________________
३६
नि. (५०)
छट्ठि हिट्टिममज्झिमगेविज्जा सत्तमिं च उवरिल्ला | संभिन्नलोगनालि, पासंति 'अनुत्तरा देवा ॥
वृ- लोकपुरुषग्रीवास्थाने भवानि ग्रैवेयकानि विमानानि, तत्र अधस्त्यमध्य-मग्रैवेयकनिवासिनो देवा अधस्त्यमध्यमग्रैवेयकाः, ते हि षष्ठीं पृथिवीं तमोऽभिधानामवधिना पश्यन्तीति योग:, तथा सप्तमी च पृथिवीमुपरितनग्रैवयकनिवासिन इति, तथा 'संभिन्नलोकनाडीं' चतुर्दशरज्ज्वात्मिकां कन्यकाचोलकसंस्थानामवधिना पश्यन्ति, अनुत्तरविमानवासिनोऽनुत्तराः, तत्र एकेन्द्रियादयोऽपि भवन्ति तद्व्यवच्छेदार्थमाह- 'देवाः' । एवं क्षेत्रानुसारतो द्रव्यादयोऽप्यवसेयाः इति गाथार्थः ||
आवश्यक मूलसूत्रम् - १
एवमधो वैमानिकावधिक्षेत्रप्रमाणं प्रतिपाद्य साम्प्रतं तिर्यगूर्ध्वं च तदेव दर्शयन्नाहनि. (५१) एएसिमसंखिज्जा, तिरियं दीवा य सागरा चेव । बहुअअरं उवरिमगा, उड्ड सगकप्पथूभाई ॥
वृ- 'एतेषां शक्रादीना, संख्यायन्त इति संख्येयाः न संख्येया असंख्येयाः, तिर्यगू, द्वीपाश्चजम्बूद्वीपादय:, सागराश्च लवणसागरादयः क्षेत्रतोऽवधिपरिच्छेद्यतया अवसेयाः इति वाक्यशेषः, तथा उक्तलक्षणात्- असंख्येयद्वीपोदधिमानात् क्षेत्रात् बहुतरं, उपरिमा एव उपरिमका उपर्युपरिवासिनो देवाः, खल्ववधिना क्षेत्रं पश्यन्तीति वाक्यशेषः, तथा ऊर्ध्वं स्वकल्पस्तूपाद्येव यावत् क्षेत्रं पश्यन्ति, आदिशब्दाद् ध्वजादिपरिग्रहः इति गाथार्थः । इत्थं वैमानिकानां अवधिक्षेत्रमानमभिधाय इदानीं सामान्यतो देवानां प्रतिपादयन्नाह
नि. (५२)
संजोयणा खलु, देवाणं अद्धसागरे ऊने । तेन परमसंखेज्जा, जहन्नयं पंचवीसं तु ॥
- संख्येयानि च तानि योजनानि चेति विग्रहः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, अस्य चोभयथा संबन्धमुपदर्शयिष्यामः 'देवानां' 'अर्धसागरे' इति अर्धसागरोपमे न्यूने आयुषि सति संख्येययोजनान्येव अवधिक्षेत्रमिति । अर्धसारोपमन्यून एव आयुष सति, 'ततः परं ' अर्धसागरोपमादावायुषि सति असंख्येयानि योजनानि अवधिक्षेत्रं वैमानिकवर्जदेवानां सामान्यत इति । विशेषतस्तु ऊर्ध्वमधस्तिर्यक् च संस्थानविशेषादवसेयमिति । तथा जघन्यकमवधिक्षेत्रं देवानामिति वर्त्तते, 'पञ्चविंशतिः' तुशब्दस्यैवकारार्थत्वात् पञ्चविंशतिरेव योजनानि, एतच्च दशवर्षसहस्त्रस्थितीनामवसेयं, भवनपतिव्यन्तराणामिति, ज्योतिष्काणां त्वसंख्येयस्थितित्वात् संख्येययोजनान्येव जघन्येतरभेदमवधिक्षेत्रमवसेयमिति, वैमानिकानां तु जघन्यमङ्गुलासंख्येयभागमात्रमवधिक्षेत्रं, तच्चोपपातकाले परभवसंबन्धिनमवधिमधिकृत्येति, उत्कृष्टमुक्तमेव 'संभिन्न अलोगनालिं, पासंति अनुत्तरा देवा' इत्यलमतिविस्तरेणेति गाथार्थः ॥ साम्प्रतमयमेवावधिः येषां सर्वोत्कृष्टादिभेदभिन्नो भवति, तान्प्रदर्शयन्नाहनि. (५३) उक्कोसो मनुए, मनुस्सतिरिएसु य जहन्नो य ।
उक्कोस लोगमित्तो, पडिवाइ परं अपडिवाई ||
वृ- द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिः मनुष्येषु एव, नामरादिषु, तथा मनुसयाश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चः तेषु मनुष्यतिर्यक्षु च जघन्यः चशब्द एवकारार्थः, तस्य चैवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
·