________________
४०६
आवश्यक मूलसूत्रम् -१-१/२ पुनः द्विविधं' द्विप्रकारं-श्रुतकरणं नाश्रुतकरणं च, श्रुतकरणमिति श्रुतस्य जीवभावत्वाच्छ्रुतभावकरणं, नाश्रुतभावकरणं च गुणकरणादि, चशब्दस्य व्यवहितः सम्बन्ध इति गाथार्थः ॥ साम्प्रतं जीवभावकरणेनाधिकार इति तदेव यथोद्दिष्टं तथैव भेदतः प्रतिपिपादयिषुराहनि. (१०२०) बद्धमबद्धं तु सुअं बद्धं तु दुवालसंग निद्दिष्टं ।
तविवरीअमबद्धं निसीहमनिसीह बद्धं तु ॥ वृ. इह बद्धमबद्धं तु श्रुतं, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-लौकिकलोकोत्तरभेदमिदमेवमिति, तत्र पधगद्यबन्धनाद् बद्धं शास्त्रोपदेशवत् अत एवाह-वद्धं तु द्वादशाङ्गम्आचारादि गणिपिटकं निर्दिष्टं, तुशब्दस्य विशेषार्थत्वाल्लोकोत्तरमिदं, लौकिकं तु भारतादि विज्ञेयमिति, तद्विपरीतमबद्धम् लौकिकलोकोत्तरभेदमेवाबसेयमिति, निषीथमुच्यते, प्रकाशपाठात् प्रकाशेपदेशत्वाचानिषीथमिति गाथार्थः ।। साम्प्रतमनिषीयनिषीथयोरेव स्वरूपप्रतिपादनायाहनि. (१०२१) भूआपरिणयविगए सद्दकरणं तहेव न निसीहं।
पच्छन्नं तु निसीहं निसीहनामं जहऽज्झयणं ।। वृ-भूतम्-उत्पन्नम् अपरिणतं-नित्यं विगतं-विनष्टं, ततश्च भूतापरिणतविगतानि, एतदुक्तं भवति-'उप्पन्ने इ वा विगए इ वा धुवे इ वा' इत्यादि, शब्दकरणमित्यनेनोक्तिमाह, तथा चोक्तम्-'उत्ती तु सद्दकरणे' इत्यादि, तदेवं भूतादिशब्दकरणं 'न निषीय' मिति निषीथं न भवति, प्रकाशपाठात् प्रकाशेपदेशत्वान्च, प्रच्छन्नं तु निषीथं रहस्यपाठाद् रहस्योपदेशाच्च निषीथनाम यथाऽध्ययनमिति गाथार्थः ॥ अथवा निषीथं गुप्तार्थमुच्यते, “जहा-अग्गाणीए विरिए अत्थिनस्थिप्पवायपुव्वे य पाठो-जत्थेगो दीवायणो भुंजइ तत्थ दीवायणसयं भुंजइ जत्थ दीवायणसयं मुंजइ तत्थ एगो दीवायणो मुंजइ, एवं हम्मइ वि जाव जत्य दीवायणसयं हम्मइ तत्थेगो दीवायणो हम्मइ," तथा चामुमेवार्थमभिधातुकाम आहनि. (१०२२) अग्गेणीअंमि य जहा दीवायण जत्थ एग तत्य सयं ।
जत्थ सयं तत्थेगो हम्मइ वा भुंजए वावि ॥ वृ-सम्प्रदायाभावान प्रतन्यत इति ।। नि. (१०२३) एवं बद्धमबद्धं आएसाणं हवंति पंचसया ।
जह एगा मरुदेवी अञ्चंतत्थावरा सिद्धा ।। वृ-'एवम्' इत्यनन्तरोक्तप्रकारं 'बद्धं लोकोत्तरं, लौकिकं त्वत्रारण्यकादि द्रष्टव्यम्, अबद्धां पुनरादेशानां भवन्ति पञ्च शतानि, किम्भूतानि ?, अत आह-यथैका-तस्मिन् समयेऽद्वितीया 'मरुदेवी' ऋषभजननी 'अत्यन्तस्थावरा' इत्यनादिवनस्पतिकायादुद्वृत्त्य सिद्धा' निष्ठिता सातेति, उपलक्षणमेतदन्येषामपि स्वयम्भूरमणजलधिमत्स्यपद्मपत्राणां वलयव्यतिरिक्तसकलसंस्थानसम्भवादीनामिति, लौकिकमप्य ड्डिकाप्रत्यड्डिकादिकरणं ग्रन्थानिबद्धं वेदितव्यमिति गाथार्थः । अत्र वृद्धसम्प्रदायः-आरुहए पवयणे पंच आएससयाणि जाणि अनिबद्धाणि, तत्थेगं मरुदेवा नवि अंगे न उवंगे पाठो अस्थि जहा-अचंतं थावरा होइऊण सिद्धत्ति, विइयं सयंभुरमणे समुद्दे मच्छाणं पउमपत्ताण य सव्वसंठाणाणि अत्यि वलयसंठाणं मोत्तु, तइयं Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org