________________
पीठिका - [नि. ५३]
प्रयोगः-मनुष्यतिर्यक्ष्वेव जघन्यो, न नारकसुरेषु, तत्र उत्कृष्टो लोकमात्र एव अवधिः, प्रतिपतितुं शलमस्येति प्रतिपाती, ततः परमप्रतिपात्येव लोकमात्रादाववधिमाने प्रतिपादिते प्रसङ्गतः प्रतिपात्यप्रतिपातिस्वरूपाभिधानमदोषायैवेति गाथार्थः ।
उक्त क्षेत्रपरिमाणद्वारं, साम्प्रतं संस्थानद्वारं व्याचिख्यासयेदमाहनि. (५४) थिबुयायार जहन्नो, वट्टो उक्कोसमायओ किंची।
अजहन्नमनुक्कोसो य खित्तओ नेगसंठाणो ।। वृ- "स्तिबुक' उदकबिन्दुः तस्येवाकारो यस्यासौ स्तिबुकाकारः, जघन्योऽवधिः । तमेव स्पष्टयनाह-'वृत्तः' सर्वतो वृत्त इत्यर्थः, पनकक्षेत्रस्य वर्तुलत्वात् । तथा उत्कृष्ट आयतः प्रदीर्घः किञ्चित्' मनाक् वह्निजीवश्रेणिपरिक्षेपस्य स्वदेहानुवृत्तित्वात, तथा 'अजघन्योत्कृष्टश्च' न जघन्यो नाप्युत्कृष्ट: अजघन्योत्कृष्ट इति । चशब्दोऽवधारणे, अजघन्योत्कृष्ट एव, क्षेत्रतोऽनेकसंस्थानः' अनेकानि संस्थानानि यस्यासावनेकसंस्थान इति गाथार्थः । एवं तावजघन्येतरावधिसंस्थानमभिहितं, साम्प्रतं विमध्यमावधिसंस्थानाभिधित्सयाऽऽहनि. (५५)तप्पागारे १ पल्लग २ पडहग ३ झल्लरि ४ मुइंग ५ पुप्फ ६ जवे ७।
तिरियमनुएसु ओही, नाणाविहसंठिओ भणिओ ॥ वृ-'तप्रः' उडुपकः तस्येवाकारो यस्यासौ तप्राकारः, तथा पल्लको नाम लाटदेशे धान्यालयः, आकारग्रहणमनुवर्तते, तस्येवाकारो यस्यासौ पल्लकाकारः, एवमाकारशब्दः प्रत्येकमभिसंबन्धनीयः इति, पटह एव पटहकः-आतोद्यविशेषः, तथा चविनद्धा विस्तीर्णवलयाकारा झल्लरी आतोद्यविशेषः एव, तथा ऊर्ध्वायतोऽधो विस्तीर्ण उपरि च तनुः, मृदङ्गः आतोद्यविशेष एव । 'पुप्फेति' 'सूानात्सूत्र' इतिकृत्वा पुष्पशिखावलिरचिता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, 'यव' इति यवनालकः, स च कन्याचोलकोऽभिधीयते, अयं भावार्थः-तप्राकारादिरवधिर्यवनालकाकारपर्यन्तो यथासंख्यं नारकभवनपतिव्यजन्तरज्योतिष्ककल्पोपपन्नकल्पातीतग्रैवेयकानुत्तरसुराणां सर्वकालनियतोऽवसेयः, तिर्यग्नराणां भेदेन नानाविधाभिधानाद्, आह च-तिर्यञ्चश्च मनुष्याश्च तिर्यग्मनुष्याः तेषामवधिः नानाविधसंस्थानसंस्थितो-नानाविधसंस्थितः, संस्थानशब्दलोपात्, स्वयंभूरमणजलधिनिवासिमत्स्यगणवत्, अपितु तत्रापि वलयं निषिद्धं मत्स्यसंस्थानतया, अवधिस्तु तदाकारोऽपीति 'भणितः'उक्तः अर्थतस्तीर्थकरैः सूत्रतोगणधरैरिति, अयं च भवनव्यन्तराणां ऊर्ध्वं बहुर्भवति, अवशेषाणां तु साराणामधो, ज्योतिष्कनारकाणां तु तिर्यक्, विचित्रस्तु नरतिरश्चामिति गाथार्थः ।।
उक्तं संस्थानद्वारं, साम्प्रतमानुगामुकद्वारार्थप्रचिकटयिषयेदमाहनि. (५६) अनुगामिओ उ ओही, नेरइयाणं तहेव देवाणं ।
अनुगामी अननुगामी, मीसो य मनुस्सतेरिच्छे ।। वृ.अनुगमनशील आनुगामुकः, लोचनवदू, तुशब्दस्त्वेवकारार्थः, स चावधारणे, आनुगामुक एव अवधिः, केषामित्यत आह-नरान् कायन्तीति नरकाः-नारकाश्रयाः तेषु भवा नारका इति, तेषां नारकाणां, 'तथैव' आनुगामुक एव, दीव्यन्तीति देवास्तेषामिति । तथा आनुगामुकः, अननुगमनशीलोऽननुगामुकः स्थितप्रदीपवत् तथा एकदेशानुगमनशीलो मिश्रः, देशान्तरगत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org