________________
४१०
आवश्यक मूलसूत्रम्-१. १/२
एकभाग एव स्थितत्वात, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा पुनरुक्तदोषप्रसङ्गः, तथा चोक्तं -
"ननु भणियमुवग्घाए केसुत्ति इहं कओ पुणो पुच्छा ?। केसुत्ति तत्थ विसओ इह केसु ठियस्स तल्लाहो ॥१॥ तो किह सव्वद्दव्यावस्थाणं ? ननु जाइमेत्तवयणाओ।
धम्माइसव्वदव्वाहारो सम्बो जनोऽवस्सं ॥२॥" अथवोपोद्घाते सर्वद्रव्याणि विषयः सामायिकस्य, इह तान्येव सर्वद्रव्याणि सामायिकस्य हेतुः, श्रद्धेयज्ञेयक्रियानिबन्धनत्वात्, अथवाऽन्यथा पुनरुक्तपरिहारः-कृताकृतादिगाथायां कृतमकृतं वा सामायिकं कार्य कर्म, कतु रीप्सिततमत्वात्, केन कृतमिति कर्तुः प्रश्नः, केषु द्रव्येष्विति साधकतमकरणप्रश्नः, प्राकृते तृतीयाबहुवचनं सप्तमीबहुवचनतुल्यं तृतीयार्थे वा सप्तमी कृत्वा निर्देशः, न चैतदपि स्वमनीषिकाव्याख्यानं, यतो भाष्यकारेणाप्यभ्यधायि
"विसओवि उवग्याए केसुत्तीहं स एवं हेउत्ति । सद्धेयणेयकिरियानिबंधनं जेण सामइयं ॥१॥ (अहवा) कयाकयाइसु कज्जं केण व कयं च कत्तत्ति ।
केसुत्ति करणभावो ततियत्थे सत्तमी काउं ॥२॥" इत्यलं प्रसङ्गेनेति गाथार्थः ।। साम्प्रतं कदा कारकोडस्य भवतीत्येतन्नयैर्निरूपयन्नाह[भा.१७१] काहु ? उदिढे नेगम उवट्ठिए संगहो अ ववहारो।
उज्जुसुओ अक्कमंते सहु समत्तंमि उवउत्तो ॥ वृ. कदाऽसौ सामायिकस्य कारको भवतीति प्रश्नः, इह नयैर्निर्वचनं 'उद्दिढे नेगम'त्ति उद्दिष्टे सति नैगमो मन्यते, इयमत्र भावना-सामान्यग्राहिणो नैगमनस्योद्दिष्टमात्र एव सामायिके गुरुणा शिष्योऽनधीयानोऽपि तक्रियाऽननुष्ठायी सन् सामायिकस्य कर्ता वनगमनप्रस्थितप्रस्थककर्तृवत्, यस्मादुद्देशोऽपि तस्य कारणं सामायिकस्य, तस्मिंश्च कारणे कार्योपचारः, 'उवट्ठिए संगहो य ववहारो'त्ति सङ्ग्रहो व्यवहारश्च मन्यते-उपस्थितः सन् कारको भवतीति, इयमत्र भावना-इहोद्देशानन्तरं वाचनाप्रार्थनाय यदा वन्दनं दत्त्वोपस्थितो भवति तदा प्रत्यासत्रतरकारणत्वात् सङ्ग्रहव्यवहारयोः कारक इति, ऋजुसूत्र आक्रामन् कारको भवतीति मन्यते, एतदुक्तं भवति-उद्देशानन्तरं गुरुपादमूले वन्दित्वोपस्थितः-सामायिकं पठितुमारब्धः कारकः, वृद्धास्तु व्याचक्षते-न पठन्नेव, किन्तु समाप्तेः कारक इति सामायिकक्रियां वा प्रतिपद्यमानस्तदुपयोगरहितोऽपि कारकः, यस्मात् सामायिकार्थस्य सामायिकशब्दक्रिये असाधारणं कारणम्, असाधारण कारणेन च व्यपदेश इति, 'सहु समत्तंमि उक्उत्तोत्ति शब्दादयो नया मन्यन्ते-समाप्ते सत्युपयुक्त एव कारको भवति, त्रयाणां च शब्दादीनां नयानां शब्दक्रियावियुक्तोऽपि नया मन्यन्ते-समाप्ते सत्युपयुक्त एव कारको भवति, सामायिकस्येति भावना, अयं गाथार्थः । कदा कारक इति गतं, नयतो-नयप्रपञ्चत इत्यर्थः, अथवा कदा कारक इत्येतावद् द्वारं गतं, नयत इत्येतत्तु द्वारान्तरमेव, अतस्तदभिधित्सयाऽऽह
[भा.१७८]आलोअणा य १ विणए २ खित्त ३ दिसाऽभिग्गहे अ ४ काले ५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org