंगसयं ॥३॥' का पुनरत्र भावना ?, उच्यते-न करेइ न कारवेइ करेंतमपि अन्नं न समणुजाणइ मणेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org